81036: यावद्यथाभ्याम् ===================== **Padacheda:** यावद्यथाभ्याम् | S | 3 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- The finite verb retains its accent in connection with यावत् and यथा। Vasu English Translation ------------------------ The finite verb retains its accent in connection with यावत् and यथा। Thus यावद् भुङ्क्ते꣡, यथा भुङ्क्ते꣡ यावदधीते꣡ यथाधीते꣡, देवदत्तः प꣡चति यावत्, देवदत्तः प꣡चति यथा ॥ The meaning is that the verb retains its accent, even when यावत् and यथा follow after it. Another example is यथा चित् कण्वमावतम् ॥ The word आवतम् is the Imperative (लोट्) Second Person Dual of the root अव् ॥ यावत् स्तोतृभ्योऽरदोगृणानाः ॥ The verb अरदः is Imperfect (लङ्) Second Person singular of the root रद् 'to scratch'. The accent, is on अ (the augment). Kashika ------- यावद् यथा इत्येताभ्यां युक्तं तिङन्तं नानुदात्तं भवति। यादव् भु॒ङ्क्ते। यथा भु॒ङ्क्ते। यावद॒धी॒ते। यथा अ॒धी॒ते। देवदत्तः पच॑ति यावत्। देवदत्तः पच॑ति यथा। परेणापि योगे भवति प्रतिषेधः॥ Siddhanta Kaumudi ----------------- आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ॥ Padamanjari ----------- यावत्साकल्ये, अध्यवसाये वा, यथा योग्यतादिषु ।'यावद्यथाभ्याम्' इति तृतीयेति दर्शयितुं परभूतयोरपि प्रयोग उदाहृतः । तेनैतदपि न चोदनीयम् -'यद्वृतान्नित्यम्' इत्येव यथाशब्दे यावच्छब्दे च वतुबन्तै सिद्धः प्रतिषेध इति ॥ Nyaas ----- किमर्थं पुनरिदमारभ्यते? न `यद्वृत्तान्नित्यम्` (8.1.66) इत्येव सिद्धमिति यश्चोदयेत्, तं प्रति -`देवदत्तः पचति यावत्`, `देवदत्तः पचति यथा` -इत्येतदुदाहरणद्वयमुपन्यस्तम्। एषोऽभिप्रायः -यद्वृत्तादिति पञ्चमीनिर्देशात्? **तस्मादित्युत्तरस्य** (1.1.67) इति यत्रैव यावद्यथाभ्यां परं तिङन्तं तत्रैव प्रतिषेधः स्यात्। यत्र तु ताभ्यां पूर्वं तत्र न स्यात्। इह तु तृतीयनिर्देशात्? तत्रापि भवतीति॥