74091: रुग्रिकौ च लुकि¶
Padacheda: रुग्रिकौ | S | 1 | 2 |
च | S | 0 | 0 |
लुकि | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The augments come after the reduplicate of a root which has ऋ at the penultimate position, only when the यङ् of the Intensive is elided.
Vasu English Translation¶
The augments come after the reduplicate of a root which has ऋ at the penultimate position, only when the यङ् of the Intensive is elided. Thus नर्नत्ति, नरिनर्ति, and नरीनर्ति; वर्वर्ति, वरिवर्ति, वरीवर्ति ॥ The उ in रुक् is for the sake of pronunciation, the augment is र् ॥
Vart:- मर्मृज्यते and मर्मृज्यमानासः should also be enumerated. These have taken रुक् augment, though the यङ् is not elided here.
Bhashya¶
रुग्रिकौ च लुकि ॥ मर्मृज्यते मर्मृज्यमानास इति चोपसङ्ख्यानम् ॥ मर्मृज्यते मर्मृज्यमानास इति चोपसङ्ख्यानं कर्तव्यम् । मर्मृज्यते मर्मृज्यमानासः ॥
Kashika¶
यङ्लुकि ऋदुपधस्य अङ्गस्य योऽभ्यासस् तस्य रुग्रिकौ आगमौ भवतः, चकाराद् रीक् च। नर्नर्ति, नरिनर्ति, नरीनर्ति। वर्वर्ति, वरिवर्ति, वरीवर्ति। उकारः उच्चारणार्थः। मर्मृज्यमानास इत्युपसङ्ख्यानम्। मर्मृज्यते। मर्मृज्यमानासः।
Siddhanta Kaumudi¶
ऋदुपधस्य धातोरभ्यासस्य रुक् रिक् रीक् एते आगमाः स्युर्यङ्लुकि ॥
Tattvabodhini¶
रुग्रिकौ च लुकि - रुग्रिकौ च । चकारेण रीगृदुपधस्य॑ इत्यतो रीगनुकृष्यते । रुक उकार उच्चारणार्थः ।
Padamanjari¶
मर्मृज्यत इति । लुकि विधीयमानो रुग्यङ् नि प्राप्नोतीति वचनम् ॥
Prakriyasarvasvam¶
ऋदुपदस्याङ्गस्याभ्यासस्य यङ्लुकि रुग्रिकौ रीक् च स्युः । ववृतीति, वरिवृतीति, वरीवृतीति । ईडभावे-वर्वर्ति, वरिवर्ति, वरीवर्ति । वर्वृत्तः । वर्वृतति । रिग्रीकावृह्यौ । ‘मृजेर्वृद्धिः’ (७-२-११४) । मर्मार्ष्टि, मरिमार्ष्टि मरीमार्ष्टि । ईटि ‘नाभ्यस्तस्य—’ (७-३-८७) इत्यवृद्धिः । मर्मृजीति, मरिमृजीति, मरीमृजीति । मर्मृष्टः । मर्मृजति ।