81069: कुत्सने च सुप्यगोत्रादौ¶
Padacheda: कुत्सने | S | 7 | 1 |
च | S | 0 | 0 |
सुपि | S | 7 | 1 |
अगोत्रादौ | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
A finite verb along with its preceding गति , if any, become अनुदात्त when a noun denoting the fault of the action follows, with the exception of गोत्र etc.
Vasu English Translation¶
A finite verb along with its preceding गति , if any, become अनुदात्त when a noun denoting the fault of the action follows, with the exception of गोत्र etc. Karika
सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङीति चोक्तार्थे । पूतिश्च चानुबन्धो विभाषितं चापि बह्वर्थम् ॥
The anuvritti of पदात् (8.1.17) ceases. But the anuvritti of the last sutra is current. Thus प॒च॒ति॒ पूति, प्र॒प॒च॒ति॒ पूति, प॒च॒ति॒ मिथ्या, प्र॒प॒च॒ति॒ मिथ्या ॥
Why do we say कुत्सने ‘denoting the fault of the action’? See प꣡चति शोभनम् ॥
Why do we say सुपि ‘a noun’? Observe प꣡चति क्लिश्नाति ॥
Why do we say with the exception of गोत्र &c. See प꣡चति गोत्रम्, प꣡चति ब्रुवम्, पचति प्रवचनम् ॥
Vart:- It should be mentioned that the ‘fault’ mentioned in the sutra, must be the fault relating to the mode of doing the action, denoted by the verb. The rule will not apply, if the कुत्सन refers to the agent and not to the action. Thus प꣡चति पूतिर्देवदत्तः, प्रपचति पूतिः ॥
Vart:- It should be stated that पूति has an indicatory च ॥ The effect of this is that the word पूति is finally acute, because of the indicatory च ॥ The word पूति is not a क्तिन् formed word, because it is not feminine, as we find it in sentences like पूतिरयम्; nor is it a word formed by क्तिच् affix, because this is not a संज्ञा word; therefore, it is a word without a derivation. Therefore by प्रातिपदिक स्वर (Phit I.1) it will be end-acute. The vartika, therefore, indicates that when पूति causes the loss of accent of the verb, then it is end-acute, but in other cases it is acute on the beginning. According to Padamanjari, पूति is derived from पू by adding the Unadi affix तिप् diversely (Unadi IV. 180), and is first acute.
Vart:- A finite verb in the plural number, loses its accent optionally: when it loses its accent, then पूति is end-acute. Thus प॒च॒न्ति॒ पूतिः꣡, or पचन्ति पू꣡तिः, प्रप॒च॒न्ति॒ पूतिः꣡ or प्रपचन्ति पू꣡तिः ॥
Karika:- The following noun denoting fault must refer to the action. The elision of म is intended only in the case of non-verbs, because it is so said by those of old. The word पूति has an indicatory च, but it is optionally so when the verb is plural. The elision of म् mentioned above refers to the elision of म् in दारुणम्-अध्यापकः = दारुणाध्यापकः ॥ The words उक्तार्थम् mean आचार्यपरंपराकथितप्रयोजनमेतदित्यर्थः ॥
Bhashya¶
कुत्सने च सुप्यगोत्रादौ ॥ सुपि कुत्सने क्रियायाः॥ क्रियायाः कुत्सन इति वक्तव्यम्। कर्तुः(1) कुत्सने मा भूत्। पचति पूतिः (गिरति(2) पूतिः(3))॥ पूतिश्च(4) चानुबन्धः॥ पूतिश्च चानुबन्धो द्रष्टव्यः। पचति पूति॥ ॥ विभाषितं चापि(4) बह्वर्थम्॥ विभाषितं चापि बह्वर्थं द्रष्टव्यम्। पच्न्ति(5) पूति। पचन्ति(6) पूतिः॥
Kashika¶
पदादिति निवृत्तम्। सगतिरपि तिङिति वर्तते। कुत्सने च सुबन्ते गोत्रादिवर्जिते परतः सगतिरपि तिङ् अगतिरप्यनुदात्तो भवति। प॒च॒ति॒ पूति। प्र॒प॒च॒ति॒ पूति। प॒च॒ति॒ मिथ्या। प्र॒प॒च॒ति॒ मिथ्या। कुत्सन इति किम्? पच॑ति शोभनम्। सुपीति किम्? पच॑ति क्लिश््नाति। अगोत्रादाविति किम्? पच॑ति गोत्रम्। पच॑ति ब्रुवम्। पच॑ति प्रवचनम्॥ क्रियाकुत्सन इति वक्तव्यम्॥ कर्तुः कुत्सने मा भूत्। पच॑ति पूतिर्देवदत्तः। प्रप॑चति पूतिः॥ पूतिश्चानुबन्धो भवतीति वक्तव्यम्॥ तेनायं चकारानुबन्धकत्वादन्तोदात्तो भवति॥ विभाषितं चापि बह्वर्थमनुदात्तं भवतीति वक्ततव्यम्॥ प॒च॒न्ति॒ पू॒तिः, पच॑न्ति॒ पूतिः॑। प्र॒प॒च॒न्ति॒ पू॒तिः, प्रप॑चन्ति॒ पूतिः॑।
सुपि कुत्सने क्रियाया मलोप इष्टोऽतिङीति चोक्तार्थम्।
पूतिश्च चानुबन्धो विभाषितं चापि बह्वर्थम्॥
Siddhanta Kaumudi¶
कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् पचतिक्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् ॥ कर्तुः कुत्सने मा भूत् । पचति । पूतिर्देवदत्तः ।<!पूतिश्चानुबन्ध इति वाच्यम् !> (वार्तिकम्) ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः ।<!वा बह्वर्थमनुदात्तमिति वाच्यम् !> (वार्तिकम्) ॥ पचन्ति पूति ॥
Padamanjari¶
पचति क्लिश्नातीति । कथमत्र समानवाक्यत्वं सामर्थ्यं चेति चिन्त्यम् । कर्तुः कुत्सने मा भूत्, पचति पूतीति । कर्तृत्वमत्र कुत्स्यते - अस्येदमयुक्तमिति । क्रिया तु शोभनैव, तत्र कर्तृत्वस्य विशेषणं पूतित्वं न कर्त्रा समानाधिकरणमिति दारुणमभिरूपकमित्यादिवन्नपुंसकत्वम् । एवं द्विबह्वोरप्येकवचनमेव भवति - पचतः पूति, पचन्ति पूतीति । प्रायेण पूतिरिति पुंल्लिङ्गं पठ।ल्ते । ननु क्रियाप्रधानेऽस्मिन्नाख्याते साधनं कथं विशेषणेन सम्बन्धमप्रधानं पठ।लेत ? उच्यते; एकार्थीभावमापन्नं वृतौ यदुपसर्जनम् । विशेषणेन सम्बन्धस्तस्य नैवोपपद्यते ॥ न हि भवति - ऋद्धस्य राजपुरुष इति । यस्य तु नैकार्थीभावस्तदप्रधानमपि विशेषणेन संयुज्यते, यथा - ऋद्धस्य राज्ञः पुरुष इति । एवं साधनं क्रियां प्रति गुणभूतमप्येकार्थीभावाद्विशेषणेन युज्यते, तथा साधनप्रधानेषु कृदन्तेषु क्रिया गुणभूताऽपि विशेषणेन युज्यते - दारुणमध्यायक इति । यथैव तहि साधनस्य विशेषणेन योगः, एवं क्रियान्तरेणापि प्राप्नोति - पचति पठति, पचति दृश्यति, पाचकः पठति, पाचकः पश्यतीतिवत् ? किं कुर्मः, न तावदेवं दृश्यते ! तदेतदेवं प्रतिपतव्यम् - भार्या स्त्र्यन्तरसम्बन्धं पत्युर्न सहते यथा । स्नानादिकं तु संस्कारं स्वार्थमेवानुमन्यते ॥ तथा क्रियापि - विशेषणेन सम्बन्धं कर्तुः स्वस्यानुमन्यते । स्वानुरक्तं तु कर्तारं न क्रियान्तरगामिनम् ॥ इति । पूतिश्चेति । तिबन्तः पूतिशब्द आद्यौदातः । वसेस्तिबिति । तिब् बाहुलकात्पूञोऽपि भवति, बाहुलकादेव गुणाभावः । तस्य निघातनिमितस्यान्तोदातत्वं यथा स्यादिति चित्वमुपसङ्ख्यायते । विभाषितमिति । बह्वथ तिङ्न्तं विभाषा निहन्यते, यदा निहन्यते तदा पूतिरन्तोदातः । क्रियाकुत्सने इत्यादि यदुक्तम्, तत्र प्रमाणत्वेन भाष्यपठितामार्यां पठति - सुपि कुत्सन इति । मलोप इष्टोऽतिङ् चोक्तार्थिमिति । भाष्ये तावदयमर्थः । मलोपश्चेति वार्तिककारेणोक्ते मलोपस्तीङ् नेष्टः - दारुणं पचतीति । इत्येवं मलोपश्चेति वाक्यमुक्तार्थमाचार्यैरिति । वृतौ तु श्लोकान्तर्गतत्वादयं पादः पठितो न त्वत्रास्योपयोगः कश्चित्;’समासे चैतदनुदातत्वमिष्यते’ इत्युक्तत्वात् ॥
Nyaas¶
पचति पूति इति। पतिशब्दसय क्रियादिविशेषणत्वात्? स्वमोर्नपुंसकात् (7.1.23) इति विभक्तेर्लुक्। पचति, क्लिश्नाति इति। क्लिशू विबाधने (धातुपाठः-1522), क्र्यादित्वात्? श्ना। अत्र क्लिश्नातीत्येतत्? कुत्सनं भवति, यो यस्य बाधनं करोति तेन स कुत्स्यते। सम्बन्धोऽप्यनयोस्तिङन्तयोरस्त्येव। यस्मात्? पचति तस्मात्? क्लिश्नातीति। सुबन्तं तु क्लिश्नातीत्येतन्न भवति, अस्य न भवति निघातः। क्रियाकुत्सने इत्यादि। तिङन्ते द्वयमस्ति -साधनम्, क्रिया च। तत्र क्रियायाः कुत्सनेऽनुदात्तत्वं भवतीत्येतदर्थमिदं व्याख्येयम्, कर्त्तुः कुत्सने मा भूदित्येवमर्थं च। तत्रेदं व्याख्यानम् -चादिलोपे विभाषा विभाषा` (8.1.63) इत्यतो विभाषाग्रहणमनुवर्तते। व्यवस्थितविभाषा च सा, तेन क्रियाकुत्सन एव भविष्यति, न कर्त्तुः कुत्सन इति। ननु च क्रियाप्रधानमाख्यातम्, साधनं तु तत्राप्रधानम्, तस्य क्रियाङ्गत्वात्, अत्र प्राधान्यादेव पतीत्येवमादिना विशेषणेन क्रियाया एव सम्बन्धो भविष्यति, न गुणभूतस्य कर्तुः, तत्किमुच्यते क्रियाकुत्सनमिति? एवं मन्यते -यथैव कृदन्तेषु दारुणाध्यायकादिषु क्रियायाः प्रधानभूताया अपि विशेषणेन सम्बन्धो भवति, तथाऽख्यातेष्वप्राधान्येऽपि साधनस्य विशेषणेन सम्बन्धेन भवितव्यमिति। पूतिश्चानुबन्धः इत्यादि। पूतिशब्दश्चकारानुबन्धो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् -चकारोऽत्र क्रयते, स चानुक्तसमुच्चयार्थः, तेन पूतिश्चानुबन्धो भविष्यतीति। ननु च पूतिशब्दस्य प्रातिपदिकत्वादप्रतिषिद्धमेवान्तोदात्तत्वम्, कस्मात्? स चानुबन्धः क्रियते? न चायं क्तिन्नन्तः, पूतिरयमिति पुंसा सामानाधिकरण्यात्। तह्र्रनेन चकारानुबन्धकरणेनैवैतद्दर्शयति -यत्र सगतेस्तिङोऽनुदात्तत्वं तत्र पूतेरन्तोदात्तत्वम्, अन्यत्रायमाद्युदात्त एव; तेन क्रियाकुत्सनेऽन्तोदात्तः कर्तव्यः, कुत्सन आद्युदात्त इति। तेनायम् इत्यातदिना चानुबनधकत्वस्य फलं दर्शयति। विभाषितम् इत्यादि। बह्वर्थ यत्? तिङन्तं तद्विभाषाऽनुदात्तं भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं त्विहापि विभाषाग्रहणानुवृत्तेः। तेन व्यवस्थितविभाषात्वं चश्रित्य कर्तव्यम्। सुपि कुत्सने इत्यादि। अथमुक्तार्थसंग्रहश्लोकः। तत्राद्येन पादेन यदुक्तं क्रियाकुत्सन इति वरक्तव्यमिति तस्य संग्रहः। मलोपः इत्यादि। नास्मिन्? तिङ्? विद्यत इत्यतिङिति। स पुनः प्रस्तावात्? [प्रस्तादान् -प्रा।कांउद्रितपाठौ] काष्ठादीनां समासो विज्ञायते। तत्रातिङि काष्ठादिसमासे मलोप इष्टः। एतच्च मलोपश्चेत्यनेनायमेव विषय आख्यायत इत्यादिना तूक्तार्थम्, तदनेन समास चैतदनुदात्तत्वमित्यादिना यदुक्तं ततसर्वं ग्रहीतुम्। अथ वा मलोप इत्यनेन मलोपश्चेत्येतद्वचनमुपलक्षयति। अस्य चोक्तार्थमित्यनेन सम्बन्धः। तदेतदुक्तं भवति -मलोपश्चेति यत्? कार्यं वचनं तन्मलोपश्चेत्यनेनैपित्यादिना पूर्वमेवोक्तप्रयोजनमिति। अतिङि इति। अनुदात्तमित्येतद्वक्तव्यमिति वृत्तभङ्गभयान्नोक्तम्। अनुक्तमपि तस्य श्लोकस्य पूर्वोक्तार्थसंग्रहार्थत्वात्? काष्ठादीनाम च पूर्वमनुदात्तस्य चोक्तत्वाद्गम्यत एव। अतिङीति चानेन बहुव्रीहिणा समासः। तेनैतदुक्तं भवति -काष्ठादीनां समासेऽनुदात्तत्वं भवतीति। शेषं सुगमम्॥
Prakriyasarvasvam¶
पदादिति गतम् । गोत्रादिवर्जिते सुबन्ते परे सगतिरगतिरपि तिङ् कुत्सने निहन्यते ।<!क्रियाकुत्सन इति वाच्यम्!> (वा.) प्रपचति पूति । (पूति) रन्तोच्च नीचैः । गोत्रादौ पचति । गोत्रमित्यादि कर्तृकुत्सने—पचति यतिः । ‘बह्वर्थं वा निहन्यत इति वाच्यम्’ (वा.) । पचन्ति पूति । ‘आमन्त्रितं पूर्वमविद्यमानवत्’ (८-१-७२) इति संबोधनस्यासद्वत्त्वात् अग्ने याहि सुशस्तिभिः । इन्द्र पि तुभ्यं सुतो मदायेत्यादौ (?) ‘तिङ्ङतिङः’ (८-१-२८) इति निघातो नः । एवं यावत्सखे पूजयसि हरिमित्यादौ ‘पूजायां नानन्तरम्’ (८-१-३७) इत्यनिघातनिषेधः स्यादेव ।
Vartika¶
क्रियाकुत्सन इति वाच्यम् ।