81065: एकान्याभ्यां समर्थाभ्याम्¶
Padacheda: एकान्याभ्याम् | S | 3 | 2 |
समर्थाभ्याम् | S | 3 | 2 |
Sutrartha¶
Vasu English Summary¶
Also in connection with एक and अन्य , optionally in the छन्दस् (Vedas), the first verb retains its accent, when these word have the same meaning (‘the one - the other’).
Vasu English Translation¶
Also in connection with एक and अन्य , optionally in the छन्दस् (Vedas), the first verb retains its accent, when these word have the same meaning (‘the one - the other’). Thus प्रजामेका जि꣡न्वति (or जि॒न्व॒ति॒), ऊर्जमेकारक्षति ॥ तयोरन्यः पिप्पलं स्वाद्व꣡त्ति (or अत्ति), अनश्नन्नन्यो अभिचाकशीति (Rig Veda I.164.20, Mundaka Upanishad III.I).
Why do we say समर्थाभ्यां ‘having the same meaning’? See एको देवानुपातिष्ठत् ॥ Here एक is a Numeral and has not the sense of अन्य ‘the one another’. The word समर्थ is used, in fact, to restrict the meaning of एक, for it has various meanings: while there is no ambiguity about the word अन्य ॥ एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥
Kashika¶
एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये। प्र॒जामेका॒ जिन्व॒त्यूर्ज॒मेका॑ रा॒ष्ट्रमेका॑ रक्षति देवयूनाम् (शौ०सं० ८.९.१३)। जिन्वतीत्येतत् पक्षे न निहन्यते। तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति (ऋ० १.१६४.२०)। अत्तीत्येतत् पक्षे न निहन्यते। समर्थाभ्यामिति किम्? एको देवानुपा॒ति॒ष्ठ॒त्। एक इति संख्यापदमेतद् अन्यार्थे न वर्तते। एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात् तस्य ॥
Siddhanta Kaumudi¶
आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ॥
Padamanjari¶
समौ तुल्यावर्थौ ययोस्तौ समर्थौ, शकन्ध्वादिषु दर्शनात्पररूपत्वम् । निपातनाद्वाऽन्तलोपः । परस्परं समानार्थता न; तिङ्न्तेन असम्भवात् । तिङ्न्तेन सङ्गताभ्यामित्ययं त्वर्थो न भवति,’चवायोगे प्रथमा’ इत्यतो योगग्रहणानुवृतेरेवास्यार्थस्य सिद्धत्वात् । जिन्वतीति । जिविः प्रीणानार्थः, इदित्वान्नुम्, लट्तिप्शपः । चाकशीतीति । काशिना समानार्थः कशिः प्रकृत्यन्तरमस्तीत्युक्तम्, तस्यैतद्यङ्लुकि रूपम् । एकशब्दस्य व्यवस्थार्थं चेति । अतस्तस्यैव प्रत्युदाहरणं दर्शितम्, नान्यशब्दस्येति भावः । व्यभिचारित्वातस्येति । एकशब्दो ह्यन्याथ व्यभिचरतीति । नानार्थो ह्ययमिति हि ठेको गोत्रेऽ इत्यत्र दसितम् । तत्रासति समर्थग्रहणेऽन्यशब्देन भिन्नार्थस्यापि ग्रहणप्रसङ्गः । न च साहचर्यमत्र प्रकरणे व्यवस्थापकमिति’निपातैर्यद्यदिहन्त’ इत्यत्रावोचाम ॥
Nyaas¶
समर्थाभ्याम् इति। नायमस्यार्थः -तिङन्तेन संगताभ्यामिति; अन्यथा ह्रस्योपादानमनर्थकमेव स्यात्, चदायोगे प्रथमा (8.1.59) इत्यतो योगग्रहणानुवृत्तेरेवास्यार्थस्य लब्धत्वात्। तस्मात्? समानार्थाभ्यामित्यस्यायमर्थः। सा च समानार्थता तिङन्तापेक्षया भवतीति परस्परापेक्षया वेदितव्या। एका जिन्वति इति। जयतेर्लट्, व्यत्ययो बहुलम् (3.1.85) इति श्नुः, बहुलं छन्दसि (7.4.78) इति झेरदादेशः, हुश्नुवोः सार्वधातुके (6.4.87) इति यणादेशः। अनिघातपक्षे सार्वधातुकस्वरेण मध्योदात्तमेतत्। सतिशिष्टादपि हि विकरणस्वरात्? सार्वधातुकस्वरो बलीयानिष्यते। अत्ति [अन्ति -प्रांउ।पाठः] इति। अदेः खरि च (8.4.54) इति चर्त्वम्। अनिघातपक्षे धातुस्वरेणादाद्युत्तमेतत्। चाकशीति इति। काशृ दीप्तौ (धातुपाठः-647), अस्य यङ्लुगन्तस्य रूपमेतत्। उपातिष्ठत् इति। तिष्ठतेर्लङ पाध्रादिसूत्रेण (7.3.78) तिष्ठादेशः। एक इति संख्यापदमेतत् इति। अनेन प्रत्युदाहरण एकशब्दस्यान्यशब्देनासमानार्थतां दर्शयति। किं पुनः कारणमन्यशब्देनासमानार्थेन योगेन प्रत्युदाहरणं न दर्शितम्? इत्याह -एकशब्दस्य व्यवस्थार्थं च इत्यादि। चशब्दोऽवधारणार्थः। अनेकार्थसम्भवेऽरह्थान्तराद्व्यवच्छिस्यैकत्रैवार्थे व्यवस्थानं व्यवस्था। एकशब्दस्य व्यवस्थार्थमेव समर्थग्रहणम्; नान्यशब्दस्य व्यवस्थार्थम्। न हि तस्यानेकार्थः सम्भवति। तस्मादेकशब्दस्य व्यवस्थार्थं समर्थग्रहणं कृतम्। तेनैवैकशब्देनासमर्थेन योगे युक्तं प्रत्युदहरणमुपदर्शयितुम्, नान्यशब्देनेत्यभिप्रायः। कस्मात्? पुनरेकशब्दव्यवस्थार्थमेव समर्थग्रहणं कृतम्? इत्याह -व्यभिचारित्वात्? तस्य इति। एकशब्दो हि यत्रार्थेऽन्यत्रादौ वृष्टस्तं व्यभिचरति? तथा हि -स क्वचिदन्यशब्दस्यार्थे दृश्यते, क्वचित्प्राथम्ये, क्वचित्? संख्यायाम्, तस्मादसौ व्यभिचारी। अनवस्थित इत्यर्थः। तद्व्यवस्थार्थं समर्थग्रहणं युक्तम्, नान्यशब्दव्यवस्थार्थम्; तस्याख्यभिचारित्वात्। न ह्रन्यशब्दो यत्रार्थे दृष्टस्ततोऽन्यत्र वर्तते। नन#उ च व्यवस्थाया एतत्फलम् -अन्यशब्दसमानार्थस्यैकशब्दस्य ग्रहणं यथा स्यादिति, एतच्चान्तरेणापि व्यवस्थाकारणं समर्थग्रहणमन्यशब्दसाहचर्यादेव लभ्यते, तदनर्थकं समर्थग्रहणम्? नैतदस्ति; निपातैर्यद्यदि (8.1.30) इत्यादौ सूत्रे निपातग्रहणेन ज्ञापितम् -साहचर्यमिह प्रकरणे व्यवस्थाकारणं न भवतीति॥
Prakriyasarvasvam¶
(आभ्यां) योग आद्या तिङ्विभक्तिर्वेदे वा न निहन्यते । अजामेकां (कां?) अन्वत्यूर्जमेका रक्षति । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति । तुल्यार्थत्वे एको देवानुपतिष्ठते ।