81057: चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः

Padacheda: चनचिदिवगोत्रादितद्धिताम्रेडितेषु | S | 7 | 3 |

आगतेः | S | 5 | 1 |

Sutrartha


Vasu English Summary

A finite verb retains its accent when it is not preceded by a गति Particle – गतिश्च (1.4.60) etc., and when it is followed by 1. चन 2. चिद् 3. इव 4. गोत्र etc., a तद्धित affix, or by its own doubled form.

Vasu English Translation

A finite verb retains its accent when it is not preceded by a गति Particle – गतिश्च (1.4.60) etc., and when it is followed by 1. चन 2. चिद् 3. इव 4. गोत्र etc., a तद्धित affix, or by its own doubled form. Thus देवदत्तः पचति चन; देवदत्तः पचति चित्, देवदत्तः पचतीव ॥ The list of Gotradi words is given under sutra (8.1.27). Thus देवदत्त पचति गोत्रम्, देवदत्तः पचति ब्रुवम्, देवदत्त पचति प्रवचनम् &c. The Gotradi words, here also, denote censure and contempt.

With a Taddhita affix, देवदत्तः पचति कल्पम्, देवदत्तः पचति रूपम् ॥ The examples should be given with anudatta Taddhita affixes, like रूपप्, कल्पप् (5.3.65) and (5.3.67). Any other Taddhita affix added to the verb would cause the verb to lose its accent, the Taddhita accent overpowers the verb accent: as पचतिदेश्य (5.3.67).

With a doubled verb, as; देवदत्तः पचति पचति ॥

Why do we say ‘when not preceded by a Participle called Gati’? Observe देवदत्तः प्र पचति चन ॥ The word गति in this sutra as well as in सगतिरपि तिङ् (8.1.68) should be taken in its restricted sense, namely upasargas treated as Gati, and not the extended definition of Gati as given in (1.4.61). Therefore the verb retains its accent here: शुक्लीकरोति चन, यत् काष्ठं शुक्लीकरोति, यत् काष्ठं कृष्णीकरोति ॥

According to others, throughout this Book Eighth, the word Gati means, the Upasarga Gati.

Bhashya

चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ आम्रेडितेष्वगतेः(1) सगतिरपि तिङित्यत्र गतिग्रहणे उपसर्गग्रहणम्॥ आम्रेडितेष्वगतेः सगतिरपि तिङित्यत्र गतिग्रहणे उपसर्गग्रहणं द्रष्टव्यम्(2)। इह मा भूत्। शुक्लीकरोति चन कृष्णीकरोति चन । यत्काष्ठं(3) शुक्लीकरोति यत्काष्ठं(3) कृष्णीकरोति॥ अपर आह - सर्वत्रैवाष्टमिके गतिग्रहणे उपसर्गग्रहणं द्रष्टव्यं(2)-गतिर्गतौतिङि चोदात्तवतिवर्जमिति॥ (चनचिदि)

Kashika

चन चिद् इव गोत्रादि तद्धित आमे्रडित इत्येतेषु परतोऽगतेरुत्तरं तिङन्तं नानुदात्तं भवति। चन — देवदत्तः पच॑ति चन। चित् — देवदत्तः पच॑ति चित्। इव — देवदत्तः पच॑तीव। गोत्रादि — देवदत्तः पच॑ति गोत्रम्। देवदत्तः पच॑ति ब्रुवम्। देवदत्तः पच॑ति प्रवचनम्। इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोः (८.१.२७) एव गृह्यन्ते। तद्धित — देवदत्तः पच॑तिकल्पम्। देवदत्तः पच॑तिरूपम्। अनुदात्तस्तद्धित इहोदाहरणमन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते। प॒च॒ति॒देश्यः॑। आमे्रडित — देवदत्तः पच॑तिपचति। अगतेरिति किम्? देवदत्तः प्रप॒च॒ति॒ चन। अत्रागतिग्रहणे सगतिरपि तिङ् (८.१.६८) इत्यत्र चोपसर्गग्रहणं द्रष्टव्यम्। इह मा भूत् — शुक्लीक॒रोति॑ चन। यत् काष्ठं शुक्लीक॒रोति॑। यत् काष्ठं कृष्णीक॒रोति॑॥

Siddhanta Kaumudi

एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रपचति चन ॥

Padamanjari

इहापीति । न केवलं तिङे गोत्रादीनीत्यत्रैवेत्यपिशब्दार्थः । तत्र हेतुस्तत्रैव प्रतिपादितः । शुक्लीकरोति चनेति । अगतेरिति प्रतिषेधाभावादत्र निघातप्रतिषेधो भवत्येव । यत्काष्ठमिति । शुक्लीशब्दस्य निघातो न भवति ॥

Nyaas

इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्यन्ते इति। न केवलं तिङो गोत्रादीनि (8.1.27) इत्यादो सूत्र इत्यपिशब्दार्थः। यथा चात्रापि कुत्सनाभीक्ष्ण्ययोरेव गोत्रादीनि गृह्यन्ते, तथा तत्रैवोपपादितम्। पचतिकल्पम् इति। ईषदसमाप्तौ कल्पप् (5.3.67) । तत्र हि तिङश्च (5.3.56) इत्यनुवर्तते, अनुदात्तस्तद्धित इहोदाहरणमिति कस्मान्न भवति? इति प्रश्नावसरे आह -`अन्यत्र तद्धितस्वरेण तिङ्स्वरो वाच्ये, इति तद्धितस्योदात्तत्वे सति `अनुदात्तं पदमेकवर्जम्? (6.1.152) इति चानुदात्तत्वापतत्तिः। एवञ्चान्यत्र निघातः सिद्ध एवेति। अनुदात्त एव तद्धित इहोदाहरणम्। `अत्र इत्यादि। कथं पुनरुपसर्गग्रहणं शक्यं द्रष्टुम्? उत्तरसूत्रे **चादिषु च** (8.1.58) इति चशब्देनास्य सूत्रस्य द्वितदीयो व्यापार उच्यते, स आनन्तर्याद्गतेरित्यस्य विशेषणार्थो भविष्यति -चादिषु यो गतिरिति। चादिष्विति सामीप्यलक्षणमधिकरणम्। कश्चादिषु गतिः? चादिसमीपे य उदितः। तेनायं प्रादीनामेवेपसर्गसंज्ञानां प्रतिषेधो विज्ञायते। एवं तावदस्मिन्? सूत्रे गतिग्रहणेनोपसर्गस्य ग्रहणं विज्ञायते। `सगतिरपि तिङ् इति। अत्रापि चादिलोपे विभाषा (8.1.63) इति सूत्रात्? मण्डूकप्लुतिन्यायेन विभावेत्यनुवर्तते, सा च व्यवस्थितविभाषा। तेनोपसर्गसंज्ञेन गतिना यो गतिः सः। तस्यैवानुदात्तत्वेन भवितव्य मित्युपसर्ग9स्यैव गतेग्र्रहणं विज्ञायते। अथ वा -द्वयोरप्येतयोर्बोगयोः विभाषितं सोपसर्गमनुत्तमम् (8.1.53) इत्यत उपसर्गग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, गतिग्रहणमनर्थकं स्यात्; उपसर्गग्रहणानुवृत्त्यैव सिद्धत्वात्। नानर्थकम्; विस्पष्टार्थत्वात्। उपसर्गाच्छन्दसि धात्वर्थे (5.1.118) इत्यत्र ह्रुपसर्गग्रहणं प्राद्युपलक्षणार्थम्। तत्रासति गतिग्रहणे, इहाप्युसर्गग्रहणं प्राद्युपलक्षणार्थमिति कस्यचित्? सन्देहः स्यात्। प्राद्युपलक्षणे च सति को दोषः? अनुपसर्गाणामपि प्रादीनां ग्रहणं विज्ञायेत। ततः शुक्लौकरोतीत्यत्र निघातप्रतिषेधो भवत्येव। अभूततद्भावे (5.4.50।वा।1) इत्यादिनेह च्दिः, तस्य ऊर्यादिच्विडाचश्च (1.4.61) इति गतिसंज्ञा, अस्य च्वौ (7.4.32) इतीत्त्वम्। यत्? काष्ठं शुक्लीकरोति इति। अत्र सगतिरपे तिङः (8.1.68) इति निघातो न वर्तते। तेन निपातैर्यद्यदि (8.1.30) इत्यादिना निघातप्रतिषेध एव भवति॥

Prakriyasarvasvam

एषु परेष्वगतेः परं तिङन्तं न निहन्यते । हरिः क्रीडति च न । हरिः क्रीडति चित् । हरिः क्रीडतीव । अन्नलिप्सुः स्तौति गोत्रम् । बाचाटो जल्पति ब्रुवमित्यादि । कुत्साभीक्ष्णयोरेव तद्धितोऽनुच्चो ग्राह्यः । दुस्सूदः पचति कल्पम् । वाग्मी स्तौति स्तौति । गतेः परत्वे तु हरिः प्रक्रीडति च न । अत्र गत्युक्तेः सगतिरपि तिङि- त्यत्रोपसर्गग्रहो ज्ञेयः । तेन शुक्लीकरोति चनेत्यत्र निघातनिषेधः स्यात् ।