74089: ति च¶
Padacheda: ति | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
उ is substituted for the vowel of चर् and फल् before an affix beginning with त्।
Vasu English Translation¶
उ is substituted for the vowel of चर् and फल् before an affix beginning with त्। Thus चूर्तिः (= चरणं or ब्रह्मणः), प्रफुल्तिः and प्रफुल्ताः ॥ The anuvritti of यङ् लुकोरभ्यासस्य does not apply here, though present. See (8.2.55).
Kashika¶
तकारादौ प्रत्यये परतः चरफलोः अकारस्य उकारादेशो भवति चरणं चूर्तिः। ब्रह्मणः चूर्तिः। प्रफुल्तिः। प्रफुल्ताः सुमनसः। यङ्यङ्लुकोः, अभ्यासस्य इति च अनुवर्तमानमपि वचनसामर्थ्यादिह न अभिसम्बध्यते।
Siddhanta Kaumudi¶
चरफलोपत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् । उत्फुल्लसंफुल्लयोरुपसंख्यानम् ॥
Tattvabodhini¶
ऋतश्च - ऋतश्च । ऋताऽनुवर्तमानमङ्गं विशेष्यते । ऋदन्तस्याङ्गस्य योऽभ्यासस्तस्येत्यर्थः ।ऋदन्ताद्धातो॑रिति पाठस्तु फलितार्थकथनपरतया नेयः । लोटि — वर्वृतीतु । ३ वर्वतु ३ । वर्वृतात् । वर्वृताम् ३ । वर्वृततु ३ । वर्वृद्धि ३ । अङ्नेति ।पुषादिद्युतादी॑त्यनेन । चर्करीतीति । डुकृञ् करणे । चर्कृयादति । सार्वधातुकत्वात्अकृत्सार्वे॑ तिन दीर्घः । लुङिसिचि वृद्धि॑रिति वृद्धिः । अचर्कारीत् ३ । अचर्कारिष्टाम् ३ । अचर्कारिषु३ । अचर्कारीः ३ । चाकर्तीति । ईट्पक्षे — चाकरीति.लोटि- चाकरीतु । चाकर्तु । चाकीर्ताम् । चाकिरतु । चाकीर्हि । लङि अचाकरीत् । अचाकः । अचाकीर्ताम् । अचाकरुः । लिङि — चाकीर्यात् । आशिषि तु - चाकीर्यास्ताम् । लुङि — अचाकारीत् । अचाकारिष्टाम् । एवं तातरीतीत्यादि । अर्तेरिति - भौवादिकजौहोत्यादिकयोग्र्रहणम् । उरदत्वमिति । के#इत्तुगुणो यङ्लुको॑ रित्यभ्यासस्य गुणमाहुः । फले तु न विशेषः । रिग्रीकोस्त्विति । एवं च अरियर्तीति रूपमुभयोस्तुल्यमिति भावः । आरतीति ।रो री॑ति लोपेढ्रलोपे॑ इति दीर्घः ।दीर्घोऽकितः॑ इति दीर्घस्तु न भवति, कित्त्वात् । अरिय्रतीति । परत्वात्पूर्वमियङ् । ततो यण् । रिग्रीकोस्तुल्यमिदम् । मध्यमोत्तमयोस्तु — अरर्षि । अरियर्षि । अररीषि । अरियरीषि । अरृथः अरियृथः । अरर्मि । अरियर्मि । अररीमि । अरियमरीमि । अरृवः । अरियृवः । अरियृमः । लिटि — अररांचकार । रिग्रीकोस्तु — अरियरांचकार । लुटि — अरियृताम् । आरतु । अरिय्रतु । अरृहि । अरियृहि । अरराणि । अरियराणि । अरराव । अरियराव । लङि — आरः । आरियः । आररीत् । आरियरीत् । आरृताम् । आरियृताम् । आररुः । आरियरुः । आरः । आरियः । आररीः । आरियरीः । आरृतम् । आरियृतम् । आरृत् । आरियृत । आररम् । आरियरम् । आरृव । आरियृव । विधिलिङि — अरृयात् । अरियृयात् अरृयाताम् । अरियृयाताम् । अरृत्युः । लिङीति । आशीर्लिङीत्यर्थः । अरिय्रियादिति । रिग्रीकोः — अरियृ इति स्थिते लिङि रिङ् । बहिरङ्गत्वेन रिङोऽसिद्धत्वाद्यलोपो न भवति,अचः परस्मिन्नि॑ति स्थानिवत्त्वाच्च । न चन पदान्ते॑ति निषेधः शङ्क्यः, स्वरदीर्घयलोपेषु लोपरूपाऽजादेश एव न स्थानिवदित्युक्तत्वात् । न च अकृतव्यूहपरिभाषया इयङ्नेति शङ्क्यं,रिङः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः । अतएव अरिय्रतीत्यपि सिद्धम् । तत्रापियणः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः । अतएव अरिय्रतीत्यपि सिद्धम् । तत्रापि यणः स्थानिवत्त्वेन निमित्तविनासाऽभावादुक्तपरिभाषाया अप्रवृत्तेरियङो निर्बातत्वात् । क्वचित्तु मूलपुस्तेषु परत्वान्नित्यत्वाच्च पूर्वं रिङि कृते इयङोऽप्रवृत्तिरित्याशयेन — अरिरियात् अरीरिया॑दिति पठते, तदापाततः । अरिय्रतीति रूपाऽसिद्ध्या पूर्वोत्तरग्रन्थयोर्विरोधापत्तेः । लुङि आरारीत् । आरियारीत् । लृङि आररिष्यत् । जर्गृहीतीति ।नाभ्यस्तस्याची॑ति गुणनिषेधः । मध्यमोत्तमयोस्तु — जर्गृहीषि ३ । जर्घर्क्षि ३ । ज्गृढः ३ । जर्गृहीमि ३ । जर्गर्हिऋ ३ । जर्गृह्वः ३ । जर्गृह्मः ३ । जर्गृहतु ३ । जर्गृहांचकार ३ । जर्गर्हिता । जरिगर्हिता । जरीगर्हिता । इहानुबन्धनिर्देशादूदिल्लक्षण इड्विकल्पो नाजर्गृहीतु । जर्गर्ढु । जर्गृढाम् ३ । जर्गृहतु ३ । जर्गृढि ३ । मिपि जर्गृहाणि ३ । लुङि अजर्गृहीत् ३ । ईडभावे — एकाच॑ इति भष्भावः । अजर्घर्ट् ३ । यद्यपि इहयत्रैकाज्ग्रहणं चे॑ति निषेधाद्भष्भावो दुर्लभस्तथापिगुणो यङ्लुको ॑ रित्यनेनश्तिपा शपे॑त्यादिनिषेधस्याऽनित्यत्वज्ञापनाद्भष्भावोऽत्र प्रवर्तते इत्याहुः । अजर्गृढाम् ३ । अजर्गृहुः ३ । अजर्घर्टः ३ । अजर्घर्ड् ३ । अजर्गृढम् ३ । अजर्गृढ ३ । अजर्गृहम् ३ । अजर्गृह्व ३ । जर्गृह्रात् ३ । अजर्गर्हीत् ३ । अजर्गर्हिष्टाम् ३ । अजर्गर्हिष्यत् ३ । जाग्रहीतीति । ग्रह उपादाने । यङो लुका लुप्तत्वात्तन्निमित्तंग्रहिज्ये॑ति संप्रसारणमिह नेति भावः । जर्गृढ इति ।उरत् ।दीर्घोऽकितः॑ । तत्रैकाच इत्यनुवर्तत इतिएकाचो द्वे॑ इत्यस्मिन् सूत्रे हरदत्तेनोक्तत्वादिति भावः । माधवस्त्विति । अयं भावः — ग्रहोऽलिटि॑ इति सूत्रेयङ्लोपे चोक्त॑मिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहीतेत्यादिषु ग्रहेर्यङन्तात्तृचस्तासेर्वा य इट् तस्य दीर्घाऽभावे युक्तिद्वयं लभ्यते । पूर्वस्मादपि विधौ स्थानिद्भाव इत्येके । ग्रहेर्विरोत य इट् तस्य दीर्घ इत्यपरे । तत्राद्यः पक्षो भाष्यवार्तिककाररीत्या । ताभ्यां हिपूर्वत्रासिद्धे न स्थानिव॑दित्यवष्टभ्य दीर्घादिग्रहणस्य प्रत्याख्यानात् । त्रैपादिकदीर्घातिरिक्तदीर्गेऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचत्वात् । द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ स्थानिवद्भावस्य वक्तुमशक्यत्वात् । एवं च यङ्लुकि दीर्घप्रवृत्तौ न किंचिद्बाधकम्, यङ्लुकोऽनैमित्तिकत्वात्, अज्झलादेशत्वाच्च स्तानिवद्भावाऽयोगात् ।द्विः प्रयोगो द्विर्वचनं षाष्ठ॑मिति सिद्धान्ताद्यङ्लुगन्ताद्गृह्णातेर्विहितस्य ग्रहेर्विहितत्वाऽनपायाच्च । तद्भाष्यादिविरुद्धमिति । आदिशब्देन कैयटहरदत्तौ गृह्रेते । विरोधाश्चात्र मनोरमायामुपपादितः । तथा हि — एकाचो द्वे प्रथमस्ये॑ति सूत्रेग्रहेरङ्गा॑दिति भाष्यामुपादाय कैयट आह — तृचो हिजरीगृहि॑त्यङ्गं, न तु ग्रहिः, विशेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयण॑मिति । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं, तथापि युक्तसाम्याद्यङ्लुगन्तेऽपि न दीर्घ इति लक्ष्यते । एकाज्ग्रहणमनुवर्तयन् हरदत्तोऽप्यत्रानुकूलः । न ह्रस्मिन्पक्षे यङ्लुकि दीर्घस्य प्रसक्तिरस्ति । एवं च पूर्वस्मादपि विधौ स्थानिवद्भाव इति ग्रहेर्विहितस्य य इट् तस्यग्र॑हिति यथाश्रुतरूपाश्रयणेगृहीत॑ इत्यादाविटो दीर्घो न स्यादिति वाच्यम्, अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव सत्त्वात् ।ग्राहित॑मित्यादौ तु नैवम् ।एकाच॑ इति समाधानं तु णिज्भिन्नविषयकमेव,निष्ठायां सेटी॑ति णिलोपे ग्राहितमित्यादावेकाच्त्वानपायात् । तदित्थं — यङ्लुगन्ताण्णिजन्ताच्च यङन्ताच्च ग्रहेरिटः । द्विधा त्रिधा चतुर्धा च दीर्घप्राप्तिः समाहिता॑ । अस्यार्थः - यङ्लुगन्तार्द्दीर्घे प्राप्ते समाधानद्वयम् । ग्रहेरङ्गादिति व्याख्यानमेकाच इत्यनुवृत्तिश्चेति । णिजन्तात्तु ग्रहिस्वरूपाऽभावः, विहितविशेषणं, स्थानिवद्भावश्चेति समाधानत्रयम् । यङन्तात्समाधानचतुष्टयम्,एकाचः॑इत्यनुवृत्तिः, पूर्वोक्तसमाधानत्रयं चेति । अजर्घा इति । गृधु अभिकाङ्क्षायाम् । इह अपदान्तस्यापि रेफस्यरो री॑ति लोपो भवत्येव, तत्र मण्डूकप्लुत्या पदस्येत्यनुवर्तनात् । पाप्रष्टीति । प्रच्छ ज्ञीप्सायाम् ।व्रश्चे॑ति षः । पाप्रच्छिता । पाप्रच्छिष्यति । प्रापष्टु । पाप्रष्टात् । पाप्रष्टाम् । पाप्रच्छतु । पाप्रड्ढि । पाप्रच्छानि । अपाप्रच्छीत् । अपाप्रट् । अपाप्रष्टाम् । अपाप्रच्छुः । अपाप्रच्छीः । अपाप्रट् । अपाप्रष्टाम् । अपाप्रष्ट । अपाप्रच्छम् । अपाप्रच्छ्व । अपाप्रश्म । भाष्ये ध्वनितमिति ।च्छोः शू॑डिति सूत्रे भाष्ये क्ङिद्ग्रहणेच्छः षत्वं वक्तव्य॑मिति । अननुवर्तमाने त्वनेन छः शत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये व्रश्चादिसूत्रे छग्रहणं न कर्तव्यमिति भावः । एवं हि वदता भाष्यकृता ऊठ् भाविभ्यो यङ्लुङ्नास्तीत्युक्तप्रायम् । अन्यथा दिवेर्यङ्लुकि ईडभावपक्षे देदेति देदेषि इत्यादौ भावाऽभावाभ्यां महान् विशेषः स्यात् । तत्र क्ङिद्ग्रहणाननुवृत्तावूठः प्रवृत्त्या देद्योति देद्योषीत्यादिरूपविशेषलाभात् । ततश्चैतावानेवेत्यवकारो विरुध्येत । रिउआविमव्योस्त्विति । रिउआवु गतिशोषणयोः । मव बन्धने । जाहामीति । ईट्पक्षे जाहयीमि । लोटि जाहयीतु । जाहुत । जाहतात् । जाहताम् । जाहयतु । जाहहि । जाहतात् । जाहयानि । जाहयाव । जाहयाम । लङि — अजाहयीत् । अजाहत् । अजाहताम् । अजाहयुः । अजाहयीः । अजाहः । अजाहतम् । अजाहत ।अजाहयम् । अजाहाव । अजाहाम । जाहय्यात् ।ह्म्यन्तक्षणे॑ति वृद्धिनिषेधः । अजाहयीत् । अजाहयिष्टाम् । अजाहयिष्यत् । ज्वरत्वर ।
Padamanjari¶
वचनसामर्थ्यादिति । यङ्लुकि पूर्वेणैव सिद्धत्वात् ॥
Nyaas¶
अयङलुगर्थोऽयमारम्भः। चूर्त्तिः इति। स्त्रियां क्तिन् (3.3.94) पूर्ववद्दीर्घः। प्रकृल्ताः इति। निष्ठा, तदन्ताट्टाप्; जस्। `वचनसामर्थ्यादिह नाभिसम्बध्यते इति। यदीह यङ्लुग्ग्रहणमभ्यासग्रहणञ्चाभिसम्बध्येत, ततो वचनस्य वैयथ्र्यं स्यात्। पूर्वेणैव यङयङ्लुकोरभ्यासस्य सिद्धत्वादित्यभिप्रायः॥
Prakriyasarvasvam¶
तकारादौ परे चरफलोरत उत् स्यात् । प्रफुल्लः । तृजादौ सेट्त्वादुत्वं न । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । ‘उत्फुल्लसंफुल्लयोरुपसंख्यानम् । (वा० ८-२-५५) परिकृशश्चेष्यते । ‘फुल्लविकसन’ इत्यस्य पचाद्यचि प्रफुल्लाद्यपि स्यात् ।