81068: सगतिरपि तिङ्¶
Padacheda: सगतिः | S | 1 | 1 |
अपि | S | 0 | 0 |
तिङ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
(After such words denoting praise) the finite verb (which is praised) becomes अनुदात्त even along with the गति , if any, that may precede it.
Vasu English Translation¶
(After such words denoting praise) the finite verb (which is praised) becomes अनुदात्त even along with the गति , if any, that may precede it. Whether a finite verb is compounded with a gati or stands single, both the compound and the simple verb lose their accent, when it is qualified by the adverbs काष्ठं &c. Thus यत् काष्ठं प॒च॒ति॒, यत् काष्ठं प्र॒प॒च॒ति॒ ॥ By (8.1.28), the finite verb would have lost its accent after the word काष्ठं, but this loss was prohibited by (8.1.30) in connection with यत्; the present sutra re-ordains the loss, by setting aside the prohibition of (8.1.30).
The word सगति ‘along with its Gati’, indicates that the Gati even loses its accent. The word Gati here is restricted to Upasargas. Therefore not here यत् काष्ठं शुक्ली करोति, यत् काष्ठं कृष्णी करोति ॥
The word तिङ् is used in the sutra to indicate that the words qualified by काष्ठं &c in the preceding sutra, were non तिङ् words- i. e. were substantives. The rule of मलोपश्च of that sutra, therefore, does not apply here.
Bhashya¶
सगतिरपि तिङ् सगतिग्रहणं किमर्थम्?॥ सगतिग्रहणमपदत्वात्(3)॥ सगतिग्रहणं क्रियते॥ (किं कारणम्?)॥ अपदत्वात्। पदस्येति वर्तते च(1) सगतिकं पदं भवति॥ उत्तरार्थञ्ञ्च॥ उत्तरार्थं चापि(2) सगतिग्रहणं क्रियते-कुत्सने च सुप्यगोत्रादौ। सगतिरपि पचति(3)। प्रपचति पूति॥ अथाऽपिग्रहणं किमर्थम्?॥ अगतिकस्यापि यथा स्यात्-यत्काष्ठा पचतीति। नैतदस्ति प्रयोजनं सिद्धं, पूर्वेणाऽगतिकस्य॥ न सिध्यति। मलो पाभिसम्बद्धं तत्। यदि तदनुवर्तते(4) इहापि मलोपः प्रसज्येत-दारुणं पचतीति(॥ उत्तरार्थञ्ञ्च(3)॥) उत्तरार्थं चापि ग्रहणं क्रियते-कुत्सने च सुप्यगोत्रादौ। अगतिरपीति। पचति पूतीति॥ तिङ्निघातात्पूजनात्पूजितमनुदात्तं विप्रतिषेधेन॥ तिङ्निघातात्पूजनात्पूजितमित्येतद्भवति(5) विप्रतिषेधेन। तिङ्निघातस्याऽवकाशः -देवदत्तः पचति। पूजनात्पूजितमित्यस्यावकाशः-काष्ठाध्यापकः। (काष्ठाभिरूपकः) । इहोभयं प्रार्प्नोतिकाष्ठा पचति। पूजनात्पूजितमित्येतद्भवति विप्रतिषेधेन॥ कः पुनरत्र विशेषस्तेन वा सत्यनेन वा?॥ अयमस्ति विशेषः। साऽपवादकः स विधिः; अयं र्निरपवादकः। यदि हि तेन स्यादिह न स्यात्-यत्काष्ठा पचति॥(सगति)
Kashika¶
सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तं भवति। यत् काष्ठं प॒च॒ति॒। यत् काष्ठं प्र॒प॒च॒ति॒। यद् दारुणं प॒च॒ति॒। यद् दारुणं प्र॒प॒च॒ति॒। तिङ्ङतिङः (८.१.२८) इति निघातस्य निपातैर्यद्यदिहन्त० (८.१.३०) इति प्रतिषेधे प्राप्ते पुनर्विधानम्। सगतिग्रहणात् च गतिरपि निहन्यते। गतिग्रहणे चात्रोपसर्गग्रहणमिष्यते। इह न भवति — यत् काष्ठं शुक्लीक॒रोति॑। यत् काष्ठं कृष्णीक॒रोति॑॥
Siddhanta Kaumudi¶
पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः (SK3935) इति निघातस्य निपातैर्यत्-(SK3937) इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ।<!गतिग्रहणे उपसर्गग्रहणमिष्यते !> (वार्तिकम्) ॥ नेह । यत्काष्ठां शुक्लीकरोति ॥
Padamanjari¶
यत्काष्ठ्ंअ पचतीति । येऽपि’मलोपश्च’ इत्यनेन वाक्येन मलोपमाहुः तेऽपि तिङ्न्ते परतो नैव लोपमिच्छन्ति । सगतिग्रहणाद्रतिरपि निहन्यत इति । कथम् ? तुल्ययोगेऽत्र सहशब्दः, यत्र तुल्ययोगे सहशब्दस्तत्र द्वयोरपि कार्ययोगो भवति, तद्यथा - सपुत्रो भोज्यतामित्युक्ते पुत्रोऽपि भोज्यते अपिग्रहणं यत्र गतिर्न प्रयुज्यते तत्र केवलस्यापि तिङ्न्तस्य यथा स्यात्, गतिप्रयोगे तु द्वयोः सहैव भवति, तिङ्ग्रहणात्पूर्वो योगः सुबन्तविषय एव विज्ञायते ॥
Nyaas¶
सगतिग्रहणाच्च गतिरपि निहन्यते इति। तुल्ययोगेऽत्र सहशब्दः। तत्रोभयोरपि विधीयमानेन कार्येण सम्बन्धो भवति। तथा हि सपुत्रो भोज्यतामित्युक्ते द्वयोरपि पितापुत्रयोर्भोजनेन सम्बन्धो भवति। तस्मादिहाप्यगतेस्तिङन्तस्य च निघाते च सम्बन्धो विज्ञायते। गतिग्रहणेन चात्रोपसर्गग्रहणमिष्यते इति। यथा चैतल्लभ्यते तथा पूर्वमेवाख्यातम्। तिङ्ग्रहणं पूर्वो निघातः सुबन्तविषयो यथा विज्ञायेतेत्येवमर्थम्॥
Prakriyasarvasvam¶
सगतिरगतिरपि काष्ठादिभ्यः परस्तिङ् निहन्यते यत्काष्ठं प्रदहति । यत्काष्ठं दहति । यद्दारुणं निहन्ति । यद्दारुणं हन्तीत्यादि । ‘तिङतिङः’ (८-१-२८) इति निघातस्य ‘निपातैर्यद्यदि—’ (८-१-३०) इतिनिषेधे प्राप्त उक्तिः । सगतिरित्यु- पसर्गेतरपि निघात इति हरः । गतिशब्देनात्रोपसर्ग एवोक्तः । तेन—यत्काष्ठं शुक्लीकरोतीत्यादौ न ।
Vartika¶
गतिग्रहणे उपसर्गग्रहणमिष्यते ।