82059: भित्तं शकलम्

Padacheda: भित्तम् | S | 1 | 1 |

शकलम् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The word भित्त is irregularly formed in the sense of ‘a fragment, a portion’.

Vasu English Translation

The word भित्त is irregularly formed in the sense of ‘a fragment, a portion’. Thus भित्तं तिष्ठति, भित्तं प्रपतति ॥ This is synonymous with शकल ॥ The root-meaning of भिद् is not very manifest in this word, it may be taken as a rudhi word. The regular form is भिन्नं under (8.2.42).

Bhashya

भित्तं शकलम् भित्तं शकलमित्युच्यते तत्रेदं न सिध्यति-भित्तं भिन्नमिति। नैषः दोषः-सर्वत्रैवाऽत्र भिदिर्विदारणसामान्ये वर्तते, तत्रावश्य विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः,-भिन्नम्॥ किम्(1)?॥ भित्तमिति। ॥ तत्वमभिधायकं(2) चेच्छकलस्याऽनर्थकः(3) प्रयोगः स्यात्॥ शकलेन चाप्यभिहिते न (1) भवति तत्वं निगमयामः॥

Kashika

भित्तमिति निपात्यते शकलं चेत् तद् भवति। भित्तं तिष्ठति। भित्तं प्रपतति। शकलपर्यायोऽयम्। अत्र भिदिक्रि या शब्दव्युत्पत्तेरेव निमित्तम्। भिदिक्रियाविवक्षायां हि शकलविषये भिन्नं भित्तमित्येव भवति॥

Siddhanta Kaumudi

भिन्नमन्यत् ॥

Balamanorama

भित्तं शकलम् - भित्तं शकलम् । शकले वाच्ये भिदेः क्तस्य नत्वाऽभावो निपात्यते । शकलत्वजातिविशिष्टेऽवयवार्थमनपेक्ष्य रूढोऽयम् । ततश्च भित्तशकलयोः पर्यायत्वान्न सहप्रयोगः । भिदिक्रियाविवक्षायां तुभित्तं भिन्न॑मिति भवतीति भाष्ये स्पष्टम् ।

Tattvabodhini

भित्तं शकलम् - भित्तं शकलम् । भिदेः क्तेरदाभ्या॑मिति प्राप्तनत्वस्याऽभावो निपात्यते ।भित्तं शकलखण्डे वा॑ इत्यमरः । भिन्नमन्यदिति । विदीर्ममित्यर्थः ।

Padamanjari

शकलपर्यायोऽयमिति । यथा शकलशब्दो जातिशब्दः, न क्रियाशब्दः, तथा भितशब्दोऽपीत्यर्थः । नन्वयं भिदेर्धातोः व्युत्पाद्यमानः क्रियाशब्दः, स कथं जातिशब्दस्य पर्यायो भवति ? अत आह - अत्रेति । सन्ति हि ते शब्दा येषु व्युत्पत्तिमात्रोपयोगिनी क्रिया, जातिरेव तु समुदायशक्त्या शब्दार्थः, यथा - तैलं पिबतीति तैलपायिकेति । किमर्थं पुनरेवमाश्रीयते ? इत्याह - भिदिक्रियाविवक्षायां हीति । साम्यप्रतिपादनार्थं शकलग्रहणम् । यता विदाहरणविवक्षायां भिन्नं शकलमिति भवति, तथा भिन्नं भितमित्येव प्रयोग इत्यर्थः । क्रियाशब्दत्वे तु भिन्नशब्देनैव क्रियाया उपातत्वाद्भिन्नमित्यस्यैव प्रयोगो न स्यात् । अन्ये त्वाहुः - यथा विदारणक्रियया शकलं निवर्तते, तदा तामङ्गीकरोत्येव भिन्नशब्दः, यत् शकलस्य सतो विदारणं तदा तत्प्रतिपादनाय भिन्नं भितमिति प्रयोग इति ॥

Nyaas

भित्तमिति निपात्यते इति। किं निपात्यते? रदाभ्यामिति (8.2.42) नत्वे प्राप्ते तदभाव इति। शकलं चेत्तद्भवति इति। शकलशब्दस्य योऽर्थः, खमण्ड इति यस्यापरमभिधानम्, भित्तशब्दस्यापि यदि स एवार्थो भवतीत्यर्थः। कथं पुनर्भित्तशब्दस्य शकलमर्थो भवति? इत्याह -शकलपर्यायोऽयम् इति। भित्तशब्दः शकलस्यैव पर्यायः। तस्माद्यथा शकलशब्दस्य शकलमभिधेयं भवति, एवं भित्तशब्दस्यापि। ननु च शकलशब्दोऽयं जातिशब्दः; जातिप्रव-त्तिनिमित्तमुपादाय स्वाभिदेये प्रवृत्तत्वात्; भित्तशब्दस्तु क्रियाशब्दः, क्रियाप्रवृत्तिनिमित्तत्वात्; तथा हि -भिदेर्विदारणार्थात्? क्ते विहिते भित्तमिति निपात्यते, न च क्रियाशब्दो जातिशब्दपर्याय उपपद्यते? इत्याह -अत्र इत्यादि। शब्दव्युत्पत्तिः=शब्दसंस्कारः, तस्या एवात्र भित्तशब्दे भिदिक्रियानिमित्तत्वाम्; न तु तत्प्रवृत्तेः; असत्त्वात्। जातिरेव तु तत्प्रवृत्ति प्रति निमित्तम्; तस्या विद्यमानत्वात्। तस्माच्छकलशब्दवद्भित्तशब्दोऽपि जातिशब्द एव; न क्रियाशब्द इति युक्ता तस्य तत्पर्यायता। यदि तह्र्रसत्येवात्र भिदिक्रिया, शब्दसंस्कारत्वस्यापि सा निमित्तं नोपपद्यते? नैतदस्ति; न ह्रयं नियोगोऽभिधीयते -विद्यमानैव क्रिया शब्दसंस्कारस्य निमित्तं भवतीति। तथा हि तैलपायिकाशब्दो यत्र प्राणिविशेषे रूढः, तत्र तैलपानक्रियाशब्दोऽपि नास्ति; तथापि तैलपानक्रिया तत्संस्कारनिमित्तत्वेनाश्रीयते। कथं पुनर्भित्तशब्दो भिदिक्रियाप्रवृत्तिनिमित्तं न भवति? इत्याह -भिदिक्रियाविवक्षायां हि इत्यादि। अत्र भिन्नमित्यस्य च भित्तशकलशब्दाभ्यां प्रत्येकमभिसम्बन्धः। तेन भिन्नं भित्तमित्येव भवति इति। एतत्? प्रयोगद्वयमपि भिदिक्रियादिवक्षायां सिद्धं भवति। विदीर्णे हि शकले तस्य विदीर्णतां प्रतिपादयितुं भिन्नम्, भित्तमित्येष प्रयोगो भिदिक्रियाविवक्षायां क्रियते। यदि च भित्तशब्द क्रियाप्रवृत्तिनिमित्तं स्यात्, ततो भित्तशब्देनैव भिदिक्रियानिमित्तकेन विदीर्णता शकलस्य प्रतिपाद्यत इत्येष प्रयोगो नोपपद्यते, न हि तदस्ति यस्य भित्तशब्देनाप्रतिपादितस्य भिन्नशब्दयोगो भवेत्। भिन्नं शकलमित्येष च प्रयोगो नोपपद्यते; शकलव्युत्पादितेन भित्तशब्देन भिदिक्रियानिमित्तकेन भिन्नशब्दस्य बाधितत्वात्। अस्ति चायं द्विविधोऽपि प्रयोगः, तस्गाद्भित्तशब्दस्य भिदिक्रियानिमित्तत्वं न गम्यते॥

Prakriyasarvasvam

शकलनामैतत् । भिन्नमन्यत् ।