74093: सन्वल्लघुनि चङ्परेऽनग्लोपे¶
Padacheda: सन्वत् | S | 0 | 0 |
लघुनि | S | 7 | 1 |
चङ्परे | S | 7 | 1 |
अनग्लोपे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
In the reduplicated Aorist of the Causative, the reduplicate adapts itself to that of the Desiderative when the vowel of the root is light and the root has not lost its end-vowel before the Causative affix.
Vasu English Translation¶
In the reduplicated Aorist of the Causative, the reduplicate adapts itself to that of the Desiderative when the vowel of the root is light and the root has not lost its end-vowel before the Causative affix. The words of this sutra require a little detailed explanation. The word सन्वत् means “like unto सन् or Desiderative”; i. e. as the Desiderative is treated, so should the चङ् Aorist of the Causative. The words लघुनि and चङ्परे are both in the Locative case, but not in apposition with each other, but refer to different objects. लघुनि means ‘when a light vowel follows’, namely that reduplicate which is followed by the light root-vowel. The operations to be performed on such a reduplicate, in the चङ् Aorist, after the णि are the same, as on the reduplicate of the Desiderative. अन्-अक्-लोपे “provided that a simple vowel of the Pratyahara अक् has not been elided”. We read the word ‘causative’ into this sutra, because there can be no other root which will form चङ् Aorist. Causatives form such Aorist. (3.1.48), as well as the simple roots श्रि, द्रु and स्रु ॥ The words चङ्परे qualifies the word अङ्ग understood: that stem which is followed by चङ्; therefore, it refers to the Causative stem, and not to the simple roots sri, dru and sru. The light vowel, therefore refers, to the light vowel of the Causative stem before चङ् ॥
The word अनग्लोपे is in apposition with चङ्परे ॥ Thus कम् + णिङ् (3.1.30) = अकाम् + इ + अत् (3.1.48) = अकाम् + अत् (6.4.51) = अकम् + अत् (7.4.1) = अचकम् + अत् (6.1.11) = आचकम् + अत् ((7.4.79) read with (7.4.93)) = अचीकमत् (7.4.94).
Thus (7.4.79) teaches the substitution of इ for अ in the reduplicate of the Desiderative. The same substitution will take place in the reduplicate of the Aorist: as अचीकरत्, अपीपचत् ॥ Thus by (7.4.80), इ is substituted for the उ of the reduplicate in the Desiderative, the same will be the case in the reduplicate of the Aorist, as अपीपवत् and अलीलवत्, and अजीजवत् ॥ Thus by (7.4.81), इ is optionally substituted for उ in the Desiderative reduplicate of स्रु &c, the same will hold good in the Aorist-reduplicate, as असिस्रवत् or अस्रुस्रवत्, अशिश्रवत् or अशुश्रवत्, अदिद्रवत् or अदुद्रवत्, अपिप्रवत् or अपुप्रवत्, अपिप्लवत् or अपुप्लवत्, अचिच्यवत् or अचुच्यवत् ॥ Why do we say ‘having a light vowel’? Observe अततक्षत्, अररक्षत्, अजजागरत् ॥
Some say, that in अजजागरत्, the syllable ग is light, and therefore, the san-vat rule would apply : for a light vowel no where immediately follows a reduplicate; therefore, though a long syllable जा intervenes, yet the rule will apply, because of the express text. This reasoning is wrong. The maxim येन नाव्यवधानं तेनव्यवहितेऽपि वचनप्रामाण्यात् cannot be extended to cases like this. It applies only when the intervention consists of one letter and not of more than one. Objection: If so, how do you form अचिक्षणत् for here two letters क् and ष् (क्ष) intervene between the reduplicate and the light vowel. Answer: The author indicates by implication in (7.4.95) that these roots like क्षण् do take इ in the reduplicate; for had it not been so, what was the necessity of making an exception in favor of roots like स्मृ, त्वर, स्तॄ, स्पश् in (7.4.95). So that a conjunct consonant is not considered an intervention for the purposes of this rule. Therefore, स्मृ &c would have taken इ in the reduplicate by (7.4.79), read with the present sutra, and so the Acharya enjoins अ instead in (7.4.95) with regard to these.
Why do we say ‘when चङ् follows’? Observe अहं पपच ॥ Why do we use the word पर “followed by”? The rule would not apply when चङ् alone follows णि, as अचकमत् where कम् has taken चङ् under the vartika कमेरुपसंख्यानम् ॥
Why do we say ‘when an अक् vowel has not been dropped’? Observe अचकथत् from the Churadi root कथ which ends in अ, and this अ is elided by (6.4.48). Objection: This lopa being considered sthanivat, will prevent the application of the present rule, as there will be an intervention. Answer: We shall give another example, अददृषत् from दृषदमाख्यातवान् ॥ Here णिच् is added to दृषत् under the Vartika तत्करोतितदाचष्टे, and the टि portion is elided by इष्टवद्भावः, here a vowel and a consonant have been elided, and so the lopa is not sthanivat.
In the double causative Aorist अवीवदत् the present rule applies, though one णि has been elided. अवीवदत् = वादितवन्तं प्रयोजितवान् ॥ In fact, the elision of one णि when followed by another णि is not considered as an ak-lopa; the latter refers to the elision of any other vowel than णि ॥ Therefore we have अवीवदद् वीणां परिवादकेन ॥ In fact, this exception rests on the following vartika सम्बद्भावदीर्घत्वे णे र्णिच्युपसंख्यानम् ॥
The lopa of the reduplicate which takes place before सन् of the roots मी, मा &c (7.4.54) does not, however, take place in चङ् Aorist. The analogy does not extend so far. In fact, the present sutra teaches a रूपातिदेश, namely the form which a reduplicate has in Desiderative, will be the form in the Aorist. But as मी, मा &c have no reduplicate form in the Desiderative, the analogy stops. Therefore, we shall have अमीमपत् ॥ Moreover the word सन्वद् here means the operations that depend solely on सन् ॥ Now the total elision of the reduplicate by (7.4.54) does not depend upon सन् alone, but upon the augment इस् also of (7.4.54). But as there can be no इस् in the Aorist, so there will be no elision also. In fact, an atidesa should be confined to general cases and not to particulars.
Bhashya¶
सन्वल्लघुनि चङ्परेऽनग्लोपे इह कस्मान्न भवति - अजजागरत् ? ॥ लघुनि चङ्पर इत्युच्यते व्यवहितं चाऽत्र लघु चङ्परम् ॥ इहापि तर्हि न प्राप्नोति - अचीकरत् अजीहरत् ॥ वचनाद्भविष्यति ॥ इहापि वचनात्प्राप्नोति - अजजागरत् ॥ येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् ॥ केन च नाऽव्यवधानम् ? ॥ वर्णेन । एतेन पुनः सङ्घातेन व्यवधानं भवति न भवति च ॥ एवमपि अचिक्षणत् - अत्र न प्राप्नोति ॥ एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति भवत्येवंजातीयकानामित्त्वमिति यदयमत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशामितीत्त्वबाधनार्थमत्त्वंशास्ति । ॥ सन्वद्भावदीर्घत्वे णेर्णिच्युपसङ्ख्यानम् (णिचा व्यवहितत्वात्(2)) ॥ सन्वद्भावदीर्घत्वे णेर्णित्युपसङ्ख्यानं कर्तव्यम् । वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन ॥ किं पुनः कारणं न सिध्द्यति ? ॥ णिचा व्यवहितत्वात् ॥ लोपे कृते नाऽस्ति व्यवधानम् ॥ स्थानिवद्भावव्द्यवधानमेव ॥ प्रतिषिध्यतेऽत्र स्थानिवद्भावो दीर्घविधिं प्रति न स्थानिवदिति ॥ एवमप्यनग्लोप इति प्रतिषेधः प्राप्नोति ॥ वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ॥ एवं तर्हीदमिह संप्रधार्यं - वृद्धिः क्रियतां लोप इति, किमत्र कर्तव्यम् ? ॥ परत्वाद्वृद्धिः ॥ नित्यो लोपः । कृतायामपि वृद्धौ प्राप्नोत्यन्यस्याऽकृतायाम् । शब्दान्तरस्य च प्राप्नुवन्विधिरनित्यो भवति । उभयोरनित्ययोः परत्वाद्वृद्धिर्वृद्धौ कृतायां लोपस्तन्नाऽग्लोप्यङ्गं भवति ॥ मीमादीनां तु लोपप्रसङ्गः ॥ मीमादीनां तु लोपाः प्राप्नोति । अमीमपत् ॥ सिद्धं तु रूपातिदेशात् ॥ सिद्धमेतत् ॥ कथम् ? ॥ (ठरूपातिदेशात्(2)) ॥ रूपातिदेशोऽयं - सनि यादृशमभ्यासरूपं तत्सन्वद्भावेनाऽतिदिश्यते, न च मीमादीनां सन्यभ्यासरूपमस्ति ॥ अङ्गान्यत्वाद्वा सिद्धम् ॥ अथ वा ण्यन्तमेतदङ्गमन्यत् ॥ लोपे कृते नाऽङ्गन्यत्वम् ॥ स्थानिवद्भावादङ्गमन्यत् ॥ कथमजिज्ञपत् ? ॥ अत्र सन्यपि ण्यन्तस्यैवोपादानमाप्ज्ञप्यृधामीदिति । अत्राऽङ्गन्यत्वाऽभावादभ्यासलोपः स्यात् । तस्मात्पूर्व एव परिहारः -सिद्धं तु रूपातिदेशादिति ॥ ॥ इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये सप्तमाध्यायस्य चतुर्थे पादे प्रथममाह्निकम् ॥ चतुर्थः पादश्च समाप्तः ॥
Kashika¶
लघुनि धात्वक्षरे परतो योऽभ्यासः तस्य चङ्परे णौ परतः सनीव कार्यं भवति अनग्लोपे। सन्यतः (7.4.79) इत्युक्तम्, चङ्परेऽपि तथा। अचीकरत्। अपीपचत्। ओः पुयण्ज्यपरे (7.4.80) इत्युक्तम्, चङ्परेऽपि तथा। अपीपवत्। अलीलवत्। अजीजवत्। स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा (7.4.81) इत्युक्तम्, चङ्परेऽपि तथा। असिस्रवत्, असुस्रवत्। अशिश्रवत्, अशुश्रवत्। अदिद्रवत्, अदुद्रवत्। अपिप्रवत्, अपुप्रवत्। अपिप्लवत्, अपुप्लवत्। अचिच्यवत्, अचुच्यवत्। लुघुनि इति किम्? अततक्षत्। अररक्षत्। जागरयतेः अजजागरत्। अत्र केचिद् गशब्दम् लघुमाश्रित्य सन्ववद्भाम् इच्छन्ति, सर्वत्रैव लघोरानन्तर्यमभ्यासेन न अस्तीति व्यवधानेऽपि वचनप्रामाण्याद् भवितव्यम्, तदसत्। येन न अव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यातित्येकेन व्यवधानमाश्रीयते, न पुनरनेकेन। यद्येवम्, कथमचिक्षणतिति? आचार्यप्रवृत्तिर्ज्ञापयति भवत्येवं जातीयकानाम् इत्त्वम् इति। यदयं तद् बाधनार्थं सम्रत्यादीनामत्वम् विदधाति। चङ्परे इति किम्? अहं पपच। परग्रहणं किम्? चङि एव केवले मा भूत्, अचकमत। अनग्लोपे इति किम्? अचकथत्। दृषदमाख्यातवानददृषत्। वादितवन्तं प्रयोजितवानवीवददित्यत्र योऽसौ णौ णेर्लोपो नासावग्लोप इत्याश्रीयते। किं कारणम्? चङ्परे इति णिजातेर्निमित्तत्वेन आक्षेपात्, ततोऽन्यस्य अको लोपः परिगृह्यते। मीमादीनामत्र ग्रहणात् सन्वद्भावेन अभ्यासलोपो न भवति इत्युक्तम्। किं च सन्वतिति सनाश्रयं कार्यमतिदिश्यते, न च लोपः सनम् एव अपेक्षते, किं तर्हि, इस्भावाद्यपि। तदभावातमीमपतित्यादौ अभ्यासलोपो न भविष्यति।
Siddhanta Kaumudi¶
चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥
Laghu Siddhanta Kaumudi¶
चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरः, तस्य सनीव कार्यं स्याण्णावग्लोपेऽसति॥
Tattvabodhini¶
सन्वल्लघुनि चङ्परेऽनग्लोपे - चङ्पर इत्येतावतैव णिरिति न लभ्यते, श्रिद्रुरुआउवामपि चङ्परत्वात् । अत आह — अह्गसंज्ञानिमित्तमिति । अङ्गस्याभ्यास इति । अङ्गस्य ये द्वे विहिते तयोः पूर्वोऽभ्यास इत्यर्थः । अङ्गस्येति नावर्तत इति । अस्मस्तु व्याख्यानेचङ्परे॑ इत्येतावतैव णिरिति लभ्यते, श्रिद्रुरुआउषु परेषु अङ्गत्वाऽसंभवादतो व्याचष्टे — चङ्परे णौ यदङ्गमिति । चङपरे इत्यस्यैव व्याख्यानंणा॑विति ज्ञेयम् । अनग्लोपे किम् । अचकथत् ।
Padamanjari¶
‘लघुनि चङ्परे’ इति व्यधिकरणे सप्तम्यौ, न सामानाधिकरणे; चङ्परस्य लघुनोऽसम्भवात् । चङ्परे णौ परत इति । कृथं पुनर्णाविति लभ्यते ? चङ्परस्यान्यस्यासम्भवात् । ननु चाचकमतेत्यत्र मकारः । सम्भवति, अदुद्रुवद्, असुस्रवदित्यत्र वकारः ? एवं तर्हि’चङ्परे’ इत्यङ्गस्य विशेषणम् - चङ्परे यदङ्गं तस्य योऽभ्यासस्तस्य सन्वत्कार्यं भवति । लघुनि धात्वक्षर इति । चङ्परे णौ यदङ्गं तस्य सम्बन्धि यल्लघ्वित्यर्थः । सामर्थ्याण्ण्यन्तस्य ग्रहणमिते । णेः समीपभूतस्याङ्गस्य ग्रहणमित्यर्थः । ण्यन्तस्यावयवभूतं यदङ्गं तस्य ग्रहणमिति वा । अनग्लोप इति । नास्मिन्नग्लोपो विद्यत इति अनग्लोपः । एतच्च’चङ्परे’ इत्यनेन समानाधिकरणम् । तेनायमर्थः - चङ्परे णावको लोपेऽसतीति । अततक्षदित्यत्र संयोगपरत्वाद् गुरुसंज्ञया लघुसंज्ञाया बाधः, अजजागरदित्यत्र आकारः । परः । अत्र केचिदित्यादि । ननु च गकारो जाशब्देन व्यवहितः ? अत आह - सर्वत्रैवेति । अचीकरदित्यादावपि ककारादिना व्यवधानाल्लघोरानन्तर्यं नास्ति, ततश्च वचनप्रामाण्याद्व्यवधान एव सन्वद्भावेन भवितव्यमिति तेषामभिप्राय इत्यर्थः । दूषयति - तदसदिति ॥ यदि तहि वर्णसङ्घातेन व्यवधानं नाश्रीयते व्यञ्जनसङ्घातेनापि व्यवधाने न सिध्यतीति मन्यमानः पृच्छति - कथमिति । एवञ्जातीयकानामिति । संयोगव्यवहितानामित्यर्थः । अचकमतेति ।’कमेरुपसंख्यानम्’ इति च्लेश्चङदेशः । अचकथदिति ।’कथ वाक्यप्रबन्धे’ चुरादावदन्तः, ठतो लोपःऽ । अत्राल्लोपस्य स्थानिवद्भावे सति व्यवधानान्न भविष्यति, अतः प्रत्युदाहरणान्तरोपन्यासः । अददृषदिति ।’तदाचष्टे’ इति णिच इष्ठवद्भावेन टिलोपः । अत्राज्झलोर्लोपः, नाच एव केवलस्येति नास्ति स्थानिवद्भावः । एतदर्थं च ठनग्लोपेऽ इत्येतत्क्रियमाणमचकथदित्यत्र सन्वद्भ्वावं निवर्तयतीति तस्योपन्यासः । यदि चङ्परे णौ यदङ्गं तस्य यल्लघु तत्र परतोऽभ्यासस्य सन्वद्भावो विधीयते, वादितवन्तं प्रयोजितवानवीवददित्यत्रापि तर्हि न प्राप्नोति, किं कारणम् ? यश्चङ्परो णिर्न तत्र लघुः; पूर्वेण णिचा व्यवहितत्वात् । लोपे कृते नास्ति व्यवधानम् । अजादेशः पूर्वविधौ स्थानिवद् भवतीति स्थानिवद्भावाद्व्यवधानमेव । यद्यपि दीर्घविधिं प्रति स्थानिवद्भावो निपिद्धः, सन्वद्भावे तु प्राप्नोति । यस्मिंश्च णौ लघुर्नासौ चङ्परः; द्वितीयेन णिचा व्यवहितत्वात् । भवतु वा स्थानिवत्वनिषेधः, अग्लोपित्वान्न प्राप्नोति । वृद्धौ कृतायां णेलेपिः, तन्नाग्लोप्यङ्गं भवति । अग्लोपि वास्तु, प्रागेव वृद्धेर्णिलोपे कृते ? तत्रापि परिहारमाह - योऽसौ णौ णेर्लोप इत्यादि । ततोऽन्योऽग्लोप इति अन्याकारोऽन्य उक्तः । जात्याश्रयणे हि गोबलीवर्दन्यायेन णिजातेनिंमितत्वेन परिगृहीताया अन्यस्याको लोपः प्रतिषेधविषयः परिगृह्यते, न तु तस्या णिजातेः; ततश्चास्य लोपस्याग्लोपत्वेनानाश्रयणाअतेनाग्लोप्यङ्गं न भवतीति भवत्येवात्र सन्वद्भावः । मीमादीनामत्र ग्रहणादिति । तत्र ह्यचेति ठभ्यासलोपश्चऽ इत्येव सिद्धेऽत्रग्रहणं विषयावधारणार्थम् । अत्र मुख्ये सन्येव भवति, न सन्वद्भावविषय इति । किञ्चेत्यादि । अनेनेदमाह - न केवलं मुख्यसन्परिग्रहमात्रमत्र कारणम्, किं तर्हि ? हस्भावद्यपि विषयत्वेन निर्दिश्यते । इह च धातोः सन्वद्भावादिस्भावादि न भवति, ततश्चाभ्यासलोपोऽपि न भवतीति । यद्वा - सकारादौ सन्यभ्यासलोपो विहितः, न सन्मात्रे, ततश्च सामान्यातिदेशे विशेषानतिदेशात् लोपाभावः ॥
Nyaas¶
सन्यतः (7.4.79) इत्यादिना सूत्रत्रयेण यदभ्यासस्य सनि कार्यं भवति तल्लघुनि चङ्पर इत्यतिदिश्यते। लघुनि चङ्परे इति। व्यधिकरणे सप्तम्यौ - चङपरे णौ परतो यत्? पूर्वं लघु तस्मिन्? परतो योऽभ्यासस्तस्य सन्वद्भवतीति। चङपरे इति बहुव्रीहिः - चङ्? परो यस्मादिति तच्चङ्परम्; न तु चङ्? चासौ परश्चेति तत्पुरुष। तेन सामर्थ्याण्ण्यन्तस्यैवायमतिदेशो विज्ञायते; अन्यथा हि यदि प्रकृत्यन्तस्यायमतिदेशः स्यात्, तदा सन्वच्चङि इत्येवं ब्राऊयात्। अनन्लोपे इति। चङ्परे इत्यस्यैतद्विशेषणम्। अगिति प्रत्याहारग्रहणम्। अको लोपोऽग्लोपः, स यस्य नास्ति तदनग्लोपम्। अपीपचत् इति। पचेर्णित्, लुङ्, च्लेश्चङ्, उपधाह्रस्वत्वम्, द्विर्वचनमभ्यासकार्यम्, हलादिशेषे च कृतेऽनेन सन्वद्भावः, सन्यतः (7.4.79) इतीत्त्वम्, उत्तरसूत्रेण (7.4.94) दीर्घत्वम्। अततक्षत्, अररक्षत् इति। अत रेफतकारयोः संयोगपरत्वाद्? गुरुसंज्ञायां सत्यां न भवति सन्वद्भावः। अजजागरत् इति। अत्र जकाराकारस्य दीर्घत्वाद्गुरुत्वम्। अत्र केचित् इत्यादि। तेषां अजीजागरत् इति भवितव्यम्। किं पुनः कारं त एवमिच्छन्ति, यावता लघुनि चङ्पर इत्यच्यते, व्यवहितश्चात्र लघुनि चङ्परे? इत्यत आह - सर्वत्रैव इत्यादि। अचीकरत् इत्यादावपि ककारादिना वर्णेन व्यवधानाल्लघोरानन्तर्यमभ्यासे नास्ति; उच्यते चेदं वचनम्, अतो वचनप्रामाण्या द्वय्वधान एव सन्वद्भावेन भवितव्यम्। ततश्च यथा अचीकरत् इत्यादौ व्यवधानेऽपि भवति, तथेहापि व्यवधाने सन्वत्कार्येण भवितव्यम्। अथ चेद्व्यवधानान्न भवति, अत्रापि न स्यादिति भावः। तदसत् इति। अजजागरत् इत्यत्र गृशब्दं लघुमाश्रित्य यत्? सनवद्भावमिच्छन्ति, सर्वत्रैवेत्यादिना च यत्? कारणमुक्तम्, तदुभयमत्राशोभनम्; अयुक्तत्वात्। कथम्? इतयाह - येन इत्यादि। एकेन वर्णेन व्यवधानमस्ति सर्वत्र। वर्णसङ्घातेन व्यवधानमस्ति नास्ति च। तत्र येन नाव्यधानं तेन व्यवहितेऽपि वचनप्रामाण्यात् (व्या।प।46) इति यन्नियतभाव्येकेन वर्णेन व्यवधानमशक्यं परिहर्त्तुम्, तदेवाश्रीयते, न तु वर्णसङ्गातेन। अजजागरत् इत्यत्र वर्णसङ्घातेन व्यवधानम्। यदि तर्हि वर्णसङ्घातेन व्यवधानं नाश्रीयते, व्यञ्जनसङ्घातेन व्यवधाने न सिद्धयति? इत्यभिप्रायेणाह - कथमचिक्षणत् इत्यादि। क्षणु हिंसायाम् (धातुपाठः-1465) इत्येतस्यैतद्रूपम्। अत्रापि ज्ञापकेन सिद्ध्यतीत्यत आह - आचार्यप्रवृत्तिः इत्यादि। क्षणोतिना ये सदृशाः संयोगादयस्त एवञ्जातीयाः। क्षणोतिप्रकारः इत्यर्थः। तेषां यदीत्त्वं न स्यात्, तदा तद्बाधनार्थं अत्स्मृदृत्वरप्रथभ्रद (7.4.95) इत्यादिनात्त्वं न विदध्यात्, विदधाति च। तस्मादेतदेवात्त्वविधानलक्षणमाचार्यप्रवृत्तिज्र्ञापयति - भवत्येवञ्जातीयकानामित्त्वम् इति। अहं पपच इति। उत्तमे णलि यदा णलुत्तमो वा (7.1.91) इति णित्त्वं नास्ति तदेदं प्रत्युदाहरणं भवति। अत्र लघुपरतोऽक्षरम्, न तु चङ्परम्। अचकमत इत्यादि। कमेश्चोपसंख्यानम्` (वा।208) इति कमु कान्तौ (धातुपाठः-443) इत्येतस्मात्? प्रकृत्यन्तादेव लुङ्, चङ्। अचकथत् इति। कथ वाक्यप्रबन्धे (धातुपाठः-1851) चुरादावदन्तः। अत्र अतो लोपः (6.4.48) इत्यकारलोपः। अत्र त्वग्लोपस्य स्थानिवद्भावे सति व्यवधानेऽपि न स्यात्। अतः प्रत्युदाहरणान्तरमाह - दृषदमाख्यदददृषत् इति। तत्करोति तदाचष्टे (वा।200) इति णिच्। णाविष्ठवत्? कार्यं प्रातिपदिकस्य (वा।811) इतीष्ठवद्भावाट्टिलोपः। अत्राज्झलोर्लोपः, नाक एव केवलस्येति नास्त्यत्र स्थानिवद्भावः। अन्यार्थं त्वग्लोप इति क्रियमाणमचकथदित्यत्रापि सन्वद्भावं निवर्तयतीत्यस्योपन्यासः। अवीवदत् इति। वदतेण्र्यन्ताद्? वादितवन्तं प्रयोजितवानिति हेतुमति च (3.1.26) इति णिच्, पुनर्णिच्युत्पन्ने णेरनिटि (6.4.51) इति णिलोपे कृते सत्यप्यग्लोप्यङ्गं भवति, अतो न भवितव्यं सन्वद्भावेनेति यो मन्यते, तं प्रत्याह - वादितवन्तं प्रयोजितवान् इत्यादि। चङ्परे इत्यादिना णिलोपस्याग्लोपित्वेनानाश्रयणे कारणमाह। चङपरे इत्यनेन हि सन्वद्भावनिमित्तेन णिजातिराक्षिप्ता। तस्माद्गोबलीवर्दन्यायेन णिजातिर्निमित्तत्वेनाश्रीयते। अतो णिजातेरन्यस्याको लोपः प्रतिषेधनिमित्तत्वेन परिगृह्रते, न तु तस्या एव णिजातेः। तस्माण्णिलोपस्याग्लोपित्वेनानाश्रयणात्? तल्लोपेऽग्लोप्यङ्गं न भवति। अतो भवत्येवात्र सन्वद्भावः। सन्वदित्यतिदेशेन यथाचीकरदित्यादावभ्यासस्येत्त्वं भवति तथामीमपदित्यादावप्यभ्यासलोपेन मीमादीनां भवितव्यमिति यश्चोदयेत्, तं प्रत्याह - मीमादीनाम् इत्यादि। आदिशब्देन ध्वादीनां ग्रहणम्। किञ्च इत्यादिना परीहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयणेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत्? सनमपेक्षते, नापरं किञ्चित्। न च अत्र लोपेऽभ्यासस्य (7.4.58) इत्यनेन विधीयमानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन ध्वादीनां ग्रहणम्। किञ्च इत्यादिना परोहारान्तरम्। सन्वदित्यतिदेशेन हि सनाश्रयमेव कार्यमतिदिश्यते। सनाश्रयञ्च किं कार्यम्? यत्? सनमपेक्षते, नापरं किञ्चित्। न च अत्र लोपेऽभ्यासस्य (7.4.58) इत्यनेन विधीयभानो लोपः सनमेवापेक्षते, किं तर्हि? इस्भावादिकमपि। आदिशब्देन - अब्ज्ञप्यृधामीत् (7.4.55) इतीत्त्वम्, मुचोऽकर्मकस्य (7.4.57) इति गुणश्च परिगृह्रते। तेन अभीमपत् इत्यादाविसादेशो न भवति। अभ्यासलोपेऽपि न भवतीत्यभिप्रायः॥
Sutra Prayogas¶
निरचिक्रमदिच्छा-तो (भट्टिकाव्यम्): क्रमेर्ण्यन्तस्य लुङि सन्वल्लघुनि इति सन्वद्भावात् ।