81059: चवायोगे प्रथमा ===================== **Padacheda:** चवायोगे | S | 7 | 1 | प्रथमा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The first finite verb only retains its accent in connection with च and वा। Vasu English Translation ------------------------ The first finite verb only retains its accent in connection with च and वा। The *anuvritti* of अगतेः which was drawn in the last *sutra*, does not run into this. Thus गर्दभांश्च काल꣡यति, वीणां च वा॒द॒य॒ति॒ ॥ गर्दभान् वा काल꣡यति, वीणां वा वा॒द॒य॒ति॒ ॥ The word योग in the *sutra* indicates that the mere connection with the verb is meant, whether this connection takes place by adding these words च and वा, before the verb, or after the verb, is immaterial for the purposes of this *sutra*, (not so in the last). The word प्रथमा shows that the first verb is governed by this rule and not the second. Kashika ------- अगतेरिति पूर्वसूत्रे चानुकृष्टमित्यत्र नानुवर्तते। च वा इत्येताभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता भवति। गर्दभांश्च का॒लय॑ति, वीणां च वा॒द॒य॒ति॒। गर्दभान् वा का॒लय॑ति, वीणां वा वा॒द॒य॒ति॒। योगग्रहणं पूर्वाभ्यामपि योगे निघातप्रतिषेधो यथा स्यादिति। प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूदिति। चवायोगे हि द्विसमुच्चये विकल्पे च सति भवति। स चानेकस्य धर्म इति॥ Siddhanta Kaumudi ----------------- चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ॥ Padamanjari ----------- अगतेरिति । पूवसूत्र इत्यादि । अत एव पूर्वसूत्रे प्रत्युदाहरणावसर उक्तम् - प्रथमस्यात्र तिङ्न्तस्य चवायोगे प्रथमेति निघातः प्रतिषिध्यत एवेति । प्रथमेति स्त्रीलिङ्गस्य निर्वाहमाह - प्रथमा तिङ्विभक्तिरिति । प्रथमाग्रहणव्यावर्त्यस्य द्वितीयादेः सम्भवमाह - चवायोगो हीति ॥ Nyaas ----- `प्रथमा तिङविभक्तिः` इति। एतेन प्रथमेति स्त्रीलिङ्गनिर्देशो विभक्त्यपेक्षः सूत्रे कृत इति दर्शयति। प्रथमात्वं तस्य पुनः प्रथममुच्चारणाद्वेदितव्यम्? `गर्दंभाँश्च कालयति` इति। `कल विल क्षेपे` (धातुपाठः-1604-1605) चुरादिणिच्। चित्स्वरेण लकारेऽकार उदात्त इति मध्योदात्तमेतत्। द्वितदीयं तु निहन्यत एव। अथ योगग्रहणं किमर्थम्, न च वयोरित्येव सप्तम्या निर्देशः क्रियेत, यथा `चादिष च` (8.1.58) ? इत्यत आह -`योगग्रहणम्` इत्यादि। यथा **चादिषु च** (8.1.58) इति सप्तम्या निर्देशे सति परैरेव चादिनिर्योगे प्रतिषेधो भवति, न पूर्वै; तथेहापि पराभ्यामेव चवाभ्यां योगे स्यात्, न पूर्वाभ्याम्। ताभ्यामपि योगे यथा स्यादित्येवमर्थं योगग्रहणम्। यदि तु चवाभ्यामिति तृतीयया निर्देशः क्रियते, विनापि योगग्रहणेन पूर्वाभ्यामपि योगे स्यादेव प्रतिषेधः? सन्देहपरिहारार्थं तु तथा न कृतम्, चवाभ्यामित्युच्यमाने सन्देहः स्यात् -किमयं तृतीयया निर्देशः? उत पञ्चम्येति? पञ्चम्या निर्देशे को दोषः स्यात्? परमताभ्यां योगे न स्यात्। कथं पुनर्द्वितीयादितिङन्तस्य चवाभ्यां योगः, यत्तन्निवृत्त्यर्थं प्रथमाग्रहणं क्रियेत? इत्यत आह -`चवायोगो हि` इत्यादि। इह चयोगः समुच्चये भवति, वायोगस्तु विकल्पे। स च समुच्चयो वपिकल्पश्चानेकस्य धर्मः, द्वित्वादिवत्। अतो यत्र तौ समुच्चयविकल्पौ, तत्रावश्यमनेकस्य द्वितीयादेः सन्निधानेन भवितव्यम्। तस्मात्? तन्निवृत्त्यर्थं प्रथमाग्रहणम्॥ Prakriyasarvasvam ----------------- आभ्यां योगे आद्या तिङ्भिवक्तिः न निहन्यते । गां चानयति वेणुं च गायति । गां वा नयति वेणुं वा गायति । प्रथमे युक्तेर्बहुष्वप्याद्यस्यैवानिघातः ।