81056: यद्धितुपरं छन्दसि

Padacheda: यद्धितुपरम् | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

A finite verb followed by यत् or हि or तु retains its accent in the छन्दस् (Vedas).

Vasu English Translation

A finite verb followed by यत् or हि or तु retains its accent in the छन्दस् (Vedas). The anuvritti of आमन्त्रितं should not be taken in this sutra, but that of तिङ् ॥ Thus with यत्परं we have:- गवां गोत्रमुदसृजो यदङ्गिरः ॥ The verb उदसृजः is the Imperfect (लङ्) 2nd person singular of सृज् of Tudadi class. With हि we have, इन्दवो वा मुशन्ति हि (Rig Ved. I.2.4). The verb उशन्ति is the Present (लट्) Plural of वश् of Adadi class. The samprasarana takes place because it belongs to गृह्यादि class. With न we have, आख्यास्यामि तु ते ॥ By the previous sutra (8.1.30) a verb in connection with यत् would have retained its accent, so also in connection with हि by the sutra (8.1.34), and in connection with तु by (8.1.39): the present sutra is, therefore, a niyama rule. The verb retains its accent when these three Particles only follow and not any other. If any other Particle follows, the verb need not retain its accent. Thus जाये स्वा रोहावैहि ॥ Here रोहाव is the 1st Person Dual of the Imperative of रुह्( रुह् + शप् + वस् = रोह + आट् + वस्) (3.4.92) = रोहाव the स् being elided, as लोट् is like लङ् (3.4.85) and (3.4.99). The verb एहि is the 2nd Person Singular of the Imperative of the root इण्, preceded by the Particle आङ् ॥ Here in रोहाव एहि (= रोहाव आइहि), the verb रोहाव is followed by the Particle आ, and does not retain its accent. But for this rule, it would have retained its accent. Because एहि is a गत्यर्थ लोट् (8.1.51), रोहाव is another लोट् in connection with it, and therefore, by (8.1.52) it would have retained its accent. But now it loses its accent because it is a तिङ् following after a non तिङ् word स्वः ॥ It The visarga of स्वः is elided before र् by (8.3.14), then the preceding अ is lengthened and we have स्वा (6.3.111). Another reading is स्वो रोहावैहि ॥ It is a Vedic anomaly, the visarga is changed to उ ॥

Bhashya

यद्धितुपरं छन्दसि किमर्थमिदमुच्यते यदाद्यैरेव(1) सर्वैरेतैरनिघातकारणैर्योगेऽनिघात(2) उच्यते, यथैव पूर्वैर्योगे एवं परैरपि?॥ अत उत्तरं पठति॥ यद्धितुपरस्य च्छन्दस्यनिघातोऽन्यपरप्रतिषेधार्थः(3)॥ यद्धितुपरस्य च्छन्दस्यनिघात उच्यते॥ (किं प्रयोजनम्?॥)ठअन्यपरप्रतिषेधार्थः। अन्यपरस्य प्रतिषेधो मा भूदिति। जाये स्वो रोहावेहि(1)॥ अथेदानीं रोहावेत्यनेन युक्तेएही त्यस्य कस्मान्न भवति?, लोट्चगत्यर्थलोटा युक्त इति प्राप्नोति॥ न हिरुहिर्गत्यर्थः॥कथं ज्ञायते?॥ यदयं गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्चे(1)ति पृथग्रुहिग्रहणं करोति॥ यदि न गत्यर्थः,-आरोहन्ति हस्तिनं मनुष्याः, आरोहयति हस्ती स्थलं मनुष्यान्,-गतिबुद्धिप्रत्यवसानार्थशब्दकर्माऽकर्मकाणामणि कर्ता स णाविति कर्मसंज्ञा न प्राप्नोति। तस्मान्नैतच्छक्यं वक्तुं न रुहिर्गत्यर्थइति॥ कस्मात्तर्हि रोहावेत्यनेन युक्ते एहीत्येतस्य न भवति?॥ छान्दसत्वात्॥ (यद्धितुपरं छन्दसि)॥

Kashika

आमन्त्रितमित्येतदस्वरितत्वाद् नानुवर्तते। तिङिति वर्तत एव। यत्परं हिपरं तुपरं च तिङन्तं छन्दसि नानुदात्तं भवति। यत्परं तावत् — गवां॑ गो॒त्रमु॒दसृ॑जो॒ यद॑ङ्गिरः (ऋ० २.२३.१८)। हिपरम् — इन्द॑वो वामु॒शन्ति॒ हि (ऋ० १.२.४)। तुपरम् — आ॒ख्या॒स्यामि॑ तु ते। निपातैर्यद्यदिहन्त० (८.१.३०) इति, हि च (८.१.३४) इति, तुपश्यपश्यताहैः० (८.१.३९) इति च निघातप्रतिषेधे सिद्धे वचनमिदं नियमार्थम् — एभिरेव परैर्योगे प्रतिषेधो भवति, नान्यैरिति। इह न भवति — जाये स्वो रो॒हा॒वैहि॑। एहीत्यनेन गत्यर्थलोटा युक्तस्य रोहावेत्यस्य लोडन्तस्य निघातो भवत्येव॥

Siddhanta Kaumudi

तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः (उ॒दसृ॑जो॒ यद॑ङ्गिरः) । उशन्ति हि (उ॒शन्ति॒ हि) । आख्यास्यामि तु ते । निपातैर्यत्-(SK3937)इति हिच (SK3941) इति तुपश्य-(SK3946) इति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाये स्वारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ॥

Padamanjari

जाये स्वो रोहावैहीति । रुहेर्लोट्, वस्, शप्, ठाडुतमस्य पिच्चऽ,’लोटो लङ्वत्’ इति लङ्वद्भावात्’नित्यं ङ्तिः’ इति सलोपः, आह्पूर्वादिणो लोट्, सिपो हिः, एहीत्यनेन परभूतेन युक्तस्य रोहावेत्यस्य’लोट् च ‘ इति प्राप्तो निघातप्रतिषेधो नियमेन निवर्त्यते, तेन स्वशब्दाश्रयो निघातो भवति । ननु’परमपि च्छन्दसि’ इति वचनात् स्वः शब्दस्य पूर्वाङ्गवद्भावज्जायेस्वरित्यामन्त्रितम्, ततश्च ठामन्त्रित पूर्वमविद्यमानवत्ऽ इत्यविद्यमानत्वान्निघातो न प्राप्नोति, प्रतिषिध्यतेऽत्राङ्गवद्भावः - अव्ययानां प्रतिषेध इति ? नैवम्; अत्राङ्गवद्भावः प्राप्नोति, उक्तं हि तत्र -‘षष्ठ।लमन्त्रितकारकवचनम्’ ‘तन्निमितग्रहणं च’ इति । न हि स्वः शब्दः षष्ठ।ल्न्त आमन्त्रितकारकं तन्निमितं वा स्वरे वाङ्गवद्भावो नाविद्यमानवत्वम् । स्वः शब्दस्य रो रिऽ इति लोपो न भवति, उत्वं च भवति; छान्दसत्वात् । अथेदानीं रोहावेत्यनेन युक्तस्य एहीत्यस्य’लोट् च’ इति निघातप्रतिषेधः कस्मान्न भवति, न रुहिर्गत्यर्थः,’गत्यर्थाकर्मक’ इत्यत्र पृथग्ग्रहणात् ? यदि न गत्यर्थः, आरोहन्ति हस्तिनं मनुष्याः आरोहयति हस्ती मनुष्यान्,’गतिबुद्धिप्रत्यवसानार्थ’ इति कर्मसंज्ञा न प्राप्नोति । तस्मादुपरिगमनरूपव्यापारो रुहेरर्थः ।’गत्यर्थाकर्मक’ इत्यत्र च रुहिग्रहणं प्रपञ्चार्थम् । एहीत्यस्य तु निघातप्रतिषेधो न भवति;’विभाषित सोपसर्गमनुतमम्’ इति वचनात् ॥

Nyaas

यद्धितवः परे यस्मात्? तत्तथोक्तम्। उदसृजोऽयम् इति। अत्र हि तिङन्तमट्स्वरेणाद्युदात्तम्। सृज विसर्गे (धातुपाठः-1178), लङ्? सिप्, तुदादित्वाच्छः, हशि च (6.1.110) इत्युत्त्वम्, आद्गुणः (6.1.87) । उशन्ति हि इति। वश कान्तौ (धातुपाठः-1080) झेरन्तादेशः (7.1.3) , पूर्ववच्छपो लुक्, ग्रहज्यादिसूत्रेण (6.1.16) सम्प्रसारणम्। प्रत्यस्वरेण मध्योदात्तमेतत्।आख्यस्यामितु इति। ख्या प्रकथने (धातुपाठः-1060), चक्षिङादेशो वा, लृङ्। स्यप्रत्ययस्वरेण मध्योदात्तमेतत्। निपातैर्यद्यविहन्त (8.1.30) इत्यादिना नियमस्य कारणं दर्शयि। वचनम् इत्यादिनाप्यस्य वचनस्य नियमार्थत्वम्। एभिरेव इत्यादिनापि नियमसय स्वरूपम्। नान्यैः इति। अनेनापि नियमस्य व्यवच्छेद्यम्। इह इत्यादिनापि व्यवच्छेद्यस्य विषयम्। स्वो होहावैहि इति। रुह बीजजन्मनि प्रादुर्भावे (धातुपाठः-859), लोट्, वस्, शप्, आडुत्तमस्य पिच्च (3.4.92) , स उत्तमस्य (3.4.98) इति सकरलोपः। रोहावेत्येतस्मिन्? परभूते स्वरित्यस्य रो रि (8.3.14) इति रेफस्य लोपो न भवति; छान्दसत्वात्। तस्मिन्नसति पूर्ववदुत्त्वम्। आद्गुणः (6.1.87) इति हि गुणे, लोमण्यध्यमपुरुषैकवचने रूपम्। क्वचित् - जाये स्वो रोहार्वैहीत्येहीत्यनेन गत्यर्थलोटा युक्तस्य इति पाठः, तत्राङ्पूर्वस्येणः प्रयोगो वेदितव्यः। अथ परग्रहणं क्रिमर्थम्, न यद्धितुष्वेव नैवं शक्यम्; सप्तमीनिर्देशे हि निर्दिष्यटग्रहणस्यानन्तर्यार्थत्वादनन्तरेष्वेवाक्यवादिषु भवतीति नियमो विज्ञायते। ततोऽनन्तरेष्वेव पददिषु भविष्यति, न व्यवहितेष्विति। तथा चाव्ययोगनिवृत्तेनियमेनाकृतत्वात्? स्वो रोहावैहीत्यत्र स्यादेव प्रतिषेधः॥

Prakriyasarvasvam

वेदे यद्धि तु परं तिङन्तं न निहन्यते । गवां गोत्रमुदसृजो यदङ्गिरः । इन्द्रको वामुशन्ति हि । आख्यास्यामि तु-‘निपातैर्यद्यदि-’ (८-१-३०) ‘हि च’ (८-१-३४) ‘तु पश्य’- (८-१-३९) इति च सिद्धेऽप्युक्तिरेभिरेव परेर्योगे निघाताभाव इति नियमार्था । तेन—’ जाये स्वारोहावैहीत्यत्र एहीति गत्यर्थ लोङ्युक्तस्य रोहावेति लोटो निघातनिषेधो न ।