74092: ऋतश्च¶
Padacheda: ऋतः | S | 6 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The reduplicate of a root which ends in short ऋ gets, in the Intensive without यङ् the above augments (1. रीक् 2. रुक् and 3. रिक्), 1. रि 2. र् and 3. रि।
Vasu English Translation¶
The reduplicate of a root which ends in short ऋ gets, in the Intensive without यङ् the above augments (1. रीक् 2. रुक् and 3. रिक्), 1. रि 2. र् and 3. रि। Karika:-
किरतिं चर्क्करीतान्तं पचतीत्यत्र यो नयेत् । प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन संग्रहः ॥
Thus चकर्ति, चरिकर्ति and चरीकर्ति, जर्हर्ति, जरिहर्ति and जरीहर्ति ॥ Why do we say ‘which ends in a short ऋ’? The rule does not apply to roots ending in long ॠ as, चाकर्ति, चाकीर्तः, चाकिरति from कॄ ॥ The word ऋतः qualifies the word अङ्ग and not the word अभ्यास, for an abhyasa is always short, so the त् in ऋत् would become meaningless if the word qualified reduplicate. Therefore कॄ ending in long ॠ does not get रि, र् and रि augments in the reduplicate.
Karika:- He who can conjugate, in the Present tense, the yan-luk Intensive of कॄ and of other roots ending in long ॠ, is considered by me to be a person who has attained to the right knowledge of the employment of the augments र्, री, रि &c: and he has obtained the right use of words.
The word किरति in the Karika is illustrative of all roots like कॄ (किरति) ending in long ॠ ॥ चर्क्करीत is the name given to the यङ् लुक् form of the Intensive, by ancient grammarians. चर्क्करीतान्त means, therefore, a form ending in yan-luk. पचति is illustrative of लट् or Present tense.
Bhashya¶
ऋतश्च किमिदमृकारग्रहणमङ्गविशेषणमृकारान्तस्याङ्गस्येति, आहोस्विदभ्यासविशेषणमृकारान्तस्याभ्यासस्येति ? अङ्गविशेषणमित्याह ॥ कथं ज्ञायते ? ॥ यदयं तपरकरणं करोति ॥ कथं कृत्वा ज्ञापकम् ? ॥ नहि कश्चिदभ्यासे दीर्घोऽस्ति यदर्थं तपरकरणं क्रियते ॥ अथाऽङ्गविशेषणे ऋकारग्रहणे सति तपरकरणे किं प्रयोजनम् ? ॥ इह मा भूत् - चाकर्ति चाकीर्तः चाकिरति ॥ ॥ किरतिं चर्करीताऽन्तं पचतीत्यत्र यो नयेत् । प्राप्तिज्ञं तमहं मन्ये प्रारब्धस्तेन सङ्ग्रहः ॥
Kashika¶
ऋकारान्तस्य अङ्गस्य योऽभ्यासः तस्य रुग्रिकौ आगमौ भवतः रीक् च यङ्लुकि। चर्कर्ति, चरिकर्ति, चरीकर्ति। जर्हर्ति। जरिहर्ति। जरीहर्ति। तपरकरणम् किम्? किरतेश्चाकर्ति। किरतिं चर्करीतान्तं पचति इत्यत्र यो नयेत्। प्राप्तिज्ञं तमहं मन्ये प्रारब्धस् तेन सङ्ग्रहः। तत्रेयं प्राप्तिः तपरकरनसामर्थ्यादङ्गविशेषणम् ऋतः इत्येतत्, तया चाप्राप्तिः किरतेरुगादीनाम् इति।
Siddhanta Kaumudi¶
ऋदन्ताद्धातोरपि तथा । वर्वृतीति । वरिवृतीति । वरीवृतीति । वर्वर्ति । वरिवर्ति । वरीवर्ति । वर्वृतः 3 । वर्वृतति 3 । वर्वर्तामास 3 । वर्वर्तिता । गणनिर्दिष्टत्वात् न वृद्भ्यश्चतुर्भ्यः (SK2348) इति न । वर्वर्तिष्यति 3 । अवर्वृर्तीत् 3 । अवर्वतर् 3 । सिपि दश्च (SK2468) इति रुत्वपक्षे रो रि (SK173) । अवर्वाः 3 । गणनिर्दिष्टत्वादङ् न । अवर्वर्तीत् । चर्करीति 3 । चर्कर्ति । चरिकर्ति । चरीकर्ति । चर्कृतः 3 । चर्क्रति 3 । चर्करांचकार 3 । चर्करिता 3 । अचर्करीत् । अचर्कः 3 । चर्कृयात् 3 । आशिषि रिङ् । चर्क्रियात् 3 । अचर्कारीत् 3 । ऋतश्च (SK2653) इति तपरत्वान्नेह । कॄ विक्षेपे । चाकर्ति । तातर्ति । तातीर्तः । तातिरति । तातीर्हि । तातराणि । अतातरीत् । अतातः । अतातीर्ताम् । अतातरुः । अतातारीत् । अतातारिष्टामित्यादि । अर्तेर्यङलुकि द्वित्वेऽभ्यासस्योरदत्वं रपरत्वम् । हलादिः शेषः (SK2179) । रुक् । रिग्रीकोस्तु अभ्यासस्यासवर्णे (SK2290) इति इयङ् । अरर्ति । अरियर्ति । अरियर्ति । अररीति । अरियरीति । अर्ऋतः । अरियृतः । झि अत् । यण् । रुको रोरि (SK1731) इति लोपः । न च तस्मिन् कर्तव्ये यणः स्थानिवत्त्वम् । पूर्वत्रासिद्धीये तन्निषेधात् । आरति । अरिय्रति । लिङि श्तिपा निर्देशात् गुणोऽर्ति - (SK2380) इति गुणो न । रिङ् । रलोपः । दीर्घः । आरियात् । अरिय्रियात् । अरारीत् । आरियारीत् । गृहू ग्रहणे । जर्गृहीति 3 । जर्गर्ढि 3 । जर्गृढः 3 । जर्गृहति 3 । अजर्घटर् 3 । गृह्णातेस्तु । जाग्रहीति । जाग्राढि ॥ तसादौ ङिन्निमित्तं संप्रसारणम् । तस्य बहिरङ्गत्वेनासिद्धत्वान्नरुगादयः । जागृढः । जागृहति । जाग्रहीषि । जाघ्रक्षि । लुटि । जाग्रहिता । ग्रहोऽलिटि (SK2562) इति दीर्घस्तु न । तत्रैकाच इत्यनुवृत्तेः । माधवस्तु दीर्घमाह तद्भाष्यविरुद्धम् । गृधु अभिकाङ्क्षायाम् । जर्गृधीति 3 । जर्गर्द्धि 3 । जर्गृद्धः 3 । जर्गृधति 3 । जर्गृधीषि 3 । जर्घर्त्सि 3 । अजर्गृधीत् 3 । ईडभावे गुणः । हल्ङ्यादिलोपः । भष्भावः । जश्त्वचर्त्वे । अजर्घतर् 3 । अजर्गृद्धाम् 3 । सिपि दश्च (SK2668) इति पक्षे रुत्वम् । अजर्घाः 3 । अजर्गर्धीत् 3 । अजर्गर्धिष्टाम् 3 । पाप्रच्छीति । पाप्रष्टि । तसादौ ग्रहिज्या - (SK2412) इति संप्रसारणं न भवति । श्तिपा निर्देशात्. च्छ्वोः शूड् - (SK2561) इति शः । व्रश्च - (SK294) इति षः । पाप्रष्टः । पाप्रच्छति । पाप्रश्मि । पाप्रच्छ्वः । पाप्रश्मः । यकारवकारान्तानां तूठ्भाविनां यङ्लुङ् नास्तीति च्छ्वोः - (SK2561) इति सूत्रे भाष्ये ध्वनितम् । कैयटेन च स्पष्टीकृतम् । इदं च्छ्वोः - (SK2561) इति यत्रोठ् तद्विषयकम् । ज्वरत्वर - (SK2564) इत्यूठ्भाविनोः स्रिविमव्योस्तु यङ्लुगस्त्येवेति न्याय्यं माधवादिसंमतं च । मव्य बन्धने । अयं यान्त ऊठ्भावी । तेवृ देवृ देवने इत्यादयो वान्ताः । हय गतौ । जाहयीति । जाहति । जाहतः । जाहयति । जाहयीषि । जाहसि । वलि लोपे यञादौ दीर्घः । जाहामि । जाहावः । जाहामः । हर्य गतिकान्त्योः । जाहर्यीति । जाहर्ति । जाहर्तः । जाहर्यति । लोटि । जाहर्हि । अजाहः । अजाहर्ताम् । अजाहर्युः । मव बन्धने ॥
Tattvabodhini¶
ऋतश्च। ऋताऽनुवर्तमानमङ्गं विशेष्यते। ऋदन्तस्याङ्गस्य योऽभ्यासस्तस्येत्यर्थः। ऋदन्ताद्धातो`रिति पाठस्तु फलितार्थकथनपरतया नेयः। लोटि - वर्वृतीतु। 3 वर्वतु 3। वर्वृतात्। वर्वृताम् 3। वर्वृततु 3। वर्वृद्धि 3। अङ्नेति। `पुषादिद्युतादी`त्यनेन। चर्करीतीति। डुकृञ् करणे। चर्कृयादति। सार्वधातुकत्वात् `अकृत्सार्वे तिन दीर्घः। लुङि सिचि वृद्धि`रिति वृद्धिः। अचर्कारीत् 3। अचर्कारिष्टाम् 3। अचर्कारिषु3। अचर्कारीः 3। चाकर्तीति। ईट्पक्षे - चाकरीति।लोटि- चाकरीतु। चाकर्तु। चाकीर्ताम्। चाकिरतु। चाकीर्हि। लङि अचाकरीत्। अचाकः। अचाकीर्ताम्। अचाकरुः। लिङि - चाकीर्यात्। आशिषि तु - चाकीर्यास्ताम्?। लुङि - अचाकारीत्। अचाकारिष्टाम्। एवं तातरीतीत्यादि। अर्तेरिति - भौवादिकजौहोत्यादिकयोग्र्रहणम्। उरदत्वमिति। के#इत्तु `गुणो यङ्लुको रित्यभ्यासस्य गुणमाहुः। फले तु न विशेषः। रिग्रीकोस्त्विति। एवं च अरियर्तीति रूपमुभयोस्तुल्यमिति भावः। आरतीति। रो री`ति लोपे `ढ्रलोपे इति दीर्घः। दीर्घोऽकितः इति दीर्घस्तु न भवति, कित्त्वात्। अरिय्रतीति। परत्वात्पूर्वमियङ्। ततो यण्। रिग्रीकोस्तुल्यमिदम्। मध्यमोत्तमयोस्तु - अरर्षि। अरियर्षि। अररीषि। अरियरीषि। अरृथः अरियृथः। अरर्मि। अरियर्मि। अररीमि। अरियमरीमि। अरृवः। अरियृवः। अरियृमः। लिटि - अररांचकार। रिग्रीकोस्तु - अरियरांचकार। लुटि - अरियृताम्। आरतु। अरिय्रतु। अरृहि। अरियृहि। अरराणि। अरियराणि। अरराव। अरियराव। लङि - आरः। आरियः। आररीत्। आरियरीत्। आरृताम्। आरियृताम्। आररुः। आरियरुः। आरः। आरियः। आररीः। आरियरीः। आरृतम्। आरियृतम्। आरृत्। आरियृत। आररम्। आरियरम्। आरृव। आरियृव। विधिलिङि - अरृयात्। अरियृयात् अरृयाताम्। अरियृयाताम्। अरृत्युः। लिङीति। आशीर्लिङीत्यर्थः। अरिय्रियादिति। रिग्रीकोः - अरियृ इति स्थिते लिङि रिङ्। बहिरङ्गत्वेन रिङोऽसिद्धत्वाद्यलोपो न भवति, अचः परस्मिन्नि`ति स्थानिवत्त्वाच्च। न च `न पदान्ते`ति निषेधः शङ्क्यः, स्वरदीर्घयलोपेषु लोपरूपाऽजादेश एव न स्थानिवदित्युक्तत्वात्। न च अकृतव्यूहपरिभाषया इयङ्नेति शङ्क्यं,रिङः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः। अतएव अरिय्रतीत्यपि सिद्धम्। तत्रापियणः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः। अतएव अरिय्रतीत्यपि सिद्धम्। तत्रापि यणः स्थानिवत्त्वेन निमित्तविनासाऽभावादुक्तपरिभाषाया अप्रवृत्तेरियङो निर्बातत्वात्। क्वचित्तु मूलपुस्तेषु परत्वान्नित्यत्वाच्च पूर्वं रिङि कृते इयङोऽप्रवृत्तिरित्याशयेन - `अरिरियात् अरीरिया`दिति पठ�ते, तदापाततः। अरिय्रतीति रूपाऽसिद्ध्या पूर्वोत्तरग्रन्थयोर्विरोधापत्तेः। लुङि आरारीत्। आरियारीत्। लृङि आररिष्यत्। जर्गृहीतीति। `नाभ्यस्तस्याची`ति गुणनिषेधः। मध्यमोत्तमयोस्तु - जर्गृहीषि 3। जर्घर्क्षि 3। ज्गृढः 3। जर्गृहीमि 3। जर्गर्हिऋ 3। जर्गृह्वः 3। जर्गृह्मः 3। जर्गृहतु 3। जर्गृहांचकार 3। जर्गर्हिता। जरिगर्हिता। जरीगर्हिता। इहानुबन्धनिर्देशादूदिल्लक्षण इड्विकल्पो नाजर्गृहीतु। जर्गर्ढु। जर्गृढाम् 3। जर्गृहतु 3। जर्गृढि 3। मिपि जर्गृहाणि 3। लुङि अजर्गृहीत् 3। ईडभावे - `एकाच इति भष्भावः। अजर्घर्ट् 3। यद्यपि इह यत्रैकाज्ग्रहणं चे`ति निषेधाद्भष्भावो दुर्लभस्तथापि `गुणो यङ्लुको ` रित्यनेन `श्तिपा शपे`त्यादिनिषेधस्याऽनित्यत्वज्ञापनाद्भष्भावोऽत्र प्रवर्तते इत्याहुः। अजर्गृढाम् 3। अजर्गृहुः 3। अजर्घर्टः 3। अजर्घर्ड् 3। अजर्गृढम् 3। अजर्गृढ 3। अजर्गृहम् 3। अजर्गृह्व 3। जर्गृह्यात् 3। अजर्गर्हीत् 3। अजर्गर्हिष्टाम् 3। अजर्गर्हिष्यत् 3। जाग्रहीतीति। ग्रह उपादाने। यङो लुका लुप्तत्वात्तन्निमित्तं `ग्रहिज्ये`ति संप्रसारणमिह नेति भावः। जर्गृढ इति। `उरत्। दीर्घोऽकितः। तत्रैकाच इत्यनुवर्तत इति एकाचो द्वे इत्यस्मिन् सूत्रे हरदत्तेनोक्तत्वादिति भावः। माधवस्त्विति। अयं भावः - ग्रहोऽलिटि इति सूत्रे यङ्लोपे चोक्त`मिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहीतेत्यादिषु ग्रहेर्यङन्तात्तृचस्तासेर्वा य इट् तस्य दीर्घाऽभावे युक्तिद्वयं लभ्यते। पूर्वस्मादपि विधौ स्थानिद्भाव इत्येके। ग्रहेर्विरोत य इट् तस्य दीर्घ इत्यपरे। तत्राद्यः पक्षो भाष्यवार्तिककाररीत्या। ताभ्यां हि `पूर्वत्रासिद्धे न स्थानिव`दित्यवष्टभ्य दीर्घादिग्रहणस्य प्रत्याख्यानात्। त्रैपादिकदीर्घातिरिक्तदीर्गेऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचत्वात्। द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ स्थानिवद्भावस्य वक्तुमशक्यत्वात्। एवं च यङ्लुकि दीर्घप्रवृत्तौ न किंचिद्बाधकम्, यङ्लुकोऽनैमित्तिकत्वात्, अज्झलादेशत्वाच्च स्तानिवद्भावाऽयोगात्। `द्विः प्रयोगो द्विर्वचनं षाष्ठ`मिति सिद्धान्ताद्यङ्लुगन्ताद्गृह्णातेर्विहितस्य ग्रहेर्विहितत्वाऽनपायाच्च। तद्भाष्यादिविरुद्धमिति। आदिशब्देन कैयटहरदत्तौ गृह्येते। विरोधाश्चात्र मनोरमायामुपपादितः। तथा हि - `एकाचो द्वे प्रथमस्ये`ति सूत्रे `ग्रहेरङ्गा`दिति भाष्यामुपादाय कैयट आह - `तृचो हि `जरीगृहि`त्यङ्गं, न तु ग्रहिः, विशेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयण`मिति। यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं, तथापि युक्तसाम्याद्यङ्लुगन्तेऽपि न दीर्घ इति लक्ष्यते। एकाज्ग्रहणमनुवर्तयन् हरदत्तोऽप्यत्रानुकूलः। न ह्यस्मिन्पक्षे यङ्लुकि दीर्घस्य प्रसक्तिरस्ति। एवं च पूर्वस्मादपि विधौ स्थानिवद्भाव इति ग्रहेर्विहितस्य य इट् तस्य `ग्र`हिति यथाश्रुतरूपाश्रयणे `गृहीत इत्यादाविटो दीर्घो न स्यादिति वाच्यम्, अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव सत्त्वात्। ग्राहित`मित्यादौ तु नैवम्। `एकाच इति समाधानं तु णिज्भिन्नविषयकमेव, निष्ठायां सेटी`ति णिलोपे ग्राहितमित्यादावेकाच्त्वानपायात्। तदित्थं - `यङ्लुगन्ताण्णिजन्ताच्च यङन्ताच्च ग्रहेरिटः। द्विधा त्रिधा चतुर्धा च दीर्घप्राप्तिः समाहिता। अस्यार्थः - यङ्लुगन्तार्द्दीर्घे प्राप्ते समाधानद्वयम्। ग्रहेरङ्गादिति व्याख्यानमेकाच इत्यनुवृत्तिश्चेति। णिजन्तात्तु ग्रहिस्वरूपाऽभावः, विहितविशेषणं, स्थानिवद्भावश्चेति समाधानत्रयम्। यङन्तात्समाधानचतुष्टयम्, `एकाचः`इत्यनुवृत्तिः, पूर्वोक्तसमाधानत्रयं चेति। अजर्घा इति। गृधु अभिकाङ्क्षायाम्। इह अपदान्तस्यापि रेफस्य `रो री`ति लोपो भवत्येव, तत्र मण्डूकप्लुत्या पदस्येत्यनुवर्तनात्। पाप्रष्टीति। प्रच्छ ज्ञीप्सायाम्। `व्रश्चे`ति षः। पाप्रच्छिता। पाप्रच्छिष्यति। प्रापष्टु। पाप्रष्टात्। पाप्रष्टाम्। पाप्रच्छतु। पाप्रड्ढि। पाप्रच्छानि। अपाप्रच्छीत्। अपाप्रट्। अपाप्रष्टाम्। अपाप्रच्छुः। अपाप्रच्छीः। अपाप्रट्। अपाप्रष्टाम्। अपाप्रष्ट। अपाप्रच्छम्। अपाप्रच्छ्व। अपाप्रश्म। भाष्ये ध्वनितमिति। `च्छोः शू`डिति सूत्रे भाष्ये क्ङिद्ग्रहणे `च्छः षत्वं वक्तव्य`मिति। अननुवर्तमाने त्वनेन छः शत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये व्रश्चादिसूत्रे छग्रहणं न कर्तव्यमिति भावः। एवं हि वदता भाष्यकृता ऊठ् भाविभ्यो यङ्लुङ्नास्तीत्युक्तप्रायम्। अन्यथा दिवेर्यङ्लुकि ईडभावपक्षे देदेति देदेषि इत्यादौ भावाऽभावाभ्यां महान् विशेषः स्यात्। तत्र क्ङिद्ग्रहणाननुवृत्तावूठः प्रवृत्त्या देद्योति देद्योषीत्यादिरूपविशेषलाभात्। ततश्चैतावानेवेत्यवकारो विरुध्येत। रिउआविमव्योस्त्विति। रिउआवु गतिशोषणयोः। मव बन्धने। जाहामीति। ईट्पक्षे जाहयीमि। लोटि जाहयीतु। जाहुत। जाहतात्। जाहताम्। जाहयतु। जाहहि। जाहतात्। जाहयानि। जाहयाव। जाहयाम। लङि - अजाहयीत्। अजाहत्। अजाहताम्। अजाहयुः। अजाहयीः। अजाहः। अजाहतम्। अजाहत।अजाहयम्। अजाहाव। अजाहाम। जाहय्यात्। `ह्म्यन्तक्षणे`ति वृद्धिनिषेधः। अजाहयीत्। अजाहयिष्टाम्। अजाहयिष्यत्। ज्वरत्वर।
Padamanjari¶
किरतिमिति । ऋकारान्तोपलक्षणमेतत् ।’चर्करीतम्’ इति यङ्लुकः पूर्वाचार्यसंज्ञा । पचतीति । लट उपलक्षणम्, तेन चाकर्तीत्यादीनि रूपाणि, किरतेर्यो नयेदित्यर्थः । यद्वा - अत्र यङ्लुकि किरतिं पचतीति यो नयेतुपचतिना तुल्यरूपाणि यो नयेत्, पचतिवद् रुगादिकमकृत्वा नयेदित्यर्थः । प्राप्तिज्ञमिति । रुगादीनां विषयविभागेन या प्राप्तिस्तां जानातीति प्राप्तिज्ञः । प्रारब्ध इति । संग्रहणं संग्रहः, साधुशब्दसंग्रहस्तेन प्रारब्ध इति योग्यतातिशयोद्भावनेनायं स्तूयते । तत्र प्रापतिज्ञमित्यत्र प्राप्तिं व्याचष्टे - तत्रेयं प्राप्तिरिति । तपरकरणसामर्थ्यादिति । अभ्यासविशेषणे तु भूतपूर्वदीर्घनिवृत्यर्थं तपरकरणमिति व्याख्येयम् । न हि मुख्यनिवर्त्यसम्भवे गौणकल्पना न्यान्येति अङ्गविशेषणमृत इत्याश्रित मित्यर्थः ॥
Nyaas¶
लुकीत्येव। चकारेण रीगादयोऽनुकृष्यन्ते। चर्कर्ति इति। डुकृञ्? करणे (धातुपाठः-1472) जर्हति इति। ह्मञ्? हरणे (धातुपाठः-899)। किरतेश्चाकर्ति इति। कृ? विक्षेपे (धातुपाठः-1409), इत्यस्य। किरतिम् इत्यादि। किरतिग्रहणमुपलक्षणार्थम्। तेन गृ निगरणे (धातुपाठः-1410) इत्येवमादेरपि ऋकारान्तस्य ग्रहणं वेदितव्यम्। चर्करीतान्तम् इति। यङ्लुगन्तमित्यर्थः। यङ्लुक एव पूर्वाचार्यप्रणीतैषा संज्ञा चर्करीतम्। इति। `पचति इति। लट्प्रथमपुरुषस्यैकवचनम्। एतदप्युपलक्षणार्थमेव। वचनान्तराणामपि ह्यत्र ग्रहणम्। तेन कृ इत्येवमादिकमृकारान्तं यो लट्प्रथमपुरुषैकवचनादौ नये=चाकर्तीत्येवमादीनि रूपाणि प्रापयेत्, सम्पादयेदितय्रथः। प्राप्तिज्ञं तमहं मन्ये इति। प्राप्त जानातीति प्राप्तिज्ञः। इह तु रुगादीनां प्रकृतत्वात्? तत्प्राप्त यो जानाति स प्राप्तिज्ञो वेदितव्यः। मन्यं=अवगच्छा। प्रारब्धस्तेन संग्रहणः इति। अनेन प्राप्तितायां हेतुमाह। सम्यग्गृह्रते ज्ञापये लक्षणमनेनेति संग्रहः=व्याकरणशास्त्रम्। प्रकर्षेणारब्धः प्रारब्धः; बहुभ्यो बहुशः श्रवणात्। का पुनरसां प्राप्तिर्यत्परिज्ञानाय प्राप्तिज्ञमवगच्छामीत्याह - तत्रेयम् इत्यादि। द्वयमिह प्रकृतम् - अङ्गम्? अभ्यासश्चेति। ऋत इति विशेषणमुपात्तम्; तत्र यद्यप्युमयं प्रकृतं तथाप्यृत इत्येतदङ्गस्यैव विशेषणम्, नाभ्यासस्य। कुतः? तपरकरणसामर्थ्यात्। सर्वत्रैव ह्रभ्यासस्य ह्रस्वः (7.4.59) इति ह्रस्वत्वेन भवितव्यम्; अतो दीर्घस्याम्यासस्याभावात्। यदि ऋतः इत्येदभ्यासस्य विशेषणं स्यात्, तदा तपरकरणमनर्थकं स्यात्। तस्मात्? तपरकरणसामर्थ्यादङ्गस्यैव विशेषणमृत इत्येतत्, नाभ्यासस्य। एवञ्च सति किरतेरप्राप्तिः; रुगादीनां तपरकरणेन व्यावर्त्तितत्वात्। आदिशब्देन रिगादीनां परिग्रहः। तथा चाप्राप्तिः किरते रुगादीनाम् इति ब्राउवर्ततदुक्तं भवति - करोतिप्रभृतीनामेव ह्रस्वान्तानां परिशेष्यात्? प्राप्तिरिति॥
Prakriyasarvasvam¶
ऋदन्तस्याङ्गस्यापि यङ्लुक्यभ्यासस्य रुग्रिकौ रीक् च स्युः । चर्करीति, चरिकरीति, चरीकरीति; चर्कर्ति, चरिकर्ति, चरीकर्ति । चर्कृतः । चर्कृति । ²रिक् रीक् चोह्यः । ‘ऋतश्च’ इति तपरत्वाद् दन्तस्य रुगादि न । कृ ‘उरत्’ (७-४-६६) । गुणः । चाकरीति । ‘ऋत इत्-’ (७-१-१००) । दीर्घः । चाकीर्तः । चाकिरति । ग्रहेः ग्रहिज्या-’ (६-१-१६) दिना प्रसारणे स्वपिवद् द्वौ पक्षौ । जर्गृहीति, जरिगृहीति जरीगृहीति । ईडभावे लघूपधगुणः । ढत्वधत्वष्टुत्वढलोपाः । जर्गर्ढि, जरिगर्ढि, जरीगर्ढि । जर्गृढः । जर्गृहति । रिग्रीकावूह्यौ । माधवमते जाग्रहीति । ढत्वधत्वष्टुत्वढलोपदीर्घाः । जाग्राढि । द्वित्वे कृत एव तिङिति जाग्रह् तस् । तसादेर्ङित्त्वाद् धात्वंशस्य प्रसारणम् । ढत्वादिर, दीर्घवर्जम् । जागृढः । जागृहति इत्यादि । गृधु अभिकाङ्क्षायाम् । जर्गृधीति, जर्गृद्धि । लङि-हल्ङ्यादिलोपः । जश्त्वचर्त्वे । अजर्घत्, अजर्घद् । अजर्गृद्धाम् । अजर्गृधुः । जश्त्वे अजर्घद् इति जाते ‘दश्च’ (८-२-७५) इति वा रुः । ‘रो रि’ (८-३-१४) इति पूर्वरफलोपः । ‘ढ्रलोपे—’ (६-३-१११) इति दीर्घः । अजर्घाः । जश्त्वाभावे चत्वंम् । अजघंत् । इत्यादि । कर्मव्यतीहारे तु आत्मनेपदम् । व्यतिबोभूते, व्यतिबोभुवाते । व्यतिबोभुवते । प्रकृतिग्रहणन्यायाद् ‘नेर्विशः’ (१-३-१७) इत्यादिर्विहितोऽपि तङ्ग यङ्लुगन्ते स्यात् । निवेविस्टे निवेविशाते । परिचेक्रीते । विजेजिते । ‘ई हल्यघोः’ (६-४-११३) इत्यत्र अघोरित्युक्तेरीत्वाभावात् ‘श्नाभ्यस्तयोः-‘(६-४ इत्याल्लोपः । आदात्ते । सञ्चेक्रीट्टटे । सन्तेष्ठीते । उत्तातप्ते । इत्यादि । मार्ग क्वचित्” “बोभुजत्यतिथयः” इति ‘भुजोऽनवने’ (१-३-६ तङ्प्राप्तिश्चिन्त्या¹ ॥ <karika>नित्यं स्याम युषं युषानिह कथाः श्रोतुं युषाभिश्च नः संवादोऽस्तु नमो युषभ्यमनिशं कोऽन्यो हि धन्यो युषत् । दुःसाधं न युषाकमस्ति युष वै मर्त्यस्य मुक्तिः करे युष्या तुष्यति सज्जनेन भुवनं हे कृष्णलीलाक्रमाः २ ॥</karika> अथ सुब्धातवः ।