81068: सगतिरपि तिङ् =================== **Padacheda:** सगतिः | S | 1 | 1 | अपि | S | 0 | 0 | तिङ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- (After such words denoting praise) the finite verb (which is praised) becomes अनुदात्त even along with the गति , if any, that may precede it. Vasu English Translation ------------------------ (After such words denoting praise) the finite verb (which is praised) becomes अनुदात्त even along with the गति , if any, that may precede it. Whether a finite verb is compounded with a *gati* or stands single, both the compound and the simple verb lose their accent, when it is qualified by the adverbs काष्ठं &c. Thus यत् काष्ठं प॒च॒ति॒, यत् काष्ठं प्र॒प॒च॒ति॒ ॥ By (8.1.28), the finite verb would have lost its accent after the word काष्ठं, but this loss was prohibited by (8.1.30) in connection with यत्; the present *sutra* re-ordains the loss, by setting aside the prohibition of (8.1.30). The word सगति 'along with its *Gati*', indicates that the *Gati* even loses its accent. The word *Gati* here is restricted to *Upasargas*. Therefore not here यत् काष्ठं शुक्ली करोति, यत् काष्ठं कृष्णी करोति ॥ The word तिङ् is used in the *sutra* to indicate that the words qualified by काष्ठं &c in the preceding *sutra*, were non तिङ् words- i. e. were substantives. The rule of मलोपश्च of that *sutra*, therefore, does not apply here. Bhashya ------- सगतिरपि तिङ् सगतिग्रहणं किमर्थम्?॥ सगतिग्रहणमपदत्वात्(3)॥ सगतिग्रहणं क्रियते॥ (किं कारणम्?)॥ अपदत्वात्। पदस्येति वर्तते च(1) सगतिकं पदं भवति॥ उत्तरार्थञ्ञ्च॥ उत्तरार्थं चापि(2) सगतिग्रहणं क्रियते-कुत्सने च सुप्यगोत्रादौ। सगतिरपि पचति(3)। प्रपचति पूति॥ अथाऽपिग्रहणं किमर्थम्?॥ अगतिकस्यापि यथा स्यात्-यत्काष्ठा पचतीति। नैतदस्ति प्रयोजनं सिद्धं, पूर्वेणाऽगतिकस्य॥ न सिध्यति। मलो पाभिसम्बद्धं तत्। यदि तदनुवर्तते(4) इहापि मलोपः प्रसज्येत-दारुणं पचतीति(॥ उत्तरार्थञ्ञ्च(3)॥) उत्तरार्थं चापि ग्रहणं क्रियते-कुत्सने च सुप्यगोत्रादौ। अगतिरपीति। पचति पूतीति॥ तिङ्निघातात्पूजनात्पूजितमनुदात्तं विप्रतिषेधेन॥ तिङ्निघातात्पूजनात्पूजितमित्येतद्भवति(5) विप्रतिषेधेन। तिङ्निघातस्याऽवकाशः -देवदत्तः पचति। पूजनात्पूजितमित्यस्यावकाशः-काष्ठाध्यापकः। (काष्ठाभिरूपकः) । इहोभयं प्रार्प्नोतिकाष्ठा पचति। पूजनात्पूजितमित्येतद्भवति विप्रतिषेधेन॥ कः पुनरत्र विशेषस्तेन वा सत्यनेन वा?॥ अयमस्ति विशेषः। साऽपवादकः स विधिः; अयं र्निरपवादकः। यदि हि तेन स्यादिह न स्यात्-यत्काष्ठा पचति॥(सगति) Kashika ------- सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तं भवति। यत् काष्ठं प॒च॒ति॒। यत् काष्ठं प्र॒प॒च॒ति॒। यद् दारुणं प॒च॒ति॒। यद् दारुणं प्र॒प॒च॒ति॒। **तिङ्ङतिङः** (८.१.२८) इति निघातस्य **निपातैर्यद्यदिहन्त०** (८.१.३०) इति प्रतिषेधे प्राप्ते पुनर्विधानम्। सगतिग्रहणात् च गतिरपि निहन्यते। गतिग्रहणे चात्रोपसर्गग्रहणमिष्यते। इह न भवति — यत् काष्ठं शुक्लीक॒रोति॑। यत् काष्ठं कृष्णीक॒रोति॑॥ Siddhanta Kaumudi ----------------- पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः (SK3935) इति निघातस्य निपातैर्यत्-(SK3937) इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते । (वार्तिकम्) ॥ नेह । यत्काष्ठां शुक्लीकरोति ॥ Padamanjari ----------- यत्काष्ठ्ंअ पचतीति । येऽपि'मलोपश्च' इत्यनेन वाक्येन मलोपमाहुः तेऽपि तिङ्न्ते परतो नैव लोपमिच्छन्ति । सगतिग्रहणाद्रतिरपि निहन्यत इति । कथम् ? तुल्ययोगेऽत्र सहशब्दः, यत्र तुल्ययोगे सहशब्दस्तत्र द्वयोरपि कार्ययोगो भवति, तद्यथा - सपुत्रो भोज्यतामित्युक्ते पुत्रोऽपि भोज्यते अपिग्रहणं यत्र गतिर्न प्रयुज्यते तत्र केवलस्यापि तिङ्न्तस्य यथा स्यात्, गतिप्रयोगे तु द्वयोः सहैव भवति, तिङ्ग्रहणात्पूर्वो योगः सुबन्तविषय एव विज्ञायते ॥ Nyaas ----- `सगतिग्रहणाच्च गतिरपि निहन्यते` इति। तुल्ययोगेऽत्र सहशब्दः। तत्रोभयोरपि विधीयमानेन कार्येण सम्बन्धो भवति। तथा हि सपुत्रो भोज्यतामित्युक्ते द्वयोरपि पितापुत्रयोर्भोजनेन सम्बन्धो भवति। तस्मादिहाप्यगतेस्तिङन्तस्य च निघाते च सम्बन्धो विज्ञायते। `गतिग्रहणेन चात्रोपसर्गग्रहणमिष्यते` इति। यथा चैतल्लभ्यते तथा पूर्वमेवाख्यातम्। तिङ्ग्रहणं पूर्वो निघातः सुबन्तविषयो यथा विज्ञायेतेत्येवमर्थम्॥ Prakriyasarvasvam ----------------- सगतिरगतिरपि काष्ठादिभ्यः परस्तिङ् निहन्यते यत्काष्ठं प्रदहति । यत्काष्ठं दहति । यद्दारुणं निहन्ति । यद्दारुणं हन्तीत्यादि । 'तिङतिङः' (८-१-२८) इति निघातस्य 'निपातैर्यद्यदि—' (८-१-३०) इतिनिषेधे प्राप्त उक्तिः । सगतिरित्यु- पसर्गेतरपि निघात इति हरः । गतिशब्देनात्रोपसर्ग एवोक्तः । तेन—यत्काष्ठं शुक्लीकरोतीत्यादौ न । Vartika ------- गतिग्रहणे उपसर्गग्रहणमिष्यते ।