81060: हेति क्षियायाम्

Padacheda: ह | S | 0 | 0 |

इति | S | 0 | 0 |

क्षियायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

In connection with ह , the first finite verb retains its accent when an offence against custom is reprimanded.

Vasu English Translation

In connection with ह , the first finite verb retains its accent when an offence against custom is reprimanded. The word क्षिया means an error or mistake of duty, a breach of etiquette or a fault against good breeding.

Thus स्वयं ह रथेन या꣡ति॑ ३, उपाध्यायं पदाति ग॒म॒य॒ति॒ ‘He himself goes on a car, while he causes his Preceptor to trudge behind on foot’. स्वयं ह ओदनं भुङ्क्ते ३, उपाध्यायं सक्तून् पाययति ‘Himself eats the rice, and makes the preceptor eat the gruel’. Here in both examples, the nighata of the first verbs is prohibited. The verbs become svarita-pluta by (8.2.104).

Kashika

ह इत्यनेन युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति क्षियायां गम्यमानायाम्। क्षिया धर्मव्यतिक्रमः, आचारभेदः। स्वयं ह रथेन याति॑३, उपाध्यायं पदातिं ग॒म॒य॒ति॒। स्वयं हौदनं भु॒ङ्क्ते॑३, उपाध्यायं सक्तून् पा॒य॒य॒ति॒। प्रथमस्य तिङन्तस्यात्र निघातः प्रतिषिध्यते। क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् (८.२.१०४) इति च प्लुतो भवति॥

Siddhanta Kaumudi

हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं हरथेन याति 3 उपाध्यायं पदातिं गमयति3 । क्षियाशीः-(SK3623) इति प्लुतः ॥

Padamanjari

आचारभेदः उ आचारोल्लङ्घनम् । उदाहरणे - उपाध्याये पदातौ गच्छति शिष्यस्य रथेन गमनं प्रतिषिद्धम् - इत्याचारभेदः ॥

Nyaas

आचारभेदः इति। शिष्टाचारव्यतिक्रम इत्यर्थः। याति इति। धातुस्वरेणाद्युदात्तः। इतिकरणेन हशब्दमात्रलस्य निघातकारणत्वमाख्यायते। असति हि तस्मिन्? क्षिया हशब्दस्योपाधिर्विज्ञायेत तिङन्तस्य वा। तथा च यदा हशब्दस्तिङन्तं वा क्षियायां न प्रयुज्यते, तदा निघातप्रतिषेधो न स्यात्। इतिकरणे तु सति स्वरूपमात्रप्रधानो हशब्दो निघातस्य कारण भवतीति असत्यामपि हशब्दस्य तिङन्तस्य वा क्षियायां वृत्तौ निघातप्रतिषेधः सिद्धो भवति॥

Prakriyasarvasvam

आभ्यां द्योत्यायां हयुक्त आद्यस्तिङ् न निहन्यते । स्वयं ह तिष्ठति । उपाध्यायं चारयति ।