74090: रीगृदुपधस्य च

Padacheda: रीक् | S | 1 | 1 |

ऋदुपधस्य | S | 6 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The reduplicate of a root which has ऋ at the penultimate position, gets the augment री in the Intensive (with expressed or elided यङ्).

Vasu English Translation

The reduplicate of a root which has ऋ at the penultimate position, gets the augment री in the Intensive (with expressed or elided यङ्). As वरीवृत्यते and वरीवृतीति, वरीवृद्ध्यते and वरीवृधीति, नरीनृत्यते and नरीनृतीति ॥

Vart:- It should be rather stated ‘a root which contains a ऋ’: when यङ् follows, whether this ऋ be of upadesa, or obtained by samprasarana, so that the augment may come in वरीवृश्यते and वरीवृश्चीति where the ऋ is of vocalisation, and not penultimate also.

Bhashya

रीगृदुपधस्य च ॥ रीगृत्वतः संयोगार्थम् ॥ रीगृत्वत इति वक्तव्यम् ॥ किं प्रयोजनम् ? ॥ संयोगार्थम् । संयोगान्ताः प्रयोजयन्ति । वरीवृश्च्यते परीपृच्छ्यते वरीभृज्यते ॥ (रीगृदुपधस्य च) ॥

Kashika

ऋदुपधस्य अङ्गस्य योऽभ्यासः तस्य रीगागमो भवति यङ्यङ्लुकोः परतः। वरीवृत्यते। वरीवृतीति। वरीवृध्यते। वरीवृधीति। नरीनृत्यते। नरीनृतीति। रीगृत्वत इति वक्तव्यम्। इह अपि यथा स्यात्, वरीवृश्च्यते। वरीवृश्चीति। परीपृच्छ्यते। परीपृच्छीति।

Siddhanta Kaumudi

ऋदुपधस्य धातोरभ्यासस्य रीगागमः स्याद्यङ्यङ्लुकोः । वरीवृत्यते । क्षुभ्नादित्वान्न णः । नरीनृत्यते । जरीगृह्यते । उभयत्र लत्वम् । चलीकॢप्यते ।<!रीगृत्वत इति वक्तव्यम् !> (वार्तिकम्) ॥ वरीवृश्च्यते । परीपृच्छ्यते ॥

Laghu Siddhanta Kaumudi

ऋदुपधस्य धातोरभ्यासस्य रीगागमो यङ्यङ्लुकोः। वरीवृत्यते। वरीवृताञ्चक्रे। वरीवर्तिता॥

Padamanjari

ऋत्वत इति । येङ् पिरतो य ऋकारवान् तस्यैव ग्रहणम्, न तूपदेशे ऋत्वतः । तेन परीपृच्छयत इत्यादौ सम्प्रसारणे कृतेऽपि भवति ॥

Nyaas

वरीवृत्यते इत्यादीनि वृतिवृधिनृतीनां (धातुपाठः-758,759।1116) रूपाणि। रीगृत्वत इति वक्तव्यम् इति। ऋदुपधादन्यस्यापि ऋत्वतो रीगादयो यथा स्युरित्येवमर्थो व्याख्येय इत्यर्थः। तत्रेदं व्याख्यानम् - चकारोऽत्र क्रियते, स च ऋदुपधादन्यस्यापि ऋत्वतः समुच्चयार्थः, तेन वृश्चतिप्रभृतीनामपि ऋत्वतां रीगादयो भवन्तीति। रीगृत्वतः इति सूत्रं न कृतम्; वैचित्र्याथम्। ऋदुपधस्य इति तपरकरणमसन्देहार्थम्। उकारे परतो यणादेशे कृते सन्देहः स्यात् - किमृकारोपधस्य? अथ वा रेफोपधस्येति॥

Prakriyasarvasvam

ऋदुपधस्याङ्गस्य यङ्यङ्लुकोरभ्यासस्य रीक् स्यात् । वरीवृत्यते । नृतेर्यङीति क्षुम्नादिपाठान्न णत्वम् । नरीनृत्यते । ग्रहेर्यङि प्रसारणम् । जरीगृह्यते । ‘कृपो रो लः’ (८-२-१८) इत्युभयत्र लत्वम् । चलीक्लृप्यते । ‘रीगृतवत इति वाच्यम् (वा०) । तेनानुपधात्वेऽपि स्यात् । ग्रहिवत् प्रसारणम् । वरीवृश्च्यते । परीपृच्छ्यते । ऋदन्तानां तु यङ्लुक्येवाभ्यासवैचित्र्यम् । यङि तु ‘रीङ्गतः’ (७-४-२७) इति रीङ् । द्वित्वम् । अभ्यासगुणः । कृञ् चेक्रियते । सेखीयते । संयोगादृदन्तानां तु ‘यङि च’ (७-४-३०) इति गुणः । सास्मर्यते । सुटो धात्वंशत्वाभावान्न गुणः रीङ् । सञ्चेस्क्रीयते । ऋदन्तानां तु ऋत इत्वे द्वित्वम् । तेतीर्यते । कॄ - चेकीर्यते ।

Sudha

रीगृदुपधस्येतिअभ्यासस्येति । अत्र लोपः इत्यतस्तदनुवृत्तेरिति भावः । यङ्लुकोरिति । गुणो यङ्लुकोः (7.4.82) इत्यतो यङ्लुकोः इत्यनुवर्तत इति भावः । “व्रीवृत्यते” वृत्धातोर्यङि द्वित्वे अभ्यासंज्ञायाम् उरत्**(7.4.66) इत्यभ्यासस्य अत्वे **उरण् रपरः (1.1.51) इति रपरे हलादिः शेषः (7.4.60) इत्यादिहलोऽवशिष्टे रीगृदुपधस्य च (7.4.90) इति अभ्यासस्य रीगागमे “वरीवृत्य” इत्यस्य सनाद्यन्ता धातवः (3.1.32) इति धातुत्वाल्लटस्ते शपि अनुबन्धलोपे अतो गुणे (6.1.97) इति पररूपे टेरेत्वे च कृते “वरीवृत्यते” इति रूपम् । पुनः पुनः वर्तते इति हि तस्यार्थः । “वरीवृताञ्चक्रे ।” वृत् धातोः धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (3.1.22) इति यङि, अनुबन्धलोपे सन्यङो (6.1.9) इति द्वित्वे पूर्वोऽभ्यासः (6.1.4) इति अभ्याससज्ञायाम् उरत् (7.4.66) इति अभ्यासस्य अकारे उरण् रपरः (1.1.51) इति रपरे हलादिः शेषः (7.4.60) इत्यादिहलः शेषे “व वृत् य” इति जाते रीगृदुपधस्य च (7.4.90) इति अभ्यासस्य रीगागमे अनुबन्धलोपे, “वरीवृत्य” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायां परोक्षे लिट् (3.2.115) इति लिटि, कास्यनेकाच आम् वक्तव्यः (वार्त्तिकम् (3.1.35)) इति आमि, यस्य हलः (6.4.49) इति यलोपे अतो लोपः (6.4.48) इति अकारस्य लोपे “वरीवृताम् लिट्” इति जाते आमः (2.4.81) इति लिटो लुकि, कृञ्चानुप्रयुज्यते लिटि (3.1.40) इति लिट्परके कृञि अनुप्रयुक्ते, लिटो लः स्थाने ते, तस्य एशि कृते द्वित्वे, अभ्यासत्वे, अभ्यासकार्ये च कृते, यणि, आमो मस्यानुस्वारे परसवर्णे चकृते “वरीवृताञ्चक्रे” इति रूपम् । “वरीवृताञ्चक्राते”, “वरीवृताञ्चक्रिरे” । “वरीवृताञ्चकृषे”, “वरीवृताञ्चक्राथे”, “वरीवृताञ्चकृढ्वे” । “वरीवृताञ्चक्रे”, “वरीवृताञ्चकृवहे”, “वरीवृताञ्चकृमहे” । “वरीवृतिता” । वृत्-धातोर्यङि, द्वित्वेऽभ्यासत्वे अभ्यासकार्ये च जाते, रीगृदुपधस्य च (7.4.90) इति धातोरभ्यासस्य रीगागामे “वरीवृत्य” इति जाते सनाद्यन्ता धातवः (3.1.32) इति धातुसंज्ञायाम् लुटि, लुटो लः स्थाने तिपि तासि तिपो डादेशे, यस्य हलः (6.4.49) इति यमात्रस्य लोपे अतो लोपः (6.4.48) इत्यकारस्य लोपे, “वरीवृत् तास् डा” इति जाते डकारे गते डित्वाट्टिलोपे, तास ईडागमे, “वरीवृतिता” इति रूपम् । “वरीवृतितारौ”, “वरीवृतितारः” । “वरीवृतितासे”, “वरीवृतितासाथे”, “वरीवृतिताध्वे” । “वरीवृतिताहे”, “वरीवृतितास्वहे”, “वरीवृतितास्महे” । लृटि — “वरीवृतिष्यते” । लोटि — “वरीवृत्यताम्” । लङि — “अवरीवृत्यत” । लिङि — “वरीवृत्येत” । आशिषि — “वरीवृतिषीष्ट” । लुङि — “अवरीवृतिष्ट” । लृङि — “अवरीवृतिष्यत” । इति ।

Vartika

रीगृत्वत इति वक्तव्यम् ।