81059: चवायोगे प्रथमा

Padacheda: चवायोगे | S | 7 | 1 |

प्रथमा | S | 1 | 1 |

Sutrartha


Vasu English Summary

The first finite verb only retains its accent in connection with च and वा।

Vasu English Translation

The first finite verb only retains its accent in connection with च and वा। The anuvritti of अगतेः which was drawn in the last sutra, does not run into this. Thus गर्दभांश्च काल꣡यति, वीणां च वा॒द॒य॒ति॒ ॥ गर्दभान् वा काल꣡यति, वीणां वा वा॒द॒य॒ति॒ ॥

The word योग in the sutra indicates that the mere connection with the verb is meant, whether this connection takes place by adding these words च and वा, before the verb, or after the verb, is immaterial for the purposes of this sutra, (not so in the last). The word प्रथमा shows that the first verb is governed by this rule and not the second.

Kashika

अगतेरिति पूर्वसूत्रे चानुकृष्टमित्यत्र नानुवर्तते। च वा इत्येताभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति। गर्दभांश्च का॒लय॑ति, वीणां च वा॒द॒य॒ति॒। गर्दभान् वा का॒लय॑ति, वीणां वा वा॒द॒य॒ति॒। योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यादिति। प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूदिति। चवायोगे हि द्विसमुच्चये विकल्पे च सति भवति। स चानेकस्य धर्म इति॥

Siddhanta Kaumudi

चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ॥

Padamanjari

अगतेरिति । पूवसूत्र इत्यादि । अत एव पूर्वसूत्रे प्रत्युदाहरणावसर उक्तम् - प्रथमस्यात्र तिङ्न्तस्य चवायोगे प्रथमेति निघातः प्रतिषिध्यत एवेति । प्रथमेति स्त्रीलिङ्गस्य निर्वाहमाह - प्रथमा तिङ्विभक्तिरिति । प्रथमाग्रहणव्यावर्त्यस्य द्वितीयादेः सम्भवमाह - चवायोगो हीति ॥

Nyaas

प्रथमा तिङविभक्तिः इति। एतेन प्रथमेति स्त्रीलिङ्गनिर्देशो विभक्त्यपेक्षः सूत्रे कृत इति दर्शयति। प्रथमात्वं तस्य पुनः प्रथममुच्चारणाद्वेदितव्यम्? गर्दंभाँश्च कालयति इति। कल विल क्षेपे (धातुपाठः-1604-1605) चुरादिणिच्। चित्स्वरेण लकारेऽकार उदात्त इति मध्योदात्तमेतत्। द्वितदीयं तु निहन्यत एव। अथ योगग्रहणं किमर्थम्, न च वयोरित्येव सप्तम्या निर्देशः क्रियेत, यथा चादिष च (8.1.58) ? इत्यत आह -योगग्रहणम् इत्यादि। यथा चादिषु च (8.1.58) इति सप्तम्या निर्देशे सति परैरेव चादिनिर्योगे प्रतिषेधो भवति, न पूर्वै; तथेहापि पराभ्यामेव चवाभ्यां योगे स्यात्, न पूर्वाभ्याम्। ताभ्यामपि योगे यथा स्यादित्येवमर्थं योगग्रहणम्। यदि तु चवाभ्यामिति तृतीयया निर्देशः क्रियते, विनापि योगग्रहणेन पूर्वाभ्यामपि योगे स्यादेव प्रतिषेधः? सन्देहपरिहारार्थं तु तथा न कृतम्, चवाभ्यामित्युच्यमाने सन्देहः स्यात् -किमयं तृतीयया निर्देशः? उत पञ्चम्येति? पञ्चम्या निर्देशे को दोषः स्यात्? परमताभ्यां योगे न स्यात्। कथं पुनर्द्वितीयादितिङन्तस्य चवाभ्यां योगः, यत्तन्निवृत्त्यर्थं प्रथमाग्रहणं क्रियेत? इत्यत आह -चवायोगो हि इत्यादि। इह चयोगः समुच्चये भवति, वायोगस्तु विकल्पे। स च समुच्चयो वपिकल्पश्चानेकस्य धर्मः, द्वित्वादिवत्। अतो यत्र तौ समुच्चयविकल्पौ, तत्रावश्यमनेकस्य द्वितीयादेः सन्निधानेन भवितव्यम्। तस्मात्? तन्निवृत्त्यर्थं प्रथमाग्रहणम्॥

Prakriyasarvasvam

आभ्यां योगे आद्या तिङ्भिवक्तिः न निहन्यते । गां चानयति वेणुं च गायति । गां वा नयति वेणुं वा गायति । प्रथमे युक्तेर्बहुष्वप्याद्यस्यैवानिघातः ।