81070: गतिर्गतौ =============== **Padacheda:** गतिः | S | 1 | 1 | गतौ | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A गति becomes unaccented when followed by another गति . Vasu English Translation ------------------------ A गति becomes unaccented when followed by another गति . Thus अभ्यु꣡द्धरति, स॒मुदा꣡मयति, अभि॒सं॒प॒र्या꣡ हरति ॥ Why do we say गतिः "a *Gati* becomes &c"? Observe दे꣡वदत्तः प्रपचति ॥ Here देवदत्त is a *Pratipadika* and does not lose its accent. Why do we say 'when followed by a *Gati*'? Observe आ꣡ मन्द्रैरिन्द्र हरिभि र्याहि मयूर रोमभिः ॥ Here आ is a *Gati* to the verb याहि, the complete verb is आयाहि ॥ But as आ is not followed by a *Gati*, but by a *Pratipadika* मन्द्र, it retains its accent. Had the word गतौ not been used in the *sutra*, this आ would have lost its accent, because the rule would have been too wide, without any restriction of what followed it. Bhashya ------- गतिर्गतौ गताविति किमर्थम्?॥ प्रपचति। प्रकरोति॥ गतेरनुदात्तत्त्वे गतिग्रहणानर्थक्यं तिङ्यवधारणात्॥ गतेरनुदात्तत्वे गतिग्रहणमनर्थकम्॥ किं कारणम्?॥ तिङ्यवधारणात्। तिङि चोदात्तवतीत्येतन्नियमार्थं भविष्यति।तिङ्युदात्तवत्येव गतिरनुदात्तो भवती(1)ति॥(॥ छन्दोर्थन्तु(2)॥)॥ छन्दोऽर्थं तर्हि गतिग्रहणं कर्त्तव्यम्। छन्दसि गतौ परतोऽनुदात्तत्वं(1) यथा स्यान्मन्द्रशब्दे मा भूत्। आ मन्द्रैरिन्द्र हरिभिर्याहि मयूरः(2) रोमभिः॥ छन्दोऽर्थमिति चेन्नाऽगतित्वात्॥ छन्दोऽर्थमिति चेत्तन्न॥ किं कारणम्?॥ अगतित्वात्-। यत्क्रियायुक्तास्तं प्रति गत्युपसर्गसंज्ञे भवतः। न चात्राऽऽङो मन्द्रशब्दं प्रति क्रियायोगः॥ किं तर्हि?॥ याहिशब्दं प्रति॥ इहापि तर्हि न प्राप्नोति-अभ्युद्धरति समुदानयति(3) उपसमादधातीति (4)॥ अत्रापि नाऽभेरुदं प्रति क्रियायोगः॥ किं तर्हि?॥ हरतिं प्रति क्रियायोगः॥ नैषः दोषः। उदं प्रति(1) क्रियायोगः॥ कथम्?॥ उत्-हरतिक्रियां विशिनष्टि। उदा विशिष्टामभिर्विशिनष्टि। तत्र यत्क्रियायुक्ताइति भवत्येव सङ्घातं प्रति क्रियायोगः॥ इहापि तर्हि मन्द्रसाधना क्रियाऽऽङाऽभिव्यज्यते(2)-आयाहि मन्द्रैरिति॥ ननु(3)पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेनेति ?॥ साधनं हि क्रियां निर्वर्तयति तामुपसर्गो विशिनष्टि, अभिनिर्वृत्तस्य चोपसर्गेण(4) विशेषः शवयो वक्तुम्॥ सत्यमेवमेतत्। यस्त्वसौ धातूपसर्गयोरभिसम्बन्धस्तमभ्यन्तरीकृत्य(1) धातुः साधनेन युज्यते। अवश्यं चैतदेवं विज्ञेयं, यो हि मन्यते-पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति। आस्यते गुरुणेत्यकर्मकः उपास्यते गुरुरिति केन सकर्मकः स्यात्?॥ गतिना तु(3) विशिष्टस्य गतिरेव विशेषकः। साधने केन ते न स्याद्धाह्यमाभ्यन्तरो हि सः॥1॥ Kashika ------- गतिर्गतौ परतोऽनुदात्तो भवति। अ॒भ्युद्ध॑रति। स॒मु॒दान॑यति। अ॒भि॒सं॒प॒र्याह॑रति। गतिरिति किम्? दे॒व॒द॒त्तः प्रप॑चति। गताविति किम्? आ म॒न्द्रैरि॑न्द्र हरि॑भिर्या॒हि म॒यूर॑रोमभिः (ऋ० ३.४५.१)। याहीत्येतत् प्रति क्रियायोगादाङित्येष गतिः। तस्य गतावित्येतस्मिन्नसति गतिरित्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात्॥ Siddhanta Kaumudi ----------------- अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभर्याहि मयूररोमभिः (आम॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः) ॥ Padamanjari ----------- अभ्युद्धरतीति । सर्वोपसर्गसाधारणी हरणक्रिया प्रतीयते, तामुद्विशिनष्टि उद्धरतीति । उदैवोर्ध्वता विशिष्टाऽवगम्यत तामभिर्विशिनष्टि अभ्यद्धरतीति । तत्र - अन्योऽन्यापेक्षया नास्ति गतित्वं यद्यपि द्वयोः । क्रियां प्रति गतित्वातु निहतोऽभिर्गतिर्गतौ ॥ समुदानयतीति । अत्र समुदोर्द्वयोरपि निघातः । अभिसम्पर्याहरतीति । अत्र त्रयाणाम् ॥ गताविति किमिति । क्रियां प्रति गतिर्भवति, क्रिया च धातुवाच्या । धातुश्च द्विविधः - सगतिः, अगतिश्च । प्रत्यया अपि धातोर्द्वये भवन्ति - कृतः, तिङ्श्च । तत्र कृदन्ते सगतावगतौ च कृत्स्वरथाथादिस्वरेषु कृतेषु शेषनिघातेन गतिर्निहन्यत एव । तिङ्न्तेऽपि केवले उदातवति तावदुतरसूत्रेण भवत्येव निघातः, अनुदातेतु नियमाश्रयणान्न भविष्यति, तिङ्न्ते यदि भवति उदातवत्येव भवति, ततश्च सगतिरेव तिङ्वशिष्यते इति प्रश्नः । आमन्द्रैरिति । ननु च क्रियायोगे गतिभवति, न चात्राङ्ः क्रियायोगोऽस्ति, मन्द्रशब्दस्याक्रियावाचित्वात् ? अत आह - याहीत्येतत्प्रतीति ।'ते प्राग्धातोः' इति प्रयोगनियमः, न संज्ञानियमः, ततश्च व्यवहितप्रयोगेऽपि गतित्वमस्त्येवेति भावः । ननु यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, ततश्च याहीत्येतत्प्रति गतित्वेन मन्द्रं प्रत्यगतित्वादप्रसङ्गः, इहापि तर्हि न प्राप्नोति - अभ्युद्धरतीति, उदं प्रत्यगतित्वात् ? मा भूदुदं प्रति गतिः, समुदायं तु प्रति गतिर्भवति, उदा विशिष्टा हि क्रिया अभिना विशेष्यते । आ मन्द्रैरित्यत्रापि मन्द्रादिकरणकमिन्द्रकर्तृकं यानमाङ विशेष्यत इति समुदायं क्रियाविशेषवाचिनं प्रत्याङे गतित्वान्निघातः प्राप्नोति ? न प्राप्नोति ; पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन, आयाने हि मन्द्रादेः साधनत्वं मन्द्रैर्हरिभिरायाहीति, न तु याने; ततश्च न समुदायं प्रत्याङे गतित्वमिति नास्त्येवात्र प्रसङ्गः । तत्राह - तस्येति । न हि परनिमितानुपादाने'यत्क्रियायुक्ताः प्रादयस्तं प्रति' इति गम्यते, ततश्च वस्तुतो गतित्वाश्रयो निघातः स्यादिति मन्यते । यदि पुनः'पदस्य' इत्यधिकारात्समर्थपरिभाषोपस्थानाद्येन गतेः सामर्थ्यं तं प्रति गतेरिति विज्ञायते, तदा शक्यं गतावित्यवक्तुम्, यदाह -'गतेरनुदातत्वे गतिग्रहणानरर्थक्यम्, तिङ्यवधारणाच्छन्दो' र्थमिति चेन्नागतित्वात्ऽ इति ॥ Nyaas ----- `अभ्युद्धरति` इति। अभिशब्दस्य प्रातिपदिकस्वरेणान्तोदात्तत्वे प्राप्त उच्छब्दे गतौ परतोऽनुदात्तत्वं भवति। `समुदानयति` इति। अत्रापि `निपाता आद्युदात्ताः` (फि।सू।4।80), `उपसर्गाश्चाभिवर्जम्` (फि।सू।4।81) इति सम आद्युदात्तत्वे प्राप्तेऽनुदात्तत्वं भवति। कथं पुनरत्राह -समश्च गतिसंज्ञेति यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गत्युपसर्गसज्ञे भवत इत्युक्तम्? (जै।प।वृ।99), न चोच्छब्दस्य क्रियावाचित्वम्? नैष दोषः; क्रियाविशेषवाचिनो हि प्रादयः। क्रियाविशेषश्च क्रियैव। कारकाणां प्रवृत्तिविशेषः क्रियेत्युक्तम्। उपसगऽपि कारकप्रवृत्तिविशिष्यत एव। न [न ह्रुद्धरतीति] ह्रुत्तरतीति हरत्यर्थ एव केवलं कर्त्तृव्यापारं व्यवच्छिनति। किं तर्हि? उपसर्गार्थोऽपि। अथ वा हरणादर्थान्तरमेवोद्धरणम्, तस्याभिर्विशेषणमिति नानुपपन्ना गतिसंज्ञा। `देवदत्तः प्रपचति` इति। देवैर्दासीष्टेति **क्तिच्क्तौ च संज्ञायाम्** (3.3.174) इति क्तः; `दो दद्धोः` (7.4.46) इति ददादेशः। **तृतीया कर्मणि** (6.2.48) इत्याद्युदात्तत्वे प्राप्ते **कारकाद्दत्तश्रुतयोरेवाशिषि** (6.2.148) इति देवदत्तशब्दोऽन्तोदात्तः। `आमन्द्रैः` इत्यादि। अत्र सर्वमस्ति, न तु मन्द्रोगतिरिति। तस्मिन्? परत आङोऽनुदात्तत्वं न भवति। असति चनुदात्तत्वे `निपाता आद्युदात्ताः` (फि।सू।4।80) `उपसर्गश्चाभिवर्जम्` (फि सू 4।81) इत्याद्युदात्तत्वमेव भवति। कथं पुनराङो गतिसंज्ञा, क्रियायोगे हि सति विहिता सा, न चात्रास्ति क्रियायोगः, मन्दरशब्दस्याक्रियावाचित्वात्? इत्यत आह -`याहीत्येतत्? प्रति क्रियायोगादाङित्वेष गतिः` इति। सत्यपि व्यवधाने व्यवहिताश्च (1.4.81) इति गतिसंज्ञाविधानादिति भवाः। स्यादेतत्, यद्यपि याहीत्येतत्? प्रत्याङो गतित्वम्, तथापि मन्द्रशब्दं प्रति नास्येव तस्य गतिसंज्ञा, तेन यद्यपि गतावित्येतन्नोच्येत, तथापि नैवेहानुदात्तत्वं प्राप्नोति? इत्यत आह -`तस्य` इत्यादि। अत्रास्यानुदात्तत्वं स्यादेवेति। अस्य `अनाश्रितपनिमित्तकम्` इत्यनेन हेतुरुक्तः। तस्यानाश्रितपरनिमित्तकस्यापि गतावित्यस्मिन्नसत्येनेन गतिग्रहणस्याभावो हेतुरभिहितः। यदि गतावित्येन्नोच्येत, ततोऽनाश्रितपरनिमित्तमेवानुदात्तत्वमुक्तं स्यात्। न ह्रसति सप्तमीनिर्दिष्टे गतिग्रहणे परनिमित्तताश्रीयते। ततश्च गतिरित्येतावत्युच्यमाने यद्यपि मन्द्रशब्दो गतिर्न भवति, तथापि तस्याङाश्रितपरनिमित्तमनुदात्तत्वमिह स्यादेव। गतावित्यस्मस्तु सति न भवत्येष दोषः; गतेः परनिमित्तस्याश्रयणात्? तस्य चेहाभावात्॥ Prakriyasarvasvam ----------------- गतौ परे गतिर्नित्यं निहन्यते । परिप्रस्यन्दते सुतः ।