81070: गतिर्गतौ

Padacheda: गतिः | S | 1 | 1 |

गतौ | S | 7 | 1 |

Sutrartha


Vasu English Summary

A गति becomes unaccented when followed by another गति .

Vasu English Translation

A गति becomes unaccented when followed by another गति . Thus अभ्यु꣡द्धरति, स॒मुदा꣡मयति, अभि॒सं॒प॒र्या꣡ हरति ॥ Why do we say गतिः “a Gati becomes &c”? Observe दे꣡वदत्तः प्रपचति ॥ Here देवदत्त is a Pratipadika and does not lose its accent. Why do we say ‘when followed by a Gati’? Observe आ꣡ मन्द्रैरिन्द्र हरिभि र्याहि मयूर रोमभिः ॥ Here आ is a Gati to the verb याहि, the complete verb is आयाहि ॥ But as आ is not followed by a Gati, but by a Pratipadika मन्द्र, it retains its accent. Had the word गतौ not been used in the sutra, this आ would have lost its accent, because the rule would have been too wide, without any restriction of what followed it.

Bhashya

गतिर्गतौ गताविति किमर्थम्?॥ प्रपचति। प्रकरोति॥ गतेरनुदात्तत्त्वे गतिग्रहणानर्थक्यं तिङ्यवधारणात्॥ गतेरनुदात्तत्वे गतिग्रहणमनर्थकम्॥ किं कारणम्?॥ तिङ्यवधारणात्। तिङि चोदात्तवतीत्येतन्नियमार्थं भविष्यति।तिङ्युदात्तवत्येव गतिरनुदात्तो भवती(1)ति॥(॥ छन्दोर्थन्तु(2)॥)॥ छन्दोऽर्थं तर्हि गतिग्रहणं कर्त्तव्यम्। छन्दसि गतौ परतोऽनुदात्तत्वं(1) यथा स्यान्मन्द्रशब्दे मा भूत्। आ मन्द्रैरिन्द्र हरिभिर्याहि मयूरः(2) रोमभिः॥ छन्दोऽर्थमिति चेन्नाऽगतित्वात्॥ छन्दोऽर्थमिति चेत्तन्न॥ किं कारणम्?॥ अगतित्वात्-। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतः। न चात्राऽऽङो मन्द्रशब्दं प्रति क्रियायोगः॥ किं तर्हि?॥ याहिशब्दं प्रति॥ इहापि तर्हि न प्राप्नोति-अभ्युद्धरति समुदानयति(3) उपसमादधातीति (4)॥ अत्रापि नाऽभेरुदं प्रति क्रियायोगः॥ किं तर्हि?॥ हरतिं प्रति क्रियायोगः॥ नैषः दोषः। उदं प्रति(1) क्रियायोगः॥ कथम्?॥ उत्-हरतिक्रियां विशिनष्टि। उदा विशिष्टामभिर्विशिनष्टि। तत्र यत्क्रियायुक्ताइति भवत्येव सङ्घातं प्रति क्रियायोगः॥ इहापि तर्हि मन्द्रसाधना क्रियाऽऽङाऽभिव्यज्यते(2)-आयाहि मन्द्रैरिति॥ ननु(3)पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेनेति ?॥ साधनं हि क्रियां निर्वर्तयति तामुपसर्गो विशिनष्टि, अभिनिर्वृत्तस्य चोपसर्गेण(4) विशेषः शवयो वक्तुम्॥ सत्यमेवमेतत्। यस्त्वसौ धातूपसर्गयोरभिसम्बन्धस्तमभ्यन्तरीकृत्य(1) धातुः साधनेन युज्यते। अवश्यं चैतदेवं विज्ञेयं, यो हि मन्यते-पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति। आस्यते गुरुणेत्यकर्मकः उपास्यते गुरुरिति केन सकर्मकः स्यात्?॥ गतिना तु(3) विशिष्टस्य गतिरेव विशेषकः। साधने केन ते न स्याद्धाह्यमाभ्यन्तरो हि सः॥1॥

Kashika

गतिर्गतौ परतोऽनुदात्तो भवति। अ॒भ्युद्ध॑रति। स॒मु॒दान॑यति। अ॒भि॒सं॒प॒र्याह॑रति। गतिरिति किम्? दे॒व॒द॒त्तः प्रप॑चति। गताविति किम्? आ म॒न्द्रैरि॑न्द्र हरि॑भिर्या॒हि म॒यूर॑रोमभिः (ऋ० ३.४५.१)। याहीत्येतत् प्रति क्रियायोगादाङित्येष गतिः। तस्य गतावित्येतस्मिन्नसति गतिरित्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात्॥

Siddhanta Kaumudi

अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभर्याहि मयूररोमभिः (आम॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः) ॥

Padamanjari

अभ्युद्धरतीति । सर्वोपसर्गसाधारणी हरणक्रिया प्रतीयते, तामुद्विशिनष्टि उद्धरतीति । उदैवोर्ध्वता विशिष्टाऽवगम्यत तामभिर्विशिनष्टि अभ्यद्धरतीति । तत्र - अन्योऽन्यापेक्षया नास्ति गतित्वं यद्यपि द्वयोः । क्रियां प्रति गतित्वातु निहतोऽभिर्गतिर्गतौ ॥ समुदानयतीति । अत्र समुदोर्द्वयोरपि निघातः । अभिसम्पर्याहरतीति । अत्र त्रयाणाम् ॥ गताविति किमिति । क्रियां प्रति गतिर्भवति, क्रिया च धातुवाच्या । धातुश्च द्विविधः - सगतिः, अगतिश्च । प्रत्यया अपि धातोर्द्वये भवन्ति - कृतः, तिङ्श्च । तत्र कृदन्ते सगतावगतौ च कृत्स्वरथाथादिस्वरेषु कृतेषु शेषनिघातेन गतिर्निहन्यत एव । तिङ्न्तेऽपि केवले उदातवति तावदुतरसूत्रेण भवत्येव निघातः, अनुदातेतु नियमाश्रयणान्न भविष्यति, तिङ्न्ते यदि भवति उदातवत्येव भवति, ततश्च सगतिरेव तिङ्वशिष्यते इति प्रश्नः । आमन्द्रैरिति । ननु च क्रियायोगे गतिभवति, न चात्राङ्ः क्रियायोगोऽस्ति, मन्द्रशब्दस्याक्रियावाचित्वात् ? अत आह - याहीत्येतत्प्रतीति ।’ते प्राग्धातोः’ इति प्रयोगनियमः, न संज्ञानियमः, ततश्च व्यवहितप्रयोगेऽपि गतित्वमस्त्येवेति भावः । ननु यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, ततश्च याहीत्येतत्प्रति गतित्वेन मन्द्रं प्रत्यगतित्वादप्रसङ्गः, इहापि तर्हि न प्राप्नोति - अभ्युद्धरतीति, उदं प्रत्यगतित्वात् ? मा भूदुदं प्रति गतिः, समुदायं तु प्रति गतिर्भवति, उदा विशिष्टा हि क्रिया अभिना विशेष्यते । आ मन्द्रैरित्यत्रापि मन्द्रादिकरणकमिन्द्रकर्तृकं यानमाङ विशेष्यत इति समुदायं क्रियाविशेषवाचिनं प्रत्याङे गतित्वान्निघातः प्राप्नोति ? न प्राप्नोति ; पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन, आयाने हि मन्द्रादेः साधनत्वं मन्द्रैर्हरिभिरायाहीति, न तु याने; ततश्च न समुदायं प्रत्याङे गतित्वमिति नास्त्येवात्र प्रसङ्गः । तत्राह - तस्येति । न हि परनिमितानुपादाने’यत्क्रियायुक्ताः प्रादयस्तं प्रति’ इति गम्यते, ततश्च वस्तुतो गतित्वाश्रयो निघातः स्यादिति मन्यते । यदि पुनः’पदस्य’ इत्यधिकारात्समर्थपरिभाषोपस्थानाद्येन गतेः सामर्थ्यं तं प्रति गतेरिति विज्ञायते, तदा शक्यं गतावित्यवक्तुम्, यदाह -‘गतेरनुदातत्वे गतिग्रहणानरर्थक्यम्, तिङ्यवधारणाच्छन्दो’ र्थमिति चेन्नागतित्वात्ऽ इति ॥

Nyaas

अभ्युद्धरति इति। अभिशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्त उच्छब्दे गतौ परतोऽनुदात्तत्वं भवति। समुदानयति इति। अत्रापि निपाता आद्युदात्ताः (फि।सू।4।80), उपसर्गाश्चाभिवर्जम् (फि।सू।4।81) इति सम आद्युदात्तत्वे प्राप्तेऽनुदात्तत्वं भवति। कथं पुनरत्राह -समश्च गतिसंज्ञेति यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसज्ञे भवत इत्युक्तम्? (जै।प।वृ।99), न चोच्छब्दस्य क्रियावाचित्वम्? नैष दोषः; क्रियाविशेषवाचिनो हि प्रादयः। क्रियाविशेषश्च क्रियैव। कारकाणां प्रवृत्तिविशेषः क्रियेत्युक्तम्। उपसगऽपि कारकप्रवृत्तिविशिष्यत एव। न [न ह्रुद्धरतीति] ह्रुत्तरतीति हरत्यर्थ एव केवलं कर्त्तृव्यापारं व्यवच्छिनति। किं तर्हि? उपसर्गार्थोऽपि। अथ वा हरणादर्थान्तरमेवोद्धरणम्, तस्याभिर्विशेषणमिति नानुपपन्ना गतिसंज्ञा। देवदत्तः प्रपचति इति। देवैर्दासीष्टेति क्तिच्क्तौ च संज्ञायाम् (3.3.174) इति क्तः; दो दद्धोः (7.4.46) इति ददादेशः। तृतीया कर्मणि (6.2.48) इत्याद्युदात्तत्वे प्राप्ते कारकाद्दत्तश्रुतयोरेवाशिषि (6.2.148) इति देवदत्तशब्दोऽन्तोदात्तः। आमन्द्रैः इत्यादि। अत्र सर्वमस्ति, न तु मन्द्रोगतिरिति। तस्मिन्? परत आङोऽनुदात्तत्वं न भवति। असति चनुदात्तत्वे निपाता आद्युदात्ताः (फि।सू।4।80) उपसर्गश्चाभिवर्जम् (फि सू 4।81) इत्याद्युदात्तत्वमेव भवति। कथं पुनराङो गतिसंज्ञा, क्रियायोगे हि सति विहिता सा, न चात्रास्ति क्रियायोगः, मन्दरशब्दस्याक्रियावाचित्वात्? इत्यत आह -याहीत्येतत्? प्रति क्रियायोगादाङित्वेष गतिः इति। सत्यपि व्यवधाने व्यवहिताश्च (1.4.81) इति गतिसंज्ञाविधानादिति भवाः। स्यादेतत्, यद्यपि याहीत्येतत्? प्रत्याङो गतित्वम्, तथापि मन्द्रशब्दं प्रति नास्येव तस्य गतिसंज्ञा, तेन यद्यपि गतावित्येतन्नोच्येत, तथापि नैवेहानुदात्तत्वं प्राप्नोति? इत्यत आह -तस्य इत्यादि। अत्रास्यानुदात्तत्वं स्यादेवेति। अस्य अनाश्रितपनिमित्तकम् इत्यनेन हेतुरुक्तः। तस्यानाश्रितपरनिमित्तकस्यापि गतावित्यस्मिन्नसत्येनेन गतिग्रहणस्याभावो हेतुरभिहितः। यदि गतावित्येन्नोच्येत, ततोऽनाश्रितपरनिमित्तमेवानुदात्तत्वमुक्तं स्यात्। न ह्रसति सप्तमीनिर्दिष्टे गतिग्रहणे परनिमित्तताश्रीयते। ततश्च गतिरित्येतावत्युच्यमाने यद्यपि मन्द्रशब्दो गतिर्न भवति, तथापि तस्याङाश्रितपरनिमित्तमनुदात्तत्वमिह स्यादेव। गतावित्यस्मस्तु सति न भवत्येष दोषः; गतेः परनिमित्तस्याश्रयणात्? तस्य चेहाभावात्॥

Prakriyasarvasvam

गतौ परे गतिर्नित्यं निहन्यते । परिप्रस्यन्दते सुतः ।