82025: धि च

Padacheda: धि | S | 7 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The स् is elided before an affix beginning with ध।

Vasu English Translation

The स् is elided before an affix beginning with ध। Karika:-

धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम् । आशाध्वं तु कथं जशत्वं सकारस्य भविष्यति ॥ सर्वमेवं प्रसिद्धं स्याच्छुतिश्चापि न विद्यते । लङश्चापि न मूर्द्धन्ये ग्रहणं सेटि दुष्यति ॥ घसिभसोर्न सिध्येत तस्मात्सिज्ग्रहणं न तत् । छान्दसो वर्णलोपो वा यथेष्कर्त्तारमध्वरे ॥

As अलविध्वम्, अलविढ्वम्, अपविध्वम्, अपविढ्वम् for अलविस्ध्वम् and अपविस्ध्वम् ॥ Had this स् (of सिच्) not been elided; then स् would be first changed to ष्, and then to a letter of जश् class (8.4.53), ध् would never be heard even optionally, though so required by (8.3.79), but the forms would be always with ढ, as अलविड्ढ्वम् &c. ॥

From an ishti, the elision of स् is confined to the स् of the Aorist सिच्, and not to any other स् ॥ Thus स् is not elided in चकाद्धि in चकाद्धि पलितं शिरः (हे शिरः पलितं सच् चकाद्धि शोभस्वेत्यर्थः). It is the Imperative of चकास् the सिप् is changed to हि, and हि to धि (6.4.101), and स् to द by (8.4.53). Similarly it does not apply to पयस् धावति, where स is changed to रु and then to उ (6.1.114) = पयो धावति ॥ The elision of स् in सग्धिः from घस् with क्तिन्, and in बब्धाम् from भस् in the Imperative with ताम्, is a Vedic diversity. But according to Patanjali चकाधि is the proper form; while in पयो धावति the antaranga रु debars this bahiranga स् elision.

Objection:- If so, how do you form आशाध्वं, by the elision स् of शास्; for स् would not be elided? Answer:- The स् is not here elided but changed to जश् letter, by (8.2.39). Objection:- If so, स् may always be changed to जश् letter, and there is no need of eliding it; in pronouncing, it will make no difference, whether you pronounce with one consonant or two, e.g. आशाद्ध्वम् or आशाध्वं ॥ Moreover by so doing, you will shorten the sutra (8.3.78), by omitting the word लुङ् from it. For the forms like अच्योड्ढ्वम्, अप्लोड्ढ्वम्, will be evolved regularly by changing स् of सिच् to ष्; and the ध after it will be changed to ढ, and then ष् changed to ड् by जश्त्व (8.4.53). Answer:- So far it will be all right, but in सेट् Aorist we shall never get the alternative forms अलविध्वम् &c, though we may get the form अलविड्ढ्वम् (8.3.79). Therefore, the word सिच् should be taken.

Objection:- If सिच् is to be taken here, then the स् of घस् and भस् will not be dropped, and we shall not get the forms सग्धिः and बब्धां in the passages सग्धिश्च मे सपितिश्च मे, and बब्धां ते हरीधामाः ॥ Therefore, the present sutra should not be confined to सिच् only. Answer:- We shall explain सग्धिः by saying, that it is a word derived from सघ्, and so also बब्धां from the root बन्ध ॥

[N. B.- The word सग्धिः is generally thus derived; अद् + क्तिन् = घस् + ति (2.4.39) = घ्स् + ति (6.4.100) = घ् + ति (8.2.26). Had the present rule been confined to सिच्, the स् could not have been elided by (8.2.26). See (6.4.100), where these two forms are developed]. Or we may explain these forms as Vedic irregularity, by which letters are sometimes dropped, and so घस् and भस् have lost their स् ॥ That letters are sometimes dropped in the Chhandas, we see in passages like the following इष्कर्त्तारमध्वरे for निष्कर्त्तारमध्वरे; तुभ्येदमग्ने for तुभ्यमिदमग्ने; आम्बानां चरुः for नाम्बानां चरुः; अव्याधिनी रुगणः or अव्याधिनीः सुगणाः ॥

The above discussion is summarised in the following

Karika:- धिसकारे सिचोलोपश्चकाद्धीति प्रयोजनम्, “This rule is confined to the elision of the सिच् only, for the sake of preserving the स् in चकाद्धि” ॥

आशाध्वं तु कथं ? जश्त्वं सकारस्य भविष्यति ॥ “How then do you form आशाध्वं by the elision of स्? The स is not elided but changed to a जश् letter”.

सर्वमेवं प्रसिद्धं स्याच्, छ्रुति श्चापि न विद्यते । लुङश्चापि न मूर्धन्ये ग्रहणं सेटि दुष्यति ॥ “If this be so, then let जश् come every where, for there is no difference in sound, moreover this will shorten (8.3.78) by omitting the word लुङ् from it. The जश् cannot come every where, as the difficulty will be in सेट् Aorist”. घसि भसोर्म सिध्येत, तस्मात् सिज् ग्रहणं न तत् । “The forms सग्धिः and बब्धां could not be formed from घस् and भस् if the elision of स् were confined to सिच्. Hence सिच् should not be read into this sutra.”

छान्दसो वर्णलोपो वा यथेष्कर्त्तारमध्वरे “The elision of स् in सग्धिः and बब्धां will be explained as a Vedic anomaly, for letters are often dropped in Vedic forms, as in इष्कर्त्तारमध्वरे instead of निष्कर्त्तारमध्वरे ॥”

Bhashya

धि च ॥ धिसकारे(3) सिचो लोपः॥ धिसकारे सिचो लोपो वक्तव्यः॥ किं प्रयोजनम्?॥ चकाद्धीति(3) प्रयोजनम्॥ इह मा भूत् सलोपः-चकाद्धि पलितं शिर इति॥ यदि तर्हि सिचो लोप इत्युच्यते ॥ आशाध्वं तु कथन्ते(3) स्यात्॥ झ्र्ठआशाध्वं तु कथम्?ट॥ आशाध्वमित्यत्र लोपो न प्राप्नोति॥ जश्त्वं(3) सस्य भविष्यति॥ जश्त्वमत्र सकारस्य भविष्यति॥ सर्वत्रैव(3) प्रसिद्धं स्यात्॥ सर्वत्रैव जश्त्वेन सिद्धं स्यात्। इहापि आयन्ध्वमारन्ध्वमिति, जश्त्वेनैव सिद्धम्॥ श्रुतिश्चापि(3) न भिद्यते॥ श्रुतिकृतश्चापि न कश्चिद्भेदो भवति॥ लुङश्चापि(3) न मूर्द्धन्ये ग्रहणम्॥ तत्रायमप्यर्थः -ःइणः षीध्वंलुङ्लिटां धोऽङ्गादित्यत्र लुङ्ग्रहणं न कर्तव्यं भवति(1)॥ इहापि अच्योड्ढ्वमप्लोड्ढ्वमिति षत्वे सिचो धस्य ष्टुत्वे च कृते जशत्वेन सिद्धम्॥ सेटि दुष्यति(2)॥ सेटि दोषो भवति। इदमेव रूपं स्यात् -अलविड्ढ्ववम्, -ःइदं न स्यात् -अलविध्वमिति। तस्मात्सिचो ग्रहणं कर्तव्यम्॥ यदि तर्हि सिचो ग्रहणं क्रियते-॥ घसिभस्योर्न(2) सिध्येत्तु॥ घसिभस्योर्न सिध्यति-सग्धिश्च मे सपीतिश्च मे, बब्धां ते हरी धाना इत्यत्र न प्राप्नोति॥ तस्मात्सिज्ग्रहणं(2) न तत्॥ तस्माद्धिचेत्यत्र सिचो ग्रहणं न कर्तव्यम्॥ कथंचकाद्धि पलितं शिर इति?॥ एवं तर्हि सिज्ग्रहणं कर्तव्यम्॥ कथं सग्धिश्च मे सपीतिश्च मे बब्धां ते हरीधाना इति?॥ नैषः दोषः(1)॥ इह तावत् सग्धिरिति, नैतद्धसेरूपम्॥ किं तर्हि?॥ सघेरेतद्रूपम्॥ बब्धां ते हरीधाना इति; नैतद्भसेरूपम्॥ किं तर्हि?॥ बन्धेरेतद्रूपम्॥ छान्दसो(2) वर्णलोपो वा यथेष्कर्त्तारमध्वरे॥ अथ वा छान्दसो वर्णलोपो भविष्यति। यथेष्कर्त्तारमध्वरे(1)। तद्यथा(2)-तुभ्येदमग्ने॥ तुभ्यमिदमग्न इति प्राप्ते। आम्बानां चरुः। नाम्बानां चरुरिति प्राप्ते। आव्याधिनी रुगणाः। आव्याधिनीः सुगणा इति प्राप्ते। इष्कर्तारमध्वरस्य। निष्कर्तारमिति प्राप्ते। शिवा उद्रस्य भेषजीः। शिवा रुद्रस्य भेषजीरिति प्राप्ते॥ तस्मात्सिज्ग्रहणं कर्तव्यम्॥ न कर्तव्यम्। यदेतद्रात्सस्येति सकारग्रहणं तत्सिचो ग्रहणं विज्ञास्यते॥ कथम्?॥रात्सस्येत्युच्यते न चाऽन्यो रेफात्परः सकारोऽस्त्यन्यदतः सिचः॥ ननु चायमस्ति मातुः पितुरिति। तस्मात्सिचो ग्रहणं कर्तव्यम्॥ न कर्तव्यम्॥ कस्मान्न भवति चकाद्धि पलितं शिरइति?॥ इष्टमेवैतत्सङ्गृहीतं, चकाधीत्येव भवितव्यम्॥ ॥घिसकारे(3) सिचो लोपश्चकाद्धीति प्रयोजनम्। आशाध्वं तु कथं ते स्याज्जश्त्वं सस्य भविष्यति॥1॥ सर्वत्रैवं प्रसिद्धं स्याच्छ्रुतिश्चापि न भिद्यते। लुङश्चापि न मूर्द्धन्ये ग्रहणं सेटि दुष्यति॥2॥ घसिभस्योर्न सिध्येत्तु तस्मात्सिज्ग्रहणं न तत्। छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे॥3॥

Kashika

धकारादौ प्रत्यये परतः सकारस्य लोपो भवति। अलविध्वम्, अलविढ्वम्। अपविध्वम्, अपविढ्वम्। यद्यत्र सकारलोपो न स्यात्, सिचः षत्वे जश्त्वे च विभाषेटः (८.३.७९) इति मूर्धन्याभावपक्षेऽपि न धकारः श्रूयेत। इतः प्रभृति सिचः सकारस्य लोप इष्यते। इह न भवति — चकाद्धि पलितं शिर इति। तथा पयो धावतीत्येवमादावपि न भवति। सग्धिः॑ (मा०सं० १८.९) ब॒ब्धाम् (निरु० ५.१२) इति छान्दसो वर्णलोपः। भाष्यकारस्त्वाह — चकाधीत्येव भवितव्यमिति। तेन पयो धावतीत्येवमादौ यत्नान्तरमास्थेयम्॥

धि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम्।

आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ॥ १॥

सर्वमेवं प्रसिद्धं स्याच्छ्रुतिश्चापि न भिद्यते।

लुङश्चापि न मूर्धन्ये ग्रहणं सेटि दुष्यति॥ २॥

घसिभसोर्न सिध्येत तस्मात् सिज्ग्रहणं न तत्।

छान्दसो वर्णलोपो वा यथेष्कर्तारमध्वरे॥ ३॥

नि॒ष्क॒र्तार॑मध्व॒रस्य॒ (तै०सं० ४.२.७.३) इत्येवं प्राप्ते॥

Siddhanta Kaumudi

धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥

Laghu Siddhanta Kaumudi

धादौ प्रत्यये परे सस्य लोपः। एधिताध्वे॥

Balamanorama

हो ढः - अथ हकारान्ताः । तत्र वर्णसमाम्नायक्रममनुसृत्य हकारान्तमादौ निरूपयितुमाह — हो ढः । ‘ह’ इति षष्ठन्तम् । झलो झलीत्यतो झलीत्यनुवर्तते । पदस्येत्यधिकृतम् ।स्कोः संयोगाद्योरन्ते चे॑त्यतोऽन्ते इत्यनुवर्तते । तदाह — हस्येति । झलीति । झलि परतः पूर्वस्य हकारस्य, पदान्ते विद्यमानस्य हकारस्य वेत्यर्थः । नच डकार एव कुतो न विहित इति वाच्यं,वा द्रुहे॑त्यत्र वक्ष्यमाणत्वात् । पदान्तत्वादिति । सुलोपे सति प्रत्ययलक्षणमाश्रित्य झल्परत्वाच्चेत्यपि बोध्यम् । लिडिति ।लिह आस्वादने॑क्विष् । हल्ङ्यादिना सुलोपः । हस्य ढत्वे ‘वावसाने’ इति चर्त्वविकल्प इति भावः । लिड्भ्यामिति । स्वादिष्वसर्वनामस्थाने॑ इति पदत्वाज्झलां जशोऽन्ते॑ इति जश्त्वमिति भावः । इत्यादीति । लिड्भिः । लिड्भ्यः । लिहे । लिहः । लिहः लिहो लिहाम् । लिट्त्सु इति । लिह्-सु इति स्थिते हस्य ढः । तस्य जश्त्वेन डः ।खरि चे॑ति चर्त्वस्याऽसिद्धत्वात्ततः प्रागेवडः सी॑ति धुट् । ततो डस्य चर्त्वेन टः । धुटश्चर्त्वसंपन्नस्य तकारस्याऽसिद्धत्वा॑च्चयो द्वितीयाः॑ इति न भवति ।न पदान्ता॑दिति तकारस्य ष्टुत्वं न । लिट्सु इति । धुडभावे रूपम् । हस्य ढः । तस्य जश्त्वेन डः । तस्य चर्त्वेन टः । तस्याऽसिद्धत्वा च्चयो द्वितीयाः॑ इति न । ‘न पदान्तात्’ इति सस्य न ष्टुत्वमिति भावः ।

Tattvabodhini

हो ढः - अथ हलन्ताः पुंलिङ्गाः । हो ढः ।झलो झलि॒॑पदस्य॒॑स्कोः संयोगाद्योरन्ते चे॑ त्यतो झलीति पदस्यान्त इति चानुवर्तते । तदाह — झलित्यादि । झलि परतः पदान्ते वा विद्यमानल् । हस्येत्यर्थः । लिडिति ।लिह आस्वादने॑क्विप् । लिट्स्विति । ढस्य जश्त्वेन डः, तस्यखरि चे॑ति चर्त्वेन टः । तस्याऽसिद्धात्वाच्चयो द्वितीया इति पक्षे टस्य ठो न । सस्य ष्टुत्वं तु न भवति,न पदान्ताट्टो॑रिति निषेधात् । लिट्त्स्विति । ढस्य जश्त्वेन डकारे कृते चर्त्वस्याऽसिद्धत्वात्ततः प्रागेवडः सी॑ति पक्षे धुट् । तस्य चर्त्वेन तकारः, ततो डस्य चर्त्वेन टः । धुटश्चत्त्र्वस्यऽसिद्धित्वात्पक्षेचयो द्वितीया॑इति तस्या थो न । ष्टुत्वं तु तकारस्य न शङ्क्यमेव,न पदान्ता॑दिति निषेधस्याऽधुनैवोक्तत्वादिति ।

Padamanjari

ठितः प्रभृति सिचः सकारस्य लोपःऽ इति वक्ष्यति, ततश्च सिचा प्रत्यय आक्षिप्यते, तस्य धकारेण विशेषणातदादिविधिर्विज्ञायते, इत्याह - धकारादौ प्रत्यय इति । भाष्यकारमते तु धकारे पर इति द्रष्टव्यम् । अलविढ्वमिति । लुङ्, च्लेः सिच्, इट्, सिचो लोपः,’विभाषेटः’ इति पक्षे मूर्धन्यः । धकारो न श्रूयेतेति । ष्टुअत्वे कृते अलविढ्वमित्येव स्यात् । विभाषाग्रहणं तु तत्र षीध्वमर्थम्, लिर्ङ्थं च स्यात् । इतः प्रभृतीत्यादि । ठुदः स्थास्तम्भोः पूर्वस्यऽ इति पूर्वसवर्णविधानमत्र ज्ञापकमाहुः । अन्यथा उतस्था इति स्थिते तकारात्परस्य सकारस्य’झलो झलि’ इति लोपे सति उत्थानमित्यादेः सिद्धत्वादनर्थकं तत् स्यात् । सामान्यापेक्षं च ज्ञापकम् - अस्मिन् प्रकरणे यो लोपः स सिचेति । चकाद्धीति । हे शिरः पलितं सच्चकाद्धि, शोभस्वेत्यर्थः ।’चकासृ दीप्तौ’ अदादिः, लोट्, सिपो हिः, हेर्द्धिः,’झलां जश् झशि’ इति सकारस्य दकारः । पयो धावतीति ।’हशि च’ इति रोरुत्वम् । यदि सिचो लोप इष्यते, सग्धिः, बब्धाम् -‘झलो झलि’ इति लोपो न स्यात् ? अत आह - सग्धिर्बव्धामिति । अदेः क्तिनि’बहुलं च्छन्दसि’ इति घस्लादेशः,’घसिभसोर्हलि च’ इत्युपधालोपः,’बहुलं च्छन्दसि’ इति सलोपः,’झषस्तथोर्धो’ धःऽ जश्त्वेन घकारस्य गकारः, समाना ग्धिः सग्धिरिति’पूर्वापरप्रथम’ इत्यादिना कर्मधारयः,’समानस्य च्छन्दसि’ इति सभावः । बब्धामिति ।’भस भर्त्सनदीप्त्योः’ जुहोत्यादिः, लोट्, तसस्ताम्, श्लौ द्विर्वचनम्, पूर्ववदुपधालोपः, सकारस्य च लोपः, तकारस्व धकारः, पकारस्य जश्त्वम् - बकारः । पयो धावतीत्येवमादावपीति । अन्यथा रुत्वस्य सिद्धत्वात् पूर्वं सलोपः स्यात् । भाष्यकारस्त्वाहेति । पूर्वं तु श्लोकवार्तिककारस्य मतं दर्शितम् । यत्नान्तरमास्थेयमिति । एकपदाश्रयत्वादन्तरङ्गं रुत्वम्, पदद्वयाश्रयत्वाद्वहरिङ्गः सलोपः; तत्र सलोपस्यासिद्धत्वात् पूर्वत्रेति निर्द्दिष्टस्य विसर्गस्याभावादसिद्धत्वाभावादुत्वमेव तावत्प्रवर्तते, अल्विधित्वाच्च स्थानिवत्वाभावादोर्लोपाभाव इति । धि सकार इति । स्थानिनोऽपि विषयत्वविवक्षया सकार इति सप्तमीनिर्देशः । आशाध्वमिति । ठाङ्ः शासु इच्छायाम्ऽ अदादिरनुदातेत् । जश्त्वमिति ।’झलां जश् झशि’ इत्यनेन । सर्वमेवमिति । यदि सकारस्य जश्त्वेनाशाध्वमिति सिद्धम्, ततः सर्वमेव लक्ष्यजातं जश्त्वेनैव सिद्धं स्यात्, ततश्च सूत्रमेवेदं न कर्तव्यमिति । श्रुतिश्चापि न भिद्यत इति । व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रवणे न धार्यत इत्यर्थः । लुङ्श्चापीति । अयं चापरो जश्त्वे सति गुणः, ठिणः षीध्वम्ऽ इत्यत्र लुङे ग्रहणं न कर्तव्यं भवति; अव्योढ्वम्, अलोढ्वमित्यादौ षत्वजश्त्वष्टुअत्वैरेव रूपस्य सिद्धत्वात् । ह्रस्वादङ्गादिति सिचो लोपेऽकृढ्वं कथं भवेत् । दोषान्तराभिधानातु नैतत्सुष्ठुअ निरूपितम् ॥ तद्दर्शयति - सेटि दुष्यतीति । एतच्च यद्यत्र सकारस्य लोपो न स्यादित्युपक्रमे एवोक्तम् । तस्माद्धि चेति कर्तव्यम्, मूर्धन्ये च लुङे ग्रहः । धिसकारे सिचो लोप इति त्वेतदवस्थितम् । तत्र दोषान्तरं दर्सयति - घसिभसोरिति । सग्धिर्बब्धामित्येतयोरसिद्धिप्रसङ्गात्, न सिचो लोपः शक्यो विज्ञातुमित्यर्थः । परिहरति - छान्दसो वर्णलोपो वेति । वाशब्दः पक्षं व्यावर्तयति, सिच एवायं लोपः, घसिभस्योस्तु छान्दसो वर्णलोप इति । क्व यथा ? इत्याह - यथेति । इष्कर्तारमध्वरस्येत्यस्यैकदेशानुकरणादिष्कर्तारमध्वरशब्दात्सप्तमी । तत्र बह्वचाः - इष्कर्तारमिति पठन्ति, तैतिरीयास्तु निष्कर्तारमिति ॥

Nyaas

अलविध्वम्, अलविढ्वम् इति। लुङ्, सिच्? (3.1.44) सस्य धि च इति लोपः, विभाषेटः (8.3.79) इति पक्षे भू र्धन्यः। यद्यत्र इत्यादिना सति सकारलोपे यदिष्टं प्राप्नोति तद्दर्शयति। असति हि सकारलोपे सिचः आदेशप्रत्यययोः (8.3.59) इति षत्वे कृते झलां जश् झशि (8.4.53) इति जश्त्वे च डकारे ष्टुना ष्टुः (8.4.41) इति धकारस्य ष्टुत्वे ढकारेण भवितव्यम्, ततश्च मूधन्याभावपक्षेऽपि धकारो न श्रूयते। विभाषाग्रहणं तु सिद्धं लिडर्थं लिङर्थं च स्यात्। तस्मादमूर्धन्यपक्षे धकारस्य श्रवणं यथा स्यादिति लोपो विधीयते। इतः प्रभृति सिचः सकारस्य लोप इष्यते इति। स च अचि विभाषा (8.2.21) इत्यतो विभाषाग्रहणाअनुवृत्तेव्र्यवस्थितविभाषाविज्ञानाच्च लभ्यते। चकाद्धि इति। चकासृ दीप्सौ (धातुपाठः-1074), लोट्, सिप्, सेह्र्रपिच्च (3.4.87) इति हिरादेशः, हुझल्भ्यो हेर्धिः (6.4.101) इति हेर्धिभावः, पूर्ववच्छपो लुक्, पूर्ववज्जश्त्वम् -सकारस्य दकारः। पयो धावति इति। पयः शब्दस्य रुत्वम्, हशि च (6.1.110) इत्युत्त्वम्, आद्गुणः (6.1.87) । यदीतः प्रभृति सिचो लोप इष्यते, सग्धिः, बब्धायित्यत्र झलो झलि (8.2.26) इति सकारस्य लोपो न प्राप्नोतौति चोद्यमाशङ्क्याह-सग्धिर्बब्धाम्` इत्यादि। अद भक्षणे (धातुपाठः-1011), स्त्रियां क्तिन्? (3.3.94) बहुलं छन्दसि (7.4.78) इति घस्लादेशः, घसिभसोर्हलि च (6.4.100) इत्युपधालोपः, सकारस्य बहुलं छन्दसि इति च्छान्दसो लोपः। क्वचिदन्यदेवोच्यते एषोऽपि बहुलस्यार्थः। इष्यते झषस्तथोर्धोऽधः (8.2.40) इति तकारस्य धत्वम्, पूर्ववज्जश्त्वम् -घकारस्य गकारः। समाना ग्धिरिति विशेषणसमासः, समानस्य च्छन्दसि (6.3.83) इति सभावः। बब्धामिति -भस भत्र्सनद्दीप्त्योः (धातुपाठः-1100), लोट्? तस्य लोटो लङ्वत् (3.4.85) इत्यतिदेशात्? तसस्ताम्, जुहोत्यादित्वाच्छपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, पूर्ववदुपधासलोपौ, पूर्ववदेव तकारस्य दत्वञ्च, भकारस्य दकारः अभ्यासे चर्च (8.4.54) इति जश्त्वम्। एवमिदं तावत्? श्लोकवार्त्तिककारस्याभिमतं दर्शितम्। इदानीं भाष्यकारस्य मतं दर्शयितुमाह -भाष्यकारस्त्वाह इत्यादि। एतेनाविशेषेणैव सकारमात्रस्य भाष्यकाशे लोपमिच्छतीति दर्शयति। `तेन इत्यादि। अविशेषेण हि सकारमात्रस्य यो लोपमिच्छति तस्य पयो धावतीत्यत्रापि प्राप्नोति। तस्मादिह मा भूदिति यत्नान्तरमास्थेयम्। यत्नान्तरं तु व्यवस्थितविभाषाश्रयणमेव पूर्वधत्। अयं तु विशेषः -पूर्वत्र व्यवस्थितविभाषया धि चैव सिचो भविष्यति, नान्यस्य; इह तु यत्र समानपदस्थौ निमित्तनिमित्तिनौ तत्रैवाविशेषेण सकारमात्रस्य लोपो भवति। अत्र तु भिन्नपदस्थौ पयोधावतौत्यादौ, तत्र न भवन्येवेति। एतावता विशेषेण व्यवस्थितभाषा यत्नान्तरमित्युच्यते।संक्षिप्तमेतमर्थं विस्तरेण सचोद्यपरिहरं वक्तुमाह -धि सकारे सिचो लोपः इत्यादि। धीत्येतद्यत्र परभूते सकारलोप इत्यतः प्रभृति विधातव्यः, तदुपलक्षणं वेदितव्यम्। कुत एतत्? इत प्रभृति सिचः सकारस्यलोप इष्यत इति प्राग्वचनात्। लोपं प्रति सकारस्याधिकरणत्वेन विवक्षतत्वात्? सप्तम्या निर्देशः। किं प्रयोजनम्? इत्याह -चकाद्धि इत्यादि। यदि सिचो लोपः, आशाध्वं तु कथम्? आङः शासु इच्छायाम्` (धातुपाठः-1022), लोट्, ध्वम्, टेरेत्वम्, सवाभ्यां वामौ (3.4.91) इत्यमादेशः, पूर्ववच्छपो लुक्। अत्र सकारस्य लोप इष्यते, स न प्राप्नोति; यदि सिच एव सकारस्य लोपो विधीयते? जश्त्वं सकारस्य भविष्यति इति। झलां जश् झशि (8.4.53) इत्यनेन जश्त्वम् -सकारस्य दकारो भविष्यतीति सिद्धम् -आशाब्दमित्येतत्। इतः सकारलोपशास्त्रं प्रत्याख्यातुमाह -सर्वमेवं प्रसिद्धं स्यात् इति। यदि सकारस्य भवति, एवं सति तेनैद जश्त्वेन सर्वं लक्ष्यं प्रसिद्धं स्यात्। ततश्च सकारलोपशास्त्रमेतन्न कर्तव्यमेवेत्यभिप्रायः। तत्रैतत्स्यात् -जश्त्वे सति श्रुतिभेदो भवति, तथा हि अनचि च (8.4.46) इति सकरस्य द्विर्वचने कृते सकारयोश्च जश्त्वे दकारद्वयस्य श्रवणं प्रसजतीत्याह -श्रुतिश्चापि न भिद्यते इति। न हि व्यञ्जनपरस्यैकस्यानेकस्य वा हलः श्रुतिं प्रति विशेषोऽस्तीति भावः। लुङश्चापि न मूर्धन्ये ग्रहणम् इति। कर्तव्यं भवतीति शेषः। अयं चान्यो जश्त्वे सति गुणः। इणः षीध्वंलुङ्लिटां धोऽङ्गात् (8.3.78) इत्यत्र मूर्धन्ये कर्तव्ये लुङ उपादानं कर्तव्यं न भवतीति; अच्चोढ्वम्, अप्लोढ्वमित्यादौ षत्वजश्त्वष्टुत्वैरेव मूर्धन्यस्य सिद्धत्वात्। च्युङ्? छ्युङ्? [अयं धातुर्धातुपाठे नोपलभ्यते] ज्युङ्? [न स्तः -प्रांउ।पुस्तके] प्रुङ्प्लुङ गतौ [न स्तः -प्रांउ।पुस्तके] (धातुपाठः-955,956,957,958), लुङ्? ध्वम्, सिच्, आदेशप्रत्यययोः (8.3.59) इति षत्वम्, झलां जश् झशि (8.4.53) इत्यनेन षकारस्य जशत्वम् -इकारः, धकारस्य ष्टुत्वम् -ढकारः। एवं षत्वादिकार्यक्रमेण लुङि घकारस्य मूर्धन्यः सिदध इति, किं लुङ्ग्रहणेन? एवं लुङ्? प्रत्याख्यायते। सलोपे परे लुङ्ग्रहणं कर्तव्यमिति यस्याभिमतम्; स आह -सेटि दुष्यति इति। यदि मूर्धन्यविदौ लरङ्ग्रहणं न क्रियेत, ततः विभाकेटः (8.3.79) इत्यत्र मूर्धन्यो न प्राप्नोति, ततश्च पूर्ववत्? षत्वादिषु कृतेष्वलविध्वमित्थेव नित्यं स्या, न तु कदाचिदपयलविढ्वमिति। तस्मादुत्तरार्थं लुङ्ग्रहणं कर्तव्यम्। धि च (8.2.25) इति सकारलोपोवक्तव्यः -अलविढ्वमित्यस्य सिद्ध्यर्थम्। न ह्रेतदसति सकारलोपे सिध्यति, ततश्च यदुक्तम् -सर्वमेवं प्रसिद्धं स्यात् इति, तदयुक्तम्। श्रि च (8.2.25) इत्येतस्मिश्च क्रियमाणे चकाद्धोति मा भूदिति सिच्ग्रहणं कर्तव्यम्, एवं श्लोकबार्त्तिककारमतेन सिज्ग्रहणं कर्तव्यमिति स्थितम्।इतरस्तस्मिन्? क्रियमाणेऽपरं दोषं दर्शयितुमाह -घसिभसोनं `सिध्येत`[सिध्येत्? त्विक्ष्यादि -कांउद्रितःपाठः] इत्यादि। तुशब्दो हेतौ। यस्मात्? सिज्ग्रहणस्य हि धसिभसोः सकारलोपः सग्धिर्बब्धामित्यत्र न सिध्यतीत्येष हेतुरुक्तः स चायमहेतुः; यस्माद्यद्यपि सिज्ग्रहणे क्रियमाणे धसिभसोः **झलो झलि** (8.2.26) इत्यनेन लोपो न भविष्यति, तथापि च्छाब्दसो वर्णलोपो भविष्यति; तेनापि सग्धिः, बब्धामित्येतदुभयं सिध्यत्येव। क्व यथा च्छान्दसो वर्णलोपः? इत्याह`यथा इत्यादि। यथाध्वरविषये प्रयोगे इष्कत्तरिमध्वरस्येत्यत्र च्छान्दसो वर्णलोपो भवति, तथा साग्धिः, बब्धामित्यत्रापि घसिभयोर्भविष्यति। वाशब्दोऽत्रैवोपपत्त्यन्तरं सूचयति। तत्रेदमुपपत्त्यन्तरम् -सग्धिरिति नैतद्घसे रूपम्, किं तर्हि? षघ हिंसायाम् (धातुपाठः-1268) इत्यस्य। ननु चार्थभेदो भवति, स्वरभेदश्च; पूर्वस्यां व्युत्पत्तौ समानावनमित्येषोऽर्थो भवति, तसासस्वरेणान्तोदात्तत्वञ्च; षधिस्तु क्तिनि विहिते हिंसार्थो भवति, नित्स्वरेणाद्युदात्तश्च? अनेकार्थत्वाद्धातूनां षघिश्च समानावनमित्यस्मिन्नर्थे वर्त्तिध्यते, स्वरव्यत्ययेन चान्तोदात्तत्वं भविष्यतीत्यदोषः। बन्धाम#इति च नैतद्भसे रूपम्, किं तर्हि? बध बन्धने (धातुपाठः-973) इत्यस्माल्लोटि तस्माम्, व्यत्ययो बहुलम् (3.1.85) इति धत्वे तकारस्य व्यत्ययो बहुलम् (3.1.85) इति धातुधकारस्य बकारे च कृते बब्धामिति भवति। एवं च सिज्ग्रहणे क्रियमाणे घसिभसोर्यदि न सिध्यति नाम, तथापि नैव किञ्चिदनिष्टम्; यस्मादनयापि व्युत्पत्त्या तदपाकृतं भवति। तदुक्तम् -घसिभसोर्न सिध्येत्तु [`सिध्येत -काशिका] तस्मात्? सिज्ग्रहणं न तत्` (का। 8.2.25)। ततश्च घि सकारे सिचो लोपश्चकाद्धीति प्रयोजनम् (का। 8.2.25) इत्येतदवस्थितं श्लोकवार्त्तिककारस्य मतम्॥

Prakriyasarvasvam

धादौ प्रत्यये परे सलोपः स्यात् ।

Vartika

सङीति वक्तव्यम् ।

Sutra Prayogas

  • अथवाध्वमेव (शिशुपालवधम्): धि च इति सकारलोपः।