81064: वैवावेति च च्छन्दसि

Padacheda: वैवाव | S | | | 1

इति | S | 0 | 0 |

च | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

Also in connection with वै and वाव , may optionally, in the छन्दस् (Vedas), the first verb retains its accent.

Vasu English Translation

Also in connection with वै and वाव , may optionally, in the छन्दस् (Vedas), the first verb retains its accent. Thus अहर्वै देवानाम् आ꣡सीत् (or आसी॒त्), रात्रिरसुराणाम् आसीत् ॥ बृहस्पति र्वै देवानां पुरोहित आ꣡सीत् (or आसी॒त्), शण्डामर्कावसुराणां (Taittariya Sanhita VI.4.10, I.but with out the particle वै). अयं वाव हस्त आ꣡सीत् (or आसी॒त्), नेतर आसीत् ॥

वै has the force of स्फुट and क्षमा, and वाव that of प्रसिद्धि and स्फुट ॥

Kashika

वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिर्विभाषा नानुदात्ता भवति छन्दसि विषये। अह॑र्वै दे॒वाना॒मासी॒द् रात्रि॒रसु॑राणा॒म् (तै०सं० १.५.९.२)। बृह॒स्पति॑र्वै दे॒वानां॑ पु॒रोहि॑त आसी॒त् शण्डा॒मर्का॒वसु॑राणा॒म् (तै०सं० ६.४.१०.१)। वाव — अ॒यं वाव हस्त॒ आसी॑त् (काठ० सं० ३६.७)। नेतर आ॒सी॒त्॥

Siddhanta Kaumudi

अहर्वै देवानामासीत् । अयं वाव हस्त आसीत् ॥

Nyaas

आसीत् इति। अस भुवि (धातुपाठः-1065), लङ्? अदादित्वाच्छयो लुक्, अस्तिसिचोऽपृक्ते (7.3.96) इति आट्, स चोदात्त इत्याद्युदात्तमेतत्। इतिकरणस्य पूर्वोक्तमेव प्रयोजनम्। चकारोऽनुक्तसमुच्चयार्थः। या द्विः पचत्विह तस्याः संवत्सरस्य सस्यं पच्यते द्विरित्यनेन युक्ता प्रथमा तिङ्विभक्तिः पचत्विति वा न निहन्यते॥

Prakriyasarvasvam

छन्दस्याभ्यां युक्ताद्यतिङ् वा न निहन्यते । बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम् । अयं वाव हस्त आसीन्नेतर आसीत् ।