81050: शेषे विभाषा ================== **Padacheda:** शेषे | S | 7 | 1 | विभाषा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When the above mentioned particles आहो and उताहो do not immediately precede the verb, the verb may optionally retain its accent. Vasu English Translation ------------------------ When the above mentioned particles आहो and उताहो do not immediately precede the verb, the verb may optionally retain its accent. Thus आहो देवदत्तः प꣡चति or प॒च॒ति॒ ॥ उताहो देवदत्तः प꣡ठति or प॒ठ॒ति॒ ॥ Bhashya ------- शेषे विभाषा कश्च शेषः?॥ सपूर्वः शेषः ॥ इति॥ (शेषे विभाषा)॥ Kashika ------- आहो उताहो इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं शेषे विभाषा भवति। कश्च शेषः? यदन्यदनन्तरात्। आहो देवदत्तः पच॑ति, प॒च॒ति॒। उताहो देवदत्तः पच॑ति, प॒च॒ति॒। आहो देवदत्तः पठ॑ति, प॒ठ॒ति॒। उताहो देवदत्तः पठ॑ति, प॒ठ॒ति॒॥ Siddhanta Kaumudi ----------------- आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ॥ Padamanjari ----------- कश्च शेष इति । बहूनां प्रकृतत्वात्प्रश्नः । यदन्यदन्तरादिति । प्रतिषेधस्य निमितभूतमाहो -उताहीग्रहणं तावदवश्यमनुवर्त्यम्, उताहोग्रहणाच्चापूर्वमित्यप्यनुवर्तते; तत्र पारिशेष्यादनन्तरापेक्ष एव शेष इति भावः ॥ Nyaas ----- शेषः सन्निहितापेक्षः। शेषत्रयञ्च पूर्वसूत्रे सन्निहतं निघातकारणम् -आहो उताहोशब्दौ, अनन्तर मित्येतत्, अपूर्वमित्येतच्च। तत्र न ज्ञायते -किं कारणभावापेक्षः शेष इति। किमाहोउताहोशब्दापेक्षः? उतानन्तरभावापेक्षः? आहोस्विदपूर्वभावापेक्षः -इत्यतः पृच्छति -`कश्च शेषः` इति। इह निघातमिच्छता तत्कारणमवश्यमेवापेक्षणीयम्। `आहो उदाहो` इति। अपूर्वमित्येतदपि, द्विश्चकारेणानुकृष्टत्वात्। तस्य हि द्वयोर्योगयोश्चकारोऽनुकर्षणार्थ एव कृतः। कथं नामात्रापि तदपेक्षा स्यादिति! अन्यथा हि समनन्तरातीति एव सूत्रे तदनुकर्षणार्थश्चकारः क्रियते। किंवृत्तादिसूत्रे (8.1.48) हि स्वरितत्वादेव तदनुवर्तत इति। तस्मात्? पारिशेष्यादनन्तरभावपेक्षः शेषो विज्ञायते? इत्यत आह -`यदन्यदनन्तरात` इति॥ Prakriyasarvasvam ----------------- अपूर्वाभ्यामाहोउताभ्यां युक्तस्तिङ् सान्तरत्वे वा न निहन्यते । आहो भक्तः सेवते हरिम् । उताहो भक्तः सेवते ।