81063: चादिलोपे विभाषा¶
Padacheda: चादिलोपे | S | 7 | 1 |
विभाषा | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
When च (1. वा 2. ह 3. अह and 4. एव – न चवाहाहैवयुक्ते (8.1.24)) are elided the first verb optionally retains its accent.
Vasu English Translation¶
When च (1. वा 2. ह 3. अह and 4. एव – न चवाहाहैवयुक्ते (8.1.24)) are elided the first verb optionally retains its accent. Thus with च लोपः - शुक्ला व्रीहयो भ꣡वन्ति or भ॒व॒न्ति॒, श्वेता गा आज्याय दुहन्ति ॥ Here भवन्ति optionally may either lose or retain its accent. So also when वा is elided, as :- व्रीहिभिर्य꣡जते or य॒जे॒त॒, यवैर्य॒जे॒त॒ ॥ So also with the remaining.
Kashika¶
चादयो न चवाहाहैवयुक्ते (८.१.२४) इति सूत्रनिर्दिष्टा गृह्यन्ते। तेषां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति विभाषा। चलोपे — शुक्ला व्रीहयो भव॑न्ति, भ॒व॒न्ति॒, श्वेता गा आज्याय दु॒ह॒न्ति॒। भवन्तीत्येतद् विकल्पेन न निहन्यते। वालोपे — व्रीहिभिर्यजे॑त, य॒जे॒त॒, यवैर्य॒जे॒त॒। एवं शेषेष्वपि यथादर्शनमुदाहार्यम्॥
Siddhanta Kaumudi¶
चवाहाहैवानां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता । चलोपे । इन्द्रवाजेषु नोऽव (इन्द्र॒वाजे॑षु नोऽव) । शुक्ला व्रीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत ॥
Padamanjari¶
पूर्वो योग एवशब्दप्रयोगे नित्यार्थः ॥
Nyaas¶
सूत्रनिर्दिष्टा गह्रन्ते इति। पूर्वतः प्रत्यासत्तेः। अत्र चवालोपे चवायोगे प्रथमा (8.1.59) इति प्राप्ते विभाषा, परिशेषाणामप्राप्ते। भवन्ति इति। पक्षे प्रत्ययस्वरेण मध्योदात्तः। यजेत इति। अत्र पक्षेऽदुपदेशाल्लसार्वधातुकस्यानुदात्तत्वे कृते धातोकदात्तत्वे सत्याद्युदात्तत्वम्॥
Prakriyasarvasvam¶
चवाहाहेवलोपे आद्यतिङ् वा निहन्यते । चलोपे-शुक्ला व्रीह्यो भवन्ति, एता गाव आज्याय दुहन्ति । अत्र भवन्तीति वा निहन्यते । वा लोपे—व्रीहिभिर्यजेत, यवैर्यजेत) ।