81050: शेषे विभाषा

Padacheda: शेषे | S | 7 | 1 |

विभाषा | S | 1 | 1 |

Sutrartha


Vasu English Summary

When the above mentioned particles आहो and उताहो do not immediately precede the verb, the verb may optionally retain its accent.

Vasu English Translation

When the above mentioned particles आहो and उताहो do not immediately precede the verb, the verb may optionally retain its accent. Thus आहो देवदत्तः प꣡चति or प॒च॒ति॒ ॥ उताहो देवदत्तः प꣡ठति or प॒ठ॒ति॒ ॥

Bhashya

शेषे विभाषा कश्च शेषः?॥ सपूर्वः शेषः ॥ इति॥ (शेषे विभाषा)॥

Kashika

आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति। कश्च शेषः? यदन्यदनन्तरात्। आहो देवदत्तः पच॑ति, प॒च॒ति॒। उताहो देवदत्तः पच॑ति, प॒च॒ति॒। आहो देवदत्तः पठ॑ति, प॒ठ॒ति॒। उताहो देवदत्तः पठ॑ति, प॒ठ॒ति॒॥

Siddhanta Kaumudi

आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ॥

Padamanjari

कश्च शेष इति । बहूनां प्रकृतत्वात्प्रश्नः । यदन्यदन्तरादिति । प्रतिषेधस्य निमितभूतमाहो -उताहीग्रहणं तावदवश्यमनुवर्त्यम्, उताहोग्रहणाच्चापूर्वमित्यप्यनुवर्तते; तत्र पारिशेष्यादनन्तरापेक्ष एव शेष इति भावः ॥

Nyaas

शेषः सन्निहितापेक्षः। शेषत्रयञ्च पूर्वसूत्रे सन्निहतं निघातकारणम् -आहो उताहोशब्दौ, अनन्तर मित्येतत्, अपूर्वमित्येतच्च। तत्र न ज्ञायते -किं कारणभावापेक्षः शेष इति। किमाहोउताहोशब्दापेक्षः? उतानन्तरभावापेक्षः? आहोस्विदपूर्वभावापेक्षः -इत्यतः पृच्छति -कश्च शेषः इति। इह निघातमिच्छता तत्कारणमवश्यमेवापेक्षणीयम्। आहो उदाहो इति। अपूर्वमित्येतदपि, द्विश्चकारेणानुकृष्टत्वात्। तस्य हि द्वयोर्योगयोश्चकारोऽनुकर्षणार्थ एव कृतः। कथं नामात्रापि तदपेक्षा स्यादिति! अन्यथा हि समनन्तरातीति एव सूत्रे तदनुकर्षणार्थश्चकारः क्रियते। किंवृत्तादिसूत्रे (8.1.48) हि स्वरितत्वादेव तदनुवर्तत इति। तस्मात्? पारिशेष्यादनन्तरभावपेक्षः शेषो विज्ञायते? इत्यत आह -यदन्यदनन्तरात इति॥

Prakriyasarvasvam

अपूर्वाभ्यामाहोउताभ्यां युक्तस्तिङ् सान्तरत्वे वा न निहन्यते । आहो भक्तः सेवते हरिम् । उताहो भक्तः सेवते ।