74089: ति च =========== **Padacheda:** ति | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- उ is substituted for the vowel of चर् and फल् before an affix beginning with त्। Vasu English Translation ------------------------ उ is substituted for the vowel of चर् and फल् before an affix beginning with त्। Thus चूर्तिः (= चरणं or ब्रह्मणः), प्रफुल्तिः and प्रफुल्ताः ॥ The *anuvritti* of यङ् लुकोरभ्यासस्य does not apply here, though present. See (8.2.55). Kashika ------- तकारादौ प्रत्यये परतः चरफलोः अकारस्य उकारादेशो भवति चरणं चूर्तिः। ब्रह्मणः चूर्तिः। प्रफुल्तिः। प्रफुल्ताः सुमनसः। यङ्यङ्लुकोः, अभ्यासस्य इति च अनुवर्तमानमपि वचनसामर्थ्यादिह न अभिसम्बध्यते। Siddhanta Kaumudi ----------------- चरफलोपत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् । उत्फुल्लसंफुल्लयोरुपसंख्यानम् ॥ Tattvabodhini ------------- **ऋतश्च** - ऋतश्च । ऋताऽनुवर्तमानमङ्गं विशेष्यते । ऋदन्तस्याङ्गस्य योऽभ्यासस्तस्येत्यर्थः ।ऋदन्ताद्धातो॑रिति पाठस्तु फलितार्थकथनपरतया नेयः । लोटि — वर्वृतीतु । ३ वर्वतु ३ । वर्वृतात् । वर्वृताम् ३ । वर्वृततु ३ । वर्वृद्धि ३ । अङ्नेति ।पुषादिद्युतादी॑त्यनेन । चर्करीतीति । डुकृञ् करणे । चर्कृयादति । सार्वधातुकत्वात्अकृत्सार्वे॑ तिन दीर्घः । लुङिसिचि वृद्धि॑रिति वृद्धिः । अचर्कारीत् ३ । अचर्कारिष्टाम् ३ । अचर्कारिषु३ । अचर्कारीः ३ । चाकर्तीति । ईट्पक्षे — चाकरीति.लोटि- चाकरीतु । चाकर्तु । चाकीर्ताम् । चाकिरतु । चाकीर्हि । लङि अचाकरीत् । अचाकः । अचाकीर्ताम् । अचाकरुः । लिङि — चाकीर्यात् । आशिषि तु - चाकीर्यास्ताम् । लुङि — अचाकारीत् । अचाकारिष्टाम् । एवं तातरीतीत्यादि । अर्तेरिति - भौवादिकजौहोत्यादिकयोग्र्रहणम् । उरदत्वमिति । के#इत्तुगुणो यङ्लुको॑ रित्यभ्यासस्य गुणमाहुः । फले तु न विशेषः । रिग्रीकोस्त्विति । एवं च अरियर्तीति रूपमुभयोस्तुल्यमिति भावः । आरतीति ।रो री॑ति लोपेढ्रलोपे॑ इति दीर्घः ।दीर्घोऽकितः॑ इति दीर्घस्तु न भवति, कित्त्वात् । अरिय्रतीति । परत्वात्पूर्वमियङ् । ततो यण् । रिग्रीकोस्तुल्यमिदम् । मध्यमोत्तमयोस्तु — अरर्षि । अरियर्षि । अररीषि । अरियरीषि । अरृथः अरियृथः । अरर्मि । अरियर्मि । अररीमि । अरियमरीमि । अरृवः । अरियृवः । अरियृमः । लिटि — अररांचकार । रिग्रीकोस्तु — अरियरांचकार । लुटि — अरियृताम् । आरतु । अरिय्रतु । अरृहि । अरियृहि । अरराणि । अरियराणि । अरराव । अरियराव । लङि — आरः । आरियः । आररीत् । आरियरीत् । आरृताम् । आरियृताम् । आररुः । आरियरुः । आरः । आरियः । आररीः । आरियरीः । आरृतम् । आरियृतम् । आरृत् । आरियृत । आररम् । आरियरम् । आरृव । आरियृव । विधिलिङि — अरृयात् । अरियृयात् अरृयाताम् । अरियृयाताम् । अरृत्युः । लिङीति । आशीर्लिङीत्यर्थः । अरिय्रियादिति । रिग्रीकोः — अरियृ इति स्थिते लिङि रिङ् । बहिरङ्गत्वेन रिङोऽसिद्धत्वाद्यलोपो न भवति,अचः परस्मिन्नि॑ति स्थानिवत्त्वाच्च । न चन पदान्ते॑ति निषेधः शङ्क्यः, स्वरदीर्घयलोपेषु लोपरूपाऽजादेश एव न स्थानिवदित्युक्तत्वात् । न च अकृतव्यूहपरिभाषया इयङ्नेति शङ्क्यं,रिङः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः । अतएव अरिय्रतीत्यपि सिद्धम् । तत्रापियणः स्थानिवत्त्वेन निमित्तविनाशाऽभावादुक्तपरिभाषाया अप्रवृत्तेः । अतएव अरिय्रतीत्यपि सिद्धम् । तत्रापि यणः स्थानिवत्त्वेन निमित्तविनासाऽभावादुक्तपरिभाषाया अप्रवृत्तेरियङो निर्बातत्वात् । क्वचित्तु मूलपुस्तेषु परत्वान्नित्यत्वाच्च पूर्वं रिङि कृते इयङोऽप्रवृत्तिरित्याशयेन — अरिरियात् अरीरिया॑दिति पठते, तदापाततः । अरिय्रतीति रूपाऽसिद्ध्या पूर्वोत्तरग्रन्थयोर्विरोधापत्तेः । लुङि आरारीत् । आरियारीत् । लृङि आररिष्यत् । जर्गृहीतीति ।नाभ्यस्तस्याची॑ति गुणनिषेधः । मध्यमोत्तमयोस्तु — जर्गृहीषि ३ । जर्घर्क्षि ३ । ज्गृढः ३ । जर्गृहीमि ३ । जर्गर्हिऋ ३ । जर्गृह्वः ३ । जर्गृह्मः ३ । जर्गृहतु ३ । जर्गृहांचकार ३ । जर्गर्हिता । जरिगर्हिता । जरीगर्हिता । इहानुबन्धनिर्देशादूदिल्लक्षण इड्विकल्पो नाजर्गृहीतु । जर्गर्ढु । जर्गृढाम् ३ । जर्गृहतु ३ । जर्गृढि ३ । मिपि जर्गृहाणि ३ । लुङि अजर्गृहीत् ३ । ईडभावे — एकाच॑ इति भष्भावः । अजर्घर्ट् ३ । यद्यपि इहयत्रैकाज्ग्रहणं चे॑ति निषेधाद्भष्भावो दुर्लभस्तथापिगुणो यङ्लुको ॑ रित्यनेनश्तिपा शपे॑त्यादिनिषेधस्याऽनित्यत्वज्ञापनाद्भष्भावोऽत्र प्रवर्तते इत्याहुः । अजर्गृढाम् ३ । अजर्गृहुः ३ । अजर्घर्टः ३ । अजर्घर्ड् ३ । अजर्गृढम् ३ । अजर्गृढ ३ । अजर्गृहम् ३ । अजर्गृह्व ३ । जर्गृह्रात् ३ । अजर्गर्हीत् ३ । अजर्गर्हिष्टाम् ३ । अजर्गर्हिष्यत् ३ । जाग्रहीतीति । ग्रह उपादाने । यङो लुका लुप्तत्वात्तन्निमित्तंग्रहिज्ये॑ति संप्रसारणमिह नेति भावः । जर्गृढ इति ।उरत् ।दीर्घोऽकितः॑ । तत्रैकाच इत्यनुवर्तत इतिएकाचो द्वे॑ इत्यस्मिन् सूत्रे हरदत्तेनोक्तत्वादिति भावः । माधवस्त्विति । अयं भावः — ग्रहोऽलिटि॑ इति सूत्रेयङ्लोपे चोक्त॑मिति वार्तिकतदीयभाष्यकैयटादिपर्यालोचनया जरीगृहीतेत्यादिषु ग्रहेर्यङन्तात्तृचस्तासेर्वा य इट् तस्य दीर्घाऽभावे युक्तिद्वयं लभ्यते । पूर्वस्मादपि विधौ स्थानिद्भाव इत्येके । ग्रहेर्विरोत य इट् तस्य दीर्घ इत्यपरे । तत्राद्यः पक्षो भाष्यवार्तिककाररीत्या । ताभ्यां हिपूर्वत्रासिद्धे न स्थानिव॑दित्यवष्टभ्य दीर्घादिग्रहणस्य प्रत्याख्यानात् । त्रैपादिकदीर्घातिरिक्तदीर्गेऽस्मिन् कर्तव्ये स्थानिवद्भावस्य तन्मते सुवचत्वात् । द्वितीयस्तु सूत्ररीत्या, तेन तु सामान्यतो दीर्घविधौ स्थानिवद्भावस्य वक्तुमशक्यत्वात् । एवं च यङ्लुकि दीर्घप्रवृत्तौ न किंचिद्बाधकम्, यङ्लुकोऽनैमित्तिकत्वात्, अज्झलादेशत्वाच्च स्तानिवद्भावाऽयोगात् ।द्विः प्रयोगो द्विर्वचनं षाष्ठ॑मिति सिद्धान्ताद्यङ्लुगन्ताद्गृह्णातेर्विहितस्य ग्रहेर्विहितत्वाऽनपायाच्च । तद्भाष्यादिविरुद्धमिति । आदिशब्देन कैयटहरदत्तौ गृह्रेते । विरोधाश्चात्र मनोरमायामुपपादितः । तथा हि — एकाचो द्वे प्रथमस्ये॑ति सूत्रेग्रहेरङ्गा॑दिति भाष्यामुपादाय कैयट आह — तृचो हिजरीगृहि॑त्यङ्गं, न तु ग्रहिः, विशेषणसामर्थ्याद्धि यथाश्रुतरूपाश्रयण॑मिति । यद्यपि तत्र यङन्तं प्रक्रम्येदमुक्तं, तथापि युक्तसाम्याद्यङ्लुगन्तेऽपि न दीर्घ इति लक्ष्यते । एकाज्ग्रहणमनुवर्तयन् हरदत्तोऽप्यत्रानुकूलः । न ह्रस्मिन्पक्षे यङ्लुकि दीर्घस्य प्रसक्तिरस्ति । एवं च पूर्वस्मादपि विधौ स्थानिवद्भाव इति ग्रहेर्विहितस्य य इट् तस्यग्र॑हिति यथाश्रुतरूपाश्रयणेगृहीत॑ इत्यादाविटो दीर्घो न स्यादिति वाच्यम्, अङ्गसंज्ञाप्रवृत्तिवेलायां यथाश्रुतरूपस्यैव सत्त्वात् ।ग्राहित॑मित्यादौ तु नैवम् ।एकाच॑ इति समाधानं तु णिज्भिन्नविषयकमेव,निष्ठायां सेटी॑ति णिलोपे ग्राहितमित्यादावेकाच्त्वानपायात् । तदित्थं — यङ्लुगन्ताण्णिजन्ताच्च यङन्ताच्च ग्रहेरिटः । द्विधा त्रिधा चतुर्धा च दीर्घप्राप्तिः समाहिता॑ । अस्यार्थः - यङ्लुगन्तार्द्दीर्घे प्राप्ते समाधानद्वयम् । ग्रहेरङ्गादिति व्याख्यानमेकाच इत्यनुवृत्तिश्चेति । णिजन्तात्तु ग्रहिस्वरूपाऽभावः, विहितविशेषणं, स्थानिवद्भावश्चेति समाधानत्रयम् । यङन्तात्समाधानचतुष्टयम्,एकाचः॑इत्यनुवृत्तिः, पूर्वोक्तसमाधानत्रयं चेति । अजर्घा इति । गृधु अभिकाङ्क्षायाम् । इह अपदान्तस्यापि रेफस्यरो री॑ति लोपो भवत्येव, तत्र मण्डूकप्लुत्या पदस्येत्यनुवर्तनात् । पाप्रष्टीति । प्रच्छ ज्ञीप्सायाम् ।व्रश्चे॑ति षः । पाप्रच्छिता । पाप्रच्छिष्यति । प्रापष्टु । पाप्रष्टात् । पाप्रष्टाम् । पाप्रच्छतु । पाप्रड्ढि । पाप्रच्छानि । अपाप्रच्छीत् । अपाप्रट् । अपाप्रष्टाम् । अपाप्रच्छुः । अपाप्रच्छीः । अपाप्रट् । अपाप्रष्टाम् । अपाप्रष्ट । अपाप्रच्छम् । अपाप्रच्छ्व । अपाप्रश्म । भाष्ये ध्वनितमिति ।च्छोः शू॑डिति सूत्रे भाष्ये क्ङिद्ग्रहणेच्छः षत्वं वक्तव्य॑मिति । अननुवर्तमाने त्वनेन छः शत्वे कृते शान्तत्वादेव षो भविष्यतीति प्रष्टा प्रष्टुमित्यादिसिद्धये व्रश्चादिसूत्रे छग्रहणं न कर्तव्यमिति भावः । एवं हि वदता भाष्यकृता ऊठ् भाविभ्यो यङ्लुङ्नास्तीत्युक्तप्रायम् । अन्यथा दिवेर्यङ्लुकि ईडभावपक्षे देदेति देदेषि इत्यादौ भावाऽभावाभ्यां महान् विशेषः स्यात् । तत्र क्ङिद्ग्रहणाननुवृत्तावूठः प्रवृत्त्या देद्योति देद्योषीत्यादिरूपविशेषलाभात् । ततश्चैतावानेवेत्यवकारो विरुध्येत । रिउआविमव्योस्त्विति । रिउआवु गतिशोषणयोः । मव बन्धने । जाहामीति । ईट्पक्षे जाहयीमि । लोटि जाहयीतु । जाहुत । जाहतात् । जाहताम् । जाहयतु । जाहहि । जाहतात् । जाहयानि । जाहयाव । जाहयाम । लङि — अजाहयीत् । अजाहत् । अजाहताम् । अजाहयुः । अजाहयीः । अजाहः । अजाहतम् । अजाहत ।अजाहयम् । अजाहाव । अजाहाम । जाहय्यात् ।ह्म्यन्तक्षणे॑ति वृद्धिनिषेधः । अजाहयीत् । अजाहयिष्टाम् । अजाहयिष्यत् । ज्वरत्वर । Padamanjari ----------- वचनसामर्थ्यादिति । यङ्लुकि पूर्वेणैव सिद्धत्वात् ॥ Nyaas ----- अयङलुगर्थोऽयमारम्भः। `चूर्त्तिः` इति। **स्त्रियां क्तिन्** (3.3.94) पूर्ववद्दीर्घः। `प्रकृल्ताः` इति। `निष्ठा, तदन्ताट्टाप्; जस्। `वचनसामर्थ्यादिह नाभिसम्बध्यते` इति। यदीह यङ्लुग्ग्रहणमभ्यासग्रहणञ्चाभिसम्बध्येत, ततो वचनस्य वैयथ्र्यं स्यात्। पूर्वेणैव यङयङ्लुकोरभ्यासस्य सिद्धत्वादित्यभिप्रायः॥ Prakriyasarvasvam ----------------- तकारादौ परे चरफलोरत उत् स्यात् । प्रफुल्लः । तृजादौ सेट्त्वादुत्वं न । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । 'उत्फुल्लसंफुल्लयोरुपसंख्यानम् । (वा० ८-२-५५) परिकृशश्चेष्यते । 'फुल्लविकसन' इत्यस्य पचाद्यचि प्रफुल्लाद्यपि स्यात् ।