74094: दीर्घो लघोः¶
Padacheda: दीर्घः | S | 1 | 1 |
लघोः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
In the reduplicative syllable, a prosodially short vowel is lengthened in the reduplicated Aorist of the Causative when the vowel of the root is light and the root has not lost its end-vowel before the Causative णि।
Vasu English Translation¶
In the reduplicative syllable, a prosodially short vowel is lengthened in the reduplicated Aorist of the Causative when the vowel of the root is light and the root has not lost its end-vowel before the Causative णि। Thus अचीकरत्, the इ (7.4.79) is lengthened. Similarly अजीहरत्, अलीलवत्, अपीपवत् ॥ Why do we say which is prosodially light? Observe अबिभ्रजत् ॥ Why do we say when the vowel of the root is light? Observe अततक्षत्, अररक्षत् ॥ Why do we say in the reduplicated Aorist? Observe अहं पपच ॥ The word पर is understood here also, so the rule will not apply to simple roots as अचकमत् ॥ The words ‘anaglope’ are to be read here, therefore not so in अचकथत् ॥
Kashika¶
दीर्घा भवति लघोः अभ्यासस्य लघुनि णौ चङ्परे अनग्लोपे। अचीकरत्। अजीहरत्। अलीलवत्। अपीपचत्। लघोः इति किम्? अबिभ्रजत्। लघुनि इत्येव, अततक्षत्। अररक्षत्। चङि इत्यव, अहं पपच। परे इत्येव, अचकमत। अनग्लोपे इत्येव, अचकथत्।
Siddhanta Kaumudi¶
लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे ।<!कमेश्च्लेश्चङ्वक्तव्यः !> (वार्तिकम्) ॥ णेरभावान्न दीर्धसन्वद्भावौ । अचक्रमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥ 1 ॥ चकास्त्यर्थापत्यूपर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥ 2 ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥ 3 ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥ 4 ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥ 5 ॥ अथ क्रम्यन्तास्रिंशत्परस्मैपदिनः ॥{$ {!444 अण!} {!445 रण!} {!446 वण!} {!447 भण!} {!448 मण!} {!449 कण!} {!450 क्वण!} {!451 व्रण!} {!452 भ्रण!} {!453 ध्वण!} शब्दार्थाः$} । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । धणिरपि कैश्चित्पठ्यते । धणति ।{$ {!454 ओणृ!} अपनयने$} । ओणति । ओणांचकार ।{$ {!455 शोणृ!} वर्णगत्योः$} । शोणति । शुशोण ।{$ {!456 श्रोणृ!} संघाते$} । श्रोणति ।{$ {!457 श्लोणृ!} च$} । शोणादयस्त्रयोऽमी तालव्योष्मादयः ।{$ {!458 पैणृ!} गतिप्रेरणश्लेषणेषु $}। प्रैणृ इति क्वचित्पठ्यते । पिपैण ।{$ {!459 ध्रण!} शब्दे $}। उपदेशे नान्तोऽयम् । रषाभ्याम् - (SK235) इति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दंध्रन्ति । बणेत्यपि केचित् । बेणतुः । बेणिथ ।{$ {!460 कनी!} दीप्तिकान्तिगतिषु चकान$} ।{$ {!461 ष्टन!} {!462 वन!} शब्दे$} । स्तनति । वनति ।{$ {!463 वन!} {!464 षण!} संभक्तौ$} । वनेरर्थभेदात्पुनः पाठः सनति । ससान । सेनतुः ॥
Laghu Siddhanta Kaumudi¶
लघोरभ्यासस्य दीर्घः स्यात् सन्वद्भावविषये। अचीकमत, णिङ्भावपक्षे - कमेश्च्लेश्चङ् वाच्यः (वार्त्तिकम्)। अचकमत। अकामयिष्यत, अकमिष्यत॥ {$ {! 3 अय !} गतौ $} (धातुपाठे (01.0546)) ॥ अयते॥
Balamanorama¶
दीर्घो लघोः - दीर्घोः लघो ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते । अभ्यासस्य लघोर्दीर्घ इति । अभ्यासावयवस्य लघोरित्यर्थः ।सन्वल्लघुनि चङ्परे॑ इति सूत्रं सन्वच्छब्दवर्जमनुवर्तते । तच्च प्रग्वदेवद्वेधा व्याख्येयम् । तथा च फलितमाह — सन्वद्भावविषय इति । ‘सन्यत’ इत्यत्र तपरत्वं स्पष्टार्थमिति ‘दीर्घोऽकित’ इति सूत्रे भाष्ये स्पष्टम् । तथाच कि कम तेत्यत्र अभ्यासेकारस्य दीर्घेऽभ्यासचुत्वेऽडागमे परिनिष्ठितं रूपमाह — अचीकमतेति । अत्र लघोर्णिपरत्वं येन नाव्यवधानन्यायाद्बोध्यम् । णिङभावपक्षे त्विति ।आयादय आर्धधातुके वे॑ति णिङो वैकल्पिकत्वादिति भावः । कमेश्च्लेश्चङ् वक्तव्य इति । अण्यन्तत्वादप्राप्तौ वचनम् । णेरभावादिति । णिङभावपक्षे कमिधातोरनुदात्तेत्त्वात्तङि प्रथमपुरुषैकवचने न भवति, तत्र लघुनि चङ्परेऽनग्लोप इत्यनुवत्र्य चङ्परे णावेव तद्विधानोक्तेः । अत एव सन्वत्त्वाऽभावात्सन्यत इत्यभ्यासाऽसकारस्य इत्त्वं च न भवतीत्यर्थः ।दीर्घो लघो॑रिति दीर्घविधौ सन्वत्त्वं न निमित्तं, किंतु लघुनि चङ्पर इत्यस्य तत्रानुवृत्त्या सन्वद्भावविषये तत्प्रवृत्तिः । अतो दीर्घसन्वद्भावाविति पृथगुक्तिः । अत पञ्चभिः श्लोकै#ः सन्वद्भावसूत्रं,दीर्घो लघो॑रिति सूत्रं च विशदयति — संज्ञाया इत्यादिना । अस्मिन् शास्त्रेकार्यकालं संज्ञापरिभाष॑मित्येकः पक्षः ।कार्यकाल॑मित्यस्य कार्यप्रदेशकमित्यर्थः । अस्मिन्पक्षे तत्तत्कार्यविधिप्रदेशेषु संज्ञाशास्त्रस्य परिभाषाशास्त्रस्य परिभाषाशास्त्रस्य च उपस्थितिः ।यथोद्देशं संज्ञापरिभाष॑मिति पक्षान्तरम् । उद्देशाः — संज्ञापरिभाषाशास्त्राम्नानप्रदेशाः, तान् अनतिक्रम्य यथोद्देशम् । संज्ञाशास्त्रं परिभाषाशास्त्रं च स्वप्रदेशे स्थितमेव तत्तद्विध्यपेक्षितं स्वं स्वमर्तं समर्पयतीति यावत् । अस्मिन्पक्षे कार्यप्रदेशेषु संज्ञापरिभाषायां तदर्तस्यैवोपस्थितिर्न तु संज्ञापरिभाषाशास्त्रयोरिति स्थितिः ।सन्वल्लघुनी॑ति सूत्रे,दीर्घो लघो॑रिति सूत्रे च अङ्गस्येति अभ्यासस्येति चानुवृत्तम् । तत्र कार्यकालपक्षे ‘पूर्वोऽभ्यास’ इति सूत्रं संनिहितम् । ततश्च अङ्गस्य ये द्वे उच्चारणे तयोः पूर्वोऽभ्याससंज्ञः, स सन्वद्भवतीति फलितम् । तत्र कृदन्तोच्चारणशब्दयोगादङ्गस्येति कर्मणि षष्ठी, न त्ववयवषष्ठी,कारकषष्ठआ बलवत्त्वात् । अङ्गं च प्रत्यये परतः कृत्स्नमेव प्ररकृतिरूपं, न तु तदेकदेशः । ततश्च कृत्स्नमङ्ग#ं यत्र द्विरुच्यते न तु तदेकदेशमात्रं तत्रैवदीर्घो लघो॑रिति दीर्घः,सन्वल्लघुनी॑ति सन्वद्भावश्च भवति । एवं च अङगस्य एकाच्कत्वे सत्येव तयोः प्रवृत्तिः, तत्र कृत्स्नस्याङ्गस्य द्विरुक्तेः । अनेकाच्केषु तु अङ्गेषु न तयोः प्रवृत्तिः, तत्र एकस्यैव एकाचोऽङ्गैकदेशस्य द्विरुक्तेरिति माधवोमन्यत इति प्रथमश्लोकस्यार्थः ।नानेकाक्ष्वि॑त्युक्तं विशदयति — — चकास्तीति श्लोकेन ।चकासृ दीप्तौ॑ । अर्थमाचष्टे इत्यर्थे णिचिअर्थवेदयो॑रिति प्रकृतेरापुगागमे अर्थापिधातुः ।ऊर्णुञ् आच्छादने॑ ।एते त्रयोऽनेकाच्का धातवः । आदिना ‘जागृ निद्राक्षये’ इत्यादिसंग्रहः । एभ्यो ण्नय्तेभ्यश्चङि अङ्गं कृत्स्नं न द्विरुच्यते, किंतु अङ्गस्य कश्चिदेकाजवयव एव द्विरुच्यते, तस्मादनेकाच्केषु कृत्स्नस्याङ्गस्य द्विरुक्त्यभावात् । किंच अजजागरदित्यत्र सन्वत्त्वमाशङ्क्यणिपरकलघोर्गकाराकारस्य ‘जा’ इत्यनेन व्यवहितत्वादभ्यासस्य न सन्वत्त्व॑मिति समाहितं भाष्ये । तदेतदनेकाच्काङ्गेषु सन्वत्त्वस्याऽप्रवृत्तौ विरुध्येत, कृत्स्नस्याङ्गस्य द्विरुक्तभावादेव तत्र सन्वत्त्वस्याऽप्राप्तौ तच्छङ्काया एवानुन्मेषादित्यस्वारस्याद्यथोद्देशपक्षमालम्ब्य#आह — वस्तुत इति ।अङ्गस्ये॑त्यवयवषष्टी । अङ्गावयवस्याभ्याससस्येति लभ्यते । ततश्च ऊर्णुञि ण्यन्ते चङि ‘नु’ इत्येकदेशस्य द्वित्वेऽपि ‘और्णूनुव’ दित्यत्रदीर्घो लघो॑रित्यभ्यासलघुर्दीर्घीभवति । सन्वत्त्वं तु प्रयोजनाऽभावादुपेक्षितम्, अभ्यासे अकाराऽभावेन ‘सन्यत’ इत्यस्याऽसंभवात् । अर्थमाचष्टे इत्यर्थे णिचि प्रकृतेरापुकि अर्थापिथातोश्चङि णिलोपे उपधाह्रस्वे थप् इत्यस्य द्वित्वेऽपिअर्तीथप॑दित्यत्र सन्वद्भावात् ‘सन्यत’ इत्यभ्यासस्य इत्त्वम्, अभ्यासदीर्घश्चेति द्वयं भवतीति जानीम इति तृतीयश्लोकार्थः । ‘अङ्गस्यावयव’ इति पक्षेऽपि चकास्तौ विशेषमाह - चकास्तौ त्विति । चतुर्थश्लोकोऽयम् । अवस्था — वस्तुस्थितिः । व्यवस्थया । पक्षद्वयेनेति यावत् । ‘चङ्परे’ इत्यनेन अन्यपदार्थतया लब्धस्य णवित्यस्य संनिहितं लघुनीत्येतद्विशेष्यम् । तथा च ‘चङ्परे णौ यल्लघु’ इति प्रतमव्याख्यानं फलितम् । अङ्गमेव वा णेर्विशेष्यम् । तथा चचङ्परे णौ यदङ्ग॑मिति द्वितीयं व्याख्यानं फलितम् । इति व्यवस्थया = पक्षद्वयेन सन्वत्त्वं दीर्घश्चेत्युभयमिदं चकासृधातौ ण्यन्ते णिलोपे द्वित्वे अचचकासदित्यत्र न स्यात्, स्याच्चेत्यन्वयः । तत्रचङ्परे णौ यल्लघ्वि॑ति व्याख्यानेसति नैव उभयं स्यात्, चङ्परस्य णेः कास् इत्यनेन व्यवहितत्वात् । अचीकमतेत्यादौ त्वेकव्यवधानं येन नाव्यवधनानन्यायात्सोढव्यमेव ।चङ्परे णौ यदङ्ग॑मिति व्याख्याने तु अचीचकासदित्यत्र उभयं स्यादेव, अङ्गस्य णिपरकत्वसत्त्वादिति बोध्यम् । ननु चङ्परे णौ यल्लध्विति, चङ्परे णौ यदङ्गमिति च व्याख्याभेदे किं प्रमाणमित्यत आह — व्याख्याविकल्पस्य कैयटेनैव वर्णनादिति ।आदर्तव्यते॑ति शेषः । ननु णौ इत्यवृत्तिमभ्युपगमस्य अग्लोपेऽपि तदन्वयः किमर्थ इत्यत आह — णेरग्लोपेऽपीति । अगितामिति । ‘कमुकान्ता’ वित्यादिनामपीत्यर्थः । सिद्धय इति । दीर्घसन्वत्त्वसिद्ध्यर्थमित्यर्थः । अन्यथा कमुप्रभृतीनामुकाराद्यनुबन्धलोपमादाय अग्लोपित्वात् दीर्घसन्वद्भावौ न स्यातामित्यर्थः । इति घिणिप्रभृतयः कम्यन्ता दश गताः । क्रम्यन्ता इति । ‘क्रमु पादविक्षेपे’ इत्येतत्पर्यन्ता इत्यर्थः । ‘अनुनासिकान्ता’ इति शेषः । अण रणेति । ऋदित्त्वंनाग्लोपी॑ति निषेधार्थम् । ध्रण शब्द इति । अदुपधोऽयम् । उपदेश इति । धातूपदेशे नकारान्तोऽयम् । अकारस्य उच्चारणार्थस्य निवृत्तौ तवर्गपञ्चमान्त इत्यर्थः । तर्हि णकारस्य कथं श्रवणमित्यत आह — रषाभ्यामिति णत्वमिति । ननु स्वाभाविक एव णकार इत्यस्तु, किं नकारस्य कृतणत्वस्य निर्देश इति कल्पनयेत्यत आह — णोपदेशेति । नकारस्थानिकणोपदेशस्य ‘नश्चे’ त्यनुस्वारात्मककं फलं यङ्लुकि प्रत्येतव्यमित्यर्थः । दन्ध्रन्तीति । ध्रणधातोर्यङ्लुकि द्वित्वे हलादिशेषेनुगतोऽनुनासिकान्तस्ये॑ त्यब्यासस्य नुकि उत्तरखण्डे णकारएव श्रूयेतेति परसवर्णे तस्याऽसिद्धत्वाण्णत्वाऽभावे नकारस्यैव श्रवणम् । स्वाभाविकणकारोपदेशे तु उत्तरखण्डे णकार एव श्रूयेतेति भावः । बणेत्यपीति । पवर्गतृतीयादिरित भावः ।कन दीप्ती॑त्यारभ्य अम गत्यादिष्वित्यतः प्राक्तवर्गपञ्चमान्ताः । ष्टन वनेति । आद्यः षोपदेशः । ष्टुत्वसंपन्नष्टकारः । तदाह -स्तनतीति । वन षणेति । द्वितीयः षोपदेशः । ननु ‘ष्टन वन शब्दे’ इति वनेः पठितस्य पुनः व्यर्थ इत्यत आह — अर्थभेदादिति । वनेः शब्दे संभक्तौ च वृत्तिरिष्टा । ष्टनेस्तु शब्द एव वृत्तिरिष्टा । तत्रष्टन वन शब्दे संभक्तौ चे॑त्युक्तौ ष्टनेरपि संभक्तौ वृत्तिः स्यात् । ‘ष्टन शब्दे’ इत्युक्त्वावन संभक्तौ चे॑ति पाठे तु गौरवमिति भावः ।
Tattvabodhini¶
दीर्घो लघोः - दीर्घो लघोः । लघोरभ्यासस्येति । ननु अज्झल्समुदायाऽभ्यासस्य लघुसंज्ञा दुर्लभा,ह्रस्वं लघु॑ इति सूत्रितत्वात् । नैष दोषः । इमे हि न समानाधिकरणे षष्ठ्यौ, किं तु व्यधिकरणे, तथा चाभ्यासावयवस्य लघोर्दीर्घ इत्यर्थः ।लघुनि चङ्परेऽनग्लोपे॑ इतिच सर्वमिहानुवर्तते । तच्च प्राग्वदेव द्वेधा व्याख्येयं । तदाह — सन्वद्भावविषय इति ।हलादे॑रिति प्राचोक्तमिहोपेक्षितं, निष्प्रमाणत्वात् । न हि मुनित्रयोकिंत विना हलादेरिति व्याख्यातुमुचितम् । न चैवमौन्दिददत् आट्टिटदित्यादौ दीर्घः स्यादिति शङ्क्यम्, अङ्गलघ्वोरुभयोरपि णिचं प्रति विशेष्यत्वे दीर्घस्य तत्राऽप्राप्तेः । चङ्परं हि यदङ्गमुन्द् इति, न तदीयोऽभ्यासो, न वा चङ्परणिच्परं यल्लघु तत्परः । एतेन आट्टिटदित्यादिभाष्योदाहरणमेवहलादे॑रिति व्याख्याने प्रमाणमिति, केषांचिदुत्प्रेक्षापि प्रयुक्ता । दीर्घाऽप्राप्त्यैवोदाहरणसौष्ठवस्योक्तत्वात् । लघोः किम् । क्ष्णु हिंसायाम् । अचिक्ष्णवत्॥ शास्त्रेऽस्मिन्कार्यकालं संज्ञापिरभाषं,यथोद्देशं संज्ञापरिभाषमिति पक्षद्वयमप्यस्ति जातिव्यक्तिपक्षवत् । तथा चपूर्वोऽभ्यासःर॑ इत्यस्यसन्वल्लघुनी॑त्यादिना सह पक्षद्व्येऽपि एकवाक्यता समानैव, तथापि कार्यकालपक्षे पदैकवाक्यता, यथोद्देशपक्षे तु वाक्यैकवाक्यतेत्यस्ति विशेषः । तत्रेदानीं कार्यकालपक्षपातिमाधवमतं तावद्व्याचष्टे — संज्ञाया इत्यादिना । श्लोकद्व्येन । अङ्गं यत्रेति । अयं भावः — सन्वल्लघुनि॑दीर्घो लघो॑रिति सूत्रद्वये अङ्गस्येत्यनुवर्तते, अभ्यासस्येति च । तेनाङ्गस्य ये द्वे तयोः पूर्वोऽभ्याससंज्ञकस्तस्येति फलितम् ।द्वे॑ इत्यत्र चउच्चारणे॑ इति विशेष्यसमर्पकमध्याह्यियते, तच्च कृदन्तं , तद्योगादङ्गस्येति कर्मणि षष्ठी । तेन यत्राङ्गं द्विरुच्यते तत्रैव पूर्वस्य दीर्घसन्वद्भावौ स्त इति । अचीकरत् । अपीपचत् । युक्तं चैतत् । अङ्गस्येति षष्ठ्याः कारकविभक्तित्वसंभवे तदुपेक्ष्य शेषष्ठीत्वकल्पनाया अन्याय्यत्वात् । नाङ्गं द्विरुच्यते इति । एवं च अचचकासत् । आर्तथपत् । और्णुनवदित्येव भवतीति भावः । अवयवः कश्चिदिति । हलादेः प्रथमावयवो द्विरुच्यते, अजादेस्तु द्वितीयावयव इत्यर्थः । अङ्गं यत्र द्विरुच्यते तत्र पूर्वस्य दीर्घसन्वद्भावौ विधीयमानौ एकाक्ष्वेवेति च फलितम् । किंच अस्मिन्पक्षेएकाच॑ इत्यङ्गस्य विशेषमं शब्दतोऽपि सुलभम्,एकाचो द्वे॑ इत्यधिकारादित्याशयेनाह — तस्मादेकाक्ष्विति । स्यादेतत् — उक्तरीत्या ह्रस्वहलादिशेषचुत्वादीन्यपि अनेकाक्षु न स्युः । न चेष्टापत्तिः । दिद्रासति । दिदरिद्रासति । जिगणयिषतीत्यादिलक्ष्यस्य सर्वसंमतत्वात् । तन्निर्वाहार्थं यथोद्देशपक्ष आश्रीयत इतिचेत्, तर्हि इहापि स एवोचितः । अर्थाधिकारपक्षस्यैवाभ्यर्हितत्वात्, वृत्त्यादिषु स्वीकृतत्वाच्चेत्यभिप्रेत्याह — वस्तुत इति । ऊर्णौ दीर्घ इति ।स्या॑ दित्यपकृष्यते । और्णुनवत् । इह सन्वद्भावस्तुनोपयुज्यते, णौ कृतस्यादेशस्य स्थानवद्भावेन, निषेधेन वा नुशब्दस्य द्वित्वे सति अभ्यासे अवर्णाऽभावादिति भावः । अर्थापयताविति । अर्थमाचष्टे इत्यर्थे णिच्यापुगागमे ततश्च च्लेश्चङि दीर्घस्य,सन्यतःर॑ इतीत्वस्य च प्रवृत्तौ आर्तीथपदित्येव भवतीति भावः ।अर्थ उपयाच्ञाया॑मित्यस्य तु चङ्परे णौ आर्तथतेति भवति, न तु तत्र दीर्घसन्वद्भावयोः प्रवृत्तिरिति चुरादिषु स्फुटीभविष्यति । उभयमिति । दीर्घः, सन्वच्चेत्येतद्व्यमित्यर्थः । न स्यात्स्याच्च व्यवस्थयेति ।चङ्परे णौ यल्लघ्वि॑ति व्याख्याने न स्यात्,चङ्परे णौ यदङ्ग॑मिति व्याख्याने तु स्यात् । एवं च अचचकासत्चीचकासदिति व्याख्याभेदेन रूपद्वयमित्यर्थः । ननु यताचङपरे णौ यल्लघ्वि॑ति व्याख्यानेयेन नाव्यवधान॑ न्यायेन अपीपचदित्यादावेवोभ्यं भवति, न त्वनेकव्यवाये अचचकासदित्यादौ, तथा न्यायसाम्येनलघनि योऽभ्यास॑ इत्यत्राप्येकनैव व्यवायस्य स्वीकार्यत्वादचिक्षणदित्यादौ सन्वदितीत्वं न स्यादिति चेत् । अत्राहुः — अत्स्मृद्दृत्वरे॑ तीत्त्वापदेन अत्ववचनेन तुल्यजातीयापेक्षेण संयोगस्य व्यवधानेऽपीत्वस्य ज्ञापितत्वान्नोक्तदोषः । अत एवदीर्घो लघो॑रिति सूत्रे लघोरिति सार्थकम् । माधवोऽपि जागृधातावित्थमेवाह । एवं च वदन् यथोद्देशपक्षमेवाशिश्रियत् । तता च ऊर्णुधातौ यत्तेनोक्त॑मौर्णुनवदित्यत्रदीर्घो लघो॑रित्यब्यासस्य दीर्घो न भवति, चङपरे णौ यदङ्गं तसय् योऽभ्यास इति सूत्रार्थात् । अत्र त्वह्गावयवस्याभ्यासो न त्वङ्गस्ये॑ त्यादि, तत्र तस्याप्याग्रहोनास्तीति गम्यते । अतएव चकास्तावचीचकासदित्युदाजहार । तथा च मतभेदाभिप्रायेण पूर्वापरग्रन्थविरोधः समाधेय इति । कातन्त्रपरिशिष्टे त्वित्वदीर्घयोरजीजागरदित्युदाहृतं, तन्मतदव्येऽप्यसंभवादुपेक्ष्यम् । व्यवस्थामेव विवृणोति णेरिति ।सन्निहित॑मिति हेतुगर्भविशेषणं,लघुनी॑ त्येतण्णेर्विशेष्यं भवति, सन्निहितत्वादित्यर्थः । अङग्मेवेति । अस्य चङ्पर#ए इत्यत्र आदेशरूपपचङंशे आकाङ्क्षाऽभावेऽपि णाविति प्रत्ययांशे उत्थिताकाङ्क्षत्वादिति हेतुः स्पष्ट एवेति भावः । कैयटेनैवेति । तथा च एकं हरदत्तमतम्परं तु कैयटमतमिति विषयविभागेन व्याचक्षाणा उपेक्षा इति भावः । चङ्परे इत्यावत्र्य अग्लोपविशेषणतयापि योजितं, तस्य फलमाह — णेरिति । श्रिद्रुरुआउषु परतोऽग्लोपित्वाऽसंबवादिहापि चङ्पर इत्येतावतैव णाविति लभ्यत इति बोध्यम् । अगितामपिति । पचिकमिशकिप्रभृतीनामित्यर्थः । नहीत्संज्ञकानां लोपो णिचं प्रतीक्षत इति भावः । णोपदेशफलमिति । अनुस्वार इत्यर्थः । दंध्रन्तीति ।नुगतोऽनुनासिकान्तस्ये॑इत्यभ्यासस्य नुक् ।
Padamanjari¶
अब्रिभ्रजदिति ।’भ्राजभास’ इत्यादिना पक्षे उपधाह्रस्वनिपेधः ॥
Prakriyasarvasvam¶
चङ्परे णौ परेऽनग्लोपे लघुनि धात्वक्षरे परे लघोरभ्यासस्य दीर्घः स्यात् । चीकम् अत् । चुत्वम् । अद् । अचीकमत । अचीकमेताम् । अचीकमन्त । अचीकमथाः । अचीकमध्वम् । अचीकमे । अचीकमावहि । ‘आयादय—’ इति णिङ्भावपक्षे तु<!कमेर्श्चङ् वाच्यः!> (वा०) द्वित्वादि । णेरभावान्न सन्वद्भावदीर्घौ । धातोरात्मनेपदित्वाण्णिङ्भावेऽपि तङेव । अचकमत । चिणि णिलोपः । अकामि । <karika>कर्तरि चङ्क्तेरिह चङ्भावात् सिच् । णेरचूत्वाच्चिण्वदिङ् वा स्यात् तदभावे वलादिजः । णिलोपः स्याच्चिण्वदिटि न त्वन्येतीति वक्ष्यते ॥ ७०१ ॥</karika> अकामिषाताम् । अकामयिषाताम् । ध्वमि पक्षभेदाद्वा ढः । अकामिढ्वम्, अकामिध्वम् । णिङ्भावे चिण्वदिडभावात् अकामि । अकमिषाताम् इत्यादि । लिटि अनेकाच्त्वादामि णेः ‘अयामन्त-’ इत्ययादेशः । कामयाम्बभूव । कामयामास । कृञस्तु ‘आम्प्रत्ययवत्-’ इति तदेव । कामयाञ्चक्रे । णिङ्भावे चकमे । चकमिषे । चकमिध्वे । कर्मणि कामयाम्बभूव इत्यादि । आशिषि सीयुट इट् । कामयिषीष्ट । कामयिषीढ्वम्, कामयिषीध्वम् । अणिङि कमिषीष्ट । कमिषीध्वम् । लुङादौ कामयिता, कमिता । कामयिष्यते, कमिष्यते । अकामयिष्यत, अकमिष्यत । आशीरादौ कर्मण्यप्येवं द्वेधा । चिण्वदिटि तु णिलोपोऽप्यस्तीति भेदः । कामिषीष्ट । कामिषीध्वम् । लुटि कामिता । कामिष्यते । अकामिष्यत । ष्वञ्ज परिष्वङ्गे । ‘दंशसञ्ज—’ (६–४–२५) इति नलोपः । स्वजते । ‘परिनिविभ्यः’ इति षः । परिष्वजते । यकि ‘अनिदितां—’ इति नलोपः । स्वज्यते । लङि ।
Sutra Prayogas¶
विपर्यणीनमन् (शिशुपालवधम्): दीर्घो लघोः इति अभ्यासस्य दीर्घः।
अपूपुजन् (भट्टिकाव्यम्): दीर्घो लघोः इति अभ्यासस्य दीर्घः।
निरचिक्रमदिच्छा-तो (भट्टिकाव्यम्): दीर्घो लघोः इति न दीर्घत्वं संयोगपरस्य गुरुत्वात् ।
अवीवदन् (भट्टिकाव्यम्): दीर्घो लघोः इति दीर्घत्वम्।