81057: चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ============================================ **Padacheda:** चनचिदिवगोत्रादितद्धिताम्रेडितेषु | S | 7 | 3 | आगतेः | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- A finite verb retains its accent when it is not preceded by a गति Particle -- गतिश्च (1.4.60) etc., and when it is followed by 1. चन 2. चिद् 3. इव 4. गोत्र etc., a तद्धित affix, or by its own doubled form. Vasu English Translation ------------------------ A finite verb retains its accent when it is not preceded by a गति Particle -- गतिश्च (1.4.60) etc., and when it is followed by 1. चन 2. चिद् 3. इव 4. गोत्र etc., a तद्धित affix, or by its own doubled form. Thus देवदत्तः पचति चन; देवदत्तः पचति चित्, देवदत्तः पचतीव ॥ The list of *Gotradi* words is given under *sutra* (8.1.27). Thus देवदत्त पचति गोत्रम्, देवदत्तः पचति ब्रुवम्, देवदत्त पचति प्रवचनम् &c. The *Gotradi* words, here also, denote censure and contempt. With a *Taddhita* affix, देवदत्तः पचति कल्पम्, देवदत्तः पचति रूपम् ॥ The examples should be given with *anudatta* *Taddhita* affixes, like रूपप्, कल्पप् (5.3.65) and (5.3.67). Any other *Taddhita* affix added to the verb would cause the verb to lose its accent, the *Taddhita* accent overpowers the verb accent: as पचतिदेश्य (5.3.67). With a doubled verb, as; देवदत्तः पचति पचति ॥ Why do we say 'when not preceded by a Participle called *Gati*'? Observe देवदत्तः प्र पचति चन ॥ The word गति in this *sutra* as well as in सगतिरपि तिङ् (8.1.68) should be taken in its restricted sense, namely *upasargas* treated as *Gati*, and not the extended definition of *Gati* as given in (1.4.61). Therefore the verb retains its accent here: शुक्लीकरोति चन, यत् काष्ठं शुक्लीकरोति, यत् काष्ठं कृष्णीकरोति ॥ According to others, throughout this Book Eighth, the word *Gati* means, the *Upasarga* *Gati*. Bhashya ------- चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः ॥ आम्रेडितेष्वगतेः(1) सगतिरपि तिङित्यत्र गतिग्रहणे उपसर्गग्रहणम्॥ आम्रेडितेष्वगतेः सगतिरपि तिङित्यत्र गतिग्रहणे उपसर्गग्रहणं द्रष्टव्यम्(2)। इह मा भूत्। शुक्लीकरोति चन कृष्णीकरोति चन । यत्काष्ठं(3) शुक्लीकरोति यत्काष्ठं(3) कृष्णीकरोति॥ अपर आह - सर्वत्रैवाष्टमिके गतिग्रहणे उपसर्गग्रहणं द्रष्टव्यं(2)-गतिर्गतौतिङि चोदात्तवतिवर्जमिति॥ (चनचिदि) Kashika ------- चन चिद् इव गोत्रादि तद्धित आमे्रडित इत्येतेषु परतोऽगतेरुत्तरं तिङन्तं नानुदात्तं भवति। चन — देवदत्तः पच॑ति चन। चित् — देवदत्तः पच॑ति चित्। इव — देवदत्तः पच॑तीव। गोत्रादि — देवदत्तः पच॑ति गोत्रम्। देवदत्तः पच॑ति ब्रुवम्। देवदत्तः पच॑ति प्रवचनम्। इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोः (८.१.२७) एव गृह्यन्ते। तद्धित — देवदत्तः पच॑तिकल्पम्। देवदत्तः पच॑तिरूपम्। अनुदात्तस्तद्धित इहोदाहरणमन्यत्र तद्धितस्वरेण तिङ्स्वरो बाध्यते। प॒च॒ति॒देश्यः॑। आमे्रडित — देवदत्तः पच॑तिपचति। अगतेरिति किम्? देवदत्तः प्रप॒च॒ति॒ चन। अत्रागतिग्रहणे **सगतिरपि तिङ्** (८.१.६८) इत्यत्र चोपसर्गग्रहणं द्रष्टव्यम्। इह मा भूत् — शुक्लीक॒रोति॑ चन। यत् काष्ठं शुक्लीक॒रोति॑। यत् काष्ठं कृष्णीक॒रोति॑॥ Siddhanta Kaumudi ----------------- एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रपचति चन ॥ Padamanjari ----------- इहापीति । न केवलं तिङे गोत्रादीनीत्यत्रैवेत्यपिशब्दार्थः । तत्र हेतुस्तत्रैव प्रतिपादितः । शुक्लीकरोति चनेति । अगतेरिति प्रतिषेधाभावादत्र निघातप्रतिषेधो भवत्येव । यत्काष्ठमिति । शुक्लीशब्दस्य निघातो न भवति ॥ Nyaas ----- `इहापि गोत्रादयः कुत्सनाभीक्ष्ण्ययोरेव गृह्यन्ते` इति। न केवलं `तिङो गोत्रादीनि` (8.1.27) इत्यादो सूत्र इत्यपिशब्दार्थः। यथा चात्रापि कुत्सनाभीक्ष्ण्ययोरेव गोत्रादीनि गृह्यन्ते, तथा तत्रैवोपपादितम्। `पचतिकल्पम्` इति। `ईषदसमाप्तौ कल्पप्` (5.3.67) । तत्र हि `तिङश्च` (5.3.56) इत्यनुवर्तते, `अनुदात्तस्तद्धित इहोदाहरणमिति कस्मान्न भवति? इति प्रश्नावसरे आह -`अन्यत्र तद्धितस्वरेण तिङ्स्वरो वाच्ये, इति तद्धितस्योदात्तत्वे सति `अनुदात्तं पदमेकवर्जम्? (6.1.152) इति चानुदात्तत्वापतत्तिः। एवञ्चान्यत्र निघातः सिद्ध एवेति। अनुदात्त एव तद्धित इहोदाहरणम्। `अत्र इत्यादि। कथं पुनरुपसर्गग्रहणं शक्यं द्रष्टुम्? उत्तरसूत्रे **चादिषु च** (8.1.58) इति चशब्देनास्य सूत्रस्य द्वितदीयो व्यापार उच्यते, स आनन्तर्याद्गतेरित्यस्य विशेषणार्थो भविष्यति -चादिषु यो गतिरिति। चादिष्विति सामीप्यलक्षणमधिकरणम्। कश्चादिषु गतिः? चादिसमीपे य उदितः। तेनायं प्रादीनामेवेपसर्गसंज्ञानां प्रतिषेधो विज्ञायते। एवं तावदस्मिन्? सूत्रे गतिग्रहणेनोपसर्गस्य ग्रहणं विज्ञायते। `सगतिरपि तिङ्` इति। अत्रापि **चादिलोपे विभाषा** (8.1.63) इति सूत्रात्? मण्डूकप्लुतिन्यायेन विभावेत्यनुवर्तते, सा च व्यवस्थितविभाषा। तेनोपसर्गसंज्ञेन गतिना यो गतिः सः। तस्यैवानुदात्तत्वेन भवितव्य मित्युपसर्ग9स्यैव गतेग्र्रहणं विज्ञायते। अथ वा -द्वयोरप्येतयोर्बोगयोः `विभाषितं सोपसर्गमनुत्तमम्` (8.1.53) इत्यत उपसर्गग्रहणं मण्डूकप्लुतिन्यायेनानुवर्तते, गतिग्रहणमनर्थकं स्यात्; उपसर्गग्रहणानुवृत्त्यैव सिद्धत्वात्। नानर्थकम्; विस्पष्टार्थत्वात्। **उपसर्गाच्छन्दसि धात्वर्थे** (5.1.118) इत्यत्र ह्रुपसर्गग्रहणं प्राद्युपलक्षणार्थम्। तत्रासति गतिग्रहणे, इहाप्युसर्गग्रहणं प्राद्युपलक्षणार्थमिति कस्यचित्? सन्देहः स्यात्। प्राद्युपलक्षणे च सति को दोषः? अनुपसर्गाणामपि प्रादीनां ग्रहणं विज्ञायेत। ततः शुक्लौकरोतीत्यत्र निघातप्रतिषेधो भवत्येव। `अभूततद्भावे` (5.4.50।वा।1) इत्यादिनेह च्दिः, तस्य **ऊर्यादिच्विडाचश्च** (1.4.61) इति गतिसंज्ञा, **अस्य च्वौ** (7.4.32) इतीत्त्वम्। `यत्? काष्ठं शुक्लीकरोति` इति। अत्र `सगतिरपे तिङः` (8.1.68) इति निघातो न वर्तते। तेन `निपातैर्यद्यदि` (8.1.30) इत्यादिना निघातप्रतिषेध एव भवति॥ Prakriyasarvasvam ----------------- एषु परेष्वगतेः परं तिङन्तं न निहन्यते । हरिः क्रीडति च न । हरिः क्रीडति चित् । हरिः क्रीडतीव । अन्नलिप्सुः स्तौति गोत्रम् । बाचाटो जल्पति ब्रुवमित्यादि । कुत्साभीक्ष्णयोरेव तद्धितोऽनुच्चो ग्राह्यः । दुस्सूदः पचति कल्पम् । वाग्मी स्तौति स्तौति । गतेः परत्वे तु हरिः प्रक्रीडति च न । अत्र गत्युक्तेः सगतिरपि तिङि- त्यत्रोपसर्गग्रहो ज्ञेयः । तेन शुक्लीकरोति चनेत्यत्र निघातनिषेधः स्यात् ।