82050: निर्वाणोऽवाते ==================== **Padacheda:** निर्वाणः | S | 1 | 1 | अवाते | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word निर्वाण is irregularly formed by changing the निष्ठा त is changed to न when the sense is not that of 'wind'. Vasu English Translation ------------------------ The word निर्वाण is irregularly formed by changing the निष्ठा त is changed to न when the sense is not that of 'wind'. The word निर्वाण is formed from the root वा, with the preposition निर् and the Participial affix त ॥ Thus निर्वाणोऽग्निः = उपशान्तः, निर्वाणः प्रदीपः, निर्वाणो भिक्षुः = उपरतः ॥ Why do we say when not meaning "the wind"? Observe, निर्वातो वातः, निर्वातं वातेन ॥ In the sentences निर्वाणः प्रदीपो वातेन, निर्वाणोऽग्निर्वातेन, the न change has taken place, because the location of the verb वा is in the प्रदीप and अग्नि, and not in the वात, which is merely an Instrument. Hence the above *vritti* uses the words "if the sense of the verb वा does not govern वात in the locative case". Bhashya ------- निर्वाणोऽवाते ॥ अवाताऽभिधाने(1)॥ अवाताभिधान इति वक्तव्यम्। इहापि यथा स्यात्-निर्वाणोऽग्निर्वातेन। निर्वाणः प्रदीपो वातेनझ्र्इति(1)टझ्र्निर्वाणोऽवातेट॥ Kashika ------- निर्वाण इति निस्पूर्वाद् वातेरुत्तरस्य निष्ठातकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति। निर्वाणोऽग्निः। निर्वाणः प्रदीपः। निर्वाणो भिक्षुः। अवात इति किम्? निर्वातो वातः। निर्वातं वातेन। निर्वाणः प्रदीपो वातेनेत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणमिति भवत्येव नत्वम्॥ Siddhanta Kaumudi ----------------- अवाते इति छेदः । निर्पूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥ Balamanorama ------------ **निर्वाणोऽवाते** - निर्वाणोऽवाते । कर्ता नेति । निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च । तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः । वनिर्वाणोऽग्निर्मुनिर्वेति । नष्ट, उपरत इति क्रमेणार्थः ।गत्यर्थाकर्मके॑त्यादिना कर्तरि क्तः । निर्वातो वात इति । अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः ।निर्वाणो दीपो वातेने॑त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम् । भावे तु निर्वातं वातेन । Tattvabodhini ------------- **निर्वाणोऽवाते** - निर्वाणोऽवाते । वा गतिगन्धनयोः,निर्पूर्वादस्मान्निष्ठातस्य नत्वे णत्वम् । वातश्चेत्कर्ता नेति । एवं चवातेन हेतुना निर्वाणो दीप॑ इत्यत्र निषेधो नेत्याहुः । निर्वात इति ।गत्यर्थाकर्मके॑ति कर्तरि क्तः । नितरां वातो गतः इत्यर्थः । Padamanjari ----------- वाताधिकरण इति । वातकर्तृक इत्यर्थः । यदि'वातश्चेदभिधेयो न भवति' इत्यर्थः स्यात्, तदा निर्वातो वात इत्यत्रैव प्रतिषेधः स्याद्यत्र कर्तरि क्तः; यत्र तु भावे तत्र न स्यात् - निर्वातं वातेनेति । निर्वाणोऽग्निरिति । उपशान्त इत्यर्थः । निर्वाणो भिक्षुरिति । उपरत इत्यर्थः । वातस्तु करणमिति । यथासम्भवं करणत्वे हेतौ वा तृतीया द्रष्टव्या । यथा तु वार्तिकं तथा भावे प्रतिषेधो न भवति, निर्वाणं वातेनेत्येव भवति ॥ Nyaas ----- `दातेरुत्तरस्य` इति। `वा गतिगन्धनयोः` (धातुपाठः-1050) इत्येतस्मात्। `न च` इत्यादि। धातमचिकरणमाधारो यस्य स तथोक्तः। एतदुक्तं भवति -धातेर्धातोर्योऽर्थः स यदि धातेन समवेतो भवतीत्यर्थः। `निर्वाणोऽग्निः, निर्वाणः प्रदीपः` इति। अत्र स्वरूपस्य यः प्रशम उपरतिलक्षणः स धात्वर्थः। `एष निर्वाणो भिक्षुः` इति। अत्रापि। अथ वा -रागादिप्रहाणं धात्वर्थः। `निर्वातो वातः` इति। अकर्मकत्वात्? कर्तरि निष्ठा। `निर्वातं वातेन` इति। अत्र भावे। उभयत्राप्यत्र गतिनिरोधो धात्वर्थ-। `निर्वाणः प्रदीपी वातेन` इति। अत्र वातेनेति कर्त्रि तृतीया। तस्माद्वात एव दात्यर्थस्याधारः, ततश्च नत्वेन भवितव्यमिति कस्यचिद्व्यामोहः स्यात्, अतस्तान्निराकरणायाह -`निर्याणः प्रदीपः` इत्यादि। अत्र निर्वाणंधात्वर्थः, तच्च प्रदपाधारम्, न वाताधारम्। वाताधारे हि तस्मिन्निर्वाण इति यदि कर्तरि निष्ठा, तदा तयैवाभिहितत्वात्? कर्त्तुर्वातात्? तृतीया न स्यात्। अथ **नपुंसके भावे क्तः** (3.3.114) इति भावे? एवं ससि निर्वाण इति पुंल्लिङ्गं न स्यात्। तस्मात्? प्रदीप एव कर्ता धात्वर्धस्याधारः। यद्येवम्, कथं वातेनेत्यत्र तृतीया? इत्यत आह -`वातस्तु` इत्यादि। एतेनैषा तृतीया न कर्तरीति दर्शयति॥ Prakriyasarvasvam ----------------- वातादन्यत्र निर्वाणोऽग्निरित्यादि नत्वम् । वाते निर्वातः पवनः । शान्त इत्यर्थः । वातेऽपि भावे वा नत्वमाह हरः । निर्वाणं निर्वातं वा वायुना ।। Sutra Prayogas -------------- * **निर्वाणालातलाघवम्** (कुमारसम्भवम्): `निर्वाणोऽवाते` इति निपातनान्निष्ठानत्वम्।