81065: एकान्याभ्यां समर्थाभ्याम् ================================ **Padacheda:** एकान्याभ्याम् | S | 3 | 2 | समर्थाभ्याम् | S | 3 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- Also in connection with एक and अन्य , optionally in the छन्दस् (Vedas), the first verb retains its accent, when these word have the same meaning ('the one - the other'). Vasu English Translation ------------------------ Also in connection with एक and अन्य , optionally in the छन्दस् (Vedas), the first verb retains its accent, when these word have the same meaning ('the one - the other'). Thus प्रजामेका जि꣡न्वति (or जि॒न्व॒ति॒), ऊर्जमेकारक्षति ॥ तयोरन्यः पिप्पलं स्वाद्व꣡त्ति (or अत्ति), अनश्नन्नन्यो अभिचाकशीति (*Rig* *Veda* I.164.20, *Mundaka* *Upanishad* III.I). Why do we say समर्थाभ्यां 'having the same meaning'? See एको देवानुपातिष्ठत् ॥ Here एक is a Numeral and has not the sense of अन्य 'the one another'. The word समर्थ is used, in fact, to restrict the meaning of एक, for it has various meanings: while there is no ambiguity about the word अन्य ॥ एकोऽन्यार्थे प्रधाने च प्रथमे केवले तथा । साधारणे समानेऽल्पे संख्यायां च प्रयुज्यते ॥ Kashika ------- एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये। प्र॒जामेका॒ जिन्व॒त्यूर्ज॒मेका॑ रा॒ष्ट्रमेका॑ रक्षति देवयूनाम् (शौ०सं० ८.९.१३)। जिन्वतीत्येतत् पक्षे न निहन्यते। तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा॑कशीति (ऋ० १.१६४.२०)। अत्तीत्येतत् पक्षे न निहन्यते। समर्थाभ्यामिति किम्? एको देवानुपा॒ति॒ष्ठ॒त्। एक इति संख्यापदमेतद् अन्यार्थे न वर्तते। एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात् तस्य ॥ Siddhanta Kaumudi ----------------- आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ॥ Padamanjari ----------- समौ तुल्यावर्थौ ययोस्तौ समर्थौ, शकन्ध्वादिषु दर्शनात्पररूपत्वम् । निपातनाद्वाऽन्तलोपः । परस्परं समानार्थता न; तिङ्न्तेन असम्भवात् । तिङ्न्तेन सङ्गताभ्यामित्ययं त्वर्थो न भवति,'चवायोगे प्रथमा' इत्यतो योगग्रहणानुवृतेरेवास्यार्थस्य सिद्धत्वात् । जिन्वतीति । जिविः प्रीणानार्थः, इदित्वान्नुम्, लट्तिप्शपः । चाकशीतीति । काशिना समानार्थः कशिः प्रकृत्यन्तरमस्तीत्युक्तम्, तस्यैतद्यङ्लुकि रूपम् । एकशब्दस्य व्यवस्थार्थं चेति । अतस्तस्यैव प्रत्युदाहरणं दर्शितम्, नान्यशब्दस्येति भावः । व्यभिचारित्वातस्येति । एकशब्दो ह्यन्याथ व्यभिचरतीति । नानार्थो ह्ययमिति हि ठेको गोत्रेऽ इत्यत्र दसितम् । तत्रासति समर्थग्रहणेऽन्यशब्देन भिन्नार्थस्यापि ग्रहणप्रसङ्गः । न च साहचर्यमत्र प्रकरणे व्यवस्थापकमिति'निपातैर्यद्यदिहन्त' इत्यत्रावोचाम ॥ Nyaas ----- `समर्थाभ्याम्` इति। नायमस्यार्थः -तिङन्तेन संगताभ्यामिति; अन्यथा ह्रस्योपादानमनर्थकमेव स्यात्, `चदायोगे प्रथमा` (8.1.59) इत्यतो योगग्रहणानुवृत्तेरेवास्यार्थस्य लब्धत्वात्। तस्मात्? समानार्थाभ्यामित्यस्यायमर्थः। सा च समानार्थता तिङन्तापेक्षया भवतीति परस्परापेक्षया वेदितव्या। `एका जिन्वति` इति। जयतेर्लट्, **व्यत्ययो बहुलम्** (3.1.85) इति श्नुः, **बहुलं छन्दसि** (7.4.78) इति झेरदादेशः, **हुश्नुवोः सार्वधातुके** (6.4.87) इति यणादेशः। अनिघातपक्षे सार्वधातुकस्वरेण मध्योदात्तमेतत्। सतिशिष्टादपि हि विकरणस्वरात्? सार्वधातुकस्वरो बलीयानिष्यते। `अत्ति` [`अन्ति` -प्रांउ।पाठः] इति। अदेः `खरि च` (8.4.54) इति चर्त्वम्। अनिघातपक्षे धातुस्वरेणादाद्युत्तमेतत्। `चाकशीति` इति। `काशृ दीप्तौ` (धातुपाठः-647), अस्य यङ्लुगन्तस्य रूपमेतत्। `उपातिष्ठत्` इति। तिष्ठतेर्लङ पाध्रादिसूत्रेण (7.3.78) तिष्ठादेशः। `एक इति संख्यापदमेतत्` इति। अनेन प्रत्युदाहरण एकशब्दस्यान्यशब्देनासमानार्थतां दर्शयति। किं पुनः कारणमन्यशब्देनासमानार्थेन योगेन प्रत्युदाहरणं न दर्शितम्? इत्याह -`एकशब्दस्य व्यवस्थार्थं च` इत्यादि। चशब्दोऽवधारणार्थः। अनेकार्थसम्भवेऽरह्थान्तराद्व्यवच्छिस्यैकत्रैवार्थे व्यवस्थानं व्यवस्था। एकशब्दस्य व्यवस्थार्थमेव समर्थग्रहणम्; नान्यशब्दस्य व्यवस्थार्थम्। न हि तस्यानेकार्थः सम्भवति। तस्मादेकशब्दस्य व्यवस्थार्थं समर्थग्रहणं कृतम्। तेनैवैकशब्देनासमर्थेन योगे युक्तं प्रत्युदहरणमुपदर्शयितुम्, नान्यशब्देनेत्यभिप्रायः। कस्मात्? पुनरेकशब्दव्यवस्थार्थमेव समर्थग्रहणं कृतम्? इत्याह -`व्यभिचारित्वात्? तस्य` इति। एकशब्दो हि यत्रार्थेऽन्यत्रादौ वृष्टस्तं व्यभिचरति? तथा हि -स क्वचिदन्यशब्दस्यार्थे दृश्यते, क्वचित्प्राथम्ये, क्वचित्? संख्यायाम्, तस्मादसौ व्यभिचारी। अनवस्थित इत्यर्थः। तद्व्यवस्थार्थं समर्थग्रहणं युक्तम्, नान्यशब्दव्यवस्थार्थम्; तस्याख्यभिचारित्वात्। न ह्रन्यशब्दो यत्रार्थे दृष्टस्ततोऽन्यत्र वर्तते। नन#उ च व्यवस्थाया एतत्फलम् -अन्यशब्दसमानार्थस्यैकशब्दस्य ग्रहणं यथा स्यादिति, एतच्चान्तरेणापि व्यवस्थाकारणं समर्थग्रहणमन्यशब्दसाहचर्यादेव लभ्यते, तदनर्थकं समर्थग्रहणम्? नैतदस्ति; `निपातैर्यद्यदि` (8.1.30) इत्यादौ सूत्रे निपातग्रहणेन ज्ञापितम् -साहचर्यमिह प्रकरणे व्यवस्थाकारणं न भवतीति॥ Prakriyasarvasvam ----------------- (आभ्यां) योग आद्या तिङ्‌विभक्तिर्वेदे वा न निहन्यते । अजामेकां (कां?) अन्वत्यूर्जमेका रक्षति । तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति । तुल्यार्थत्वे एको देवानुपतिष्ठते ।