74086: जपजभदहदशभञ्जपशां च¶
Padacheda: जपजभदहदशभञ्जपशाम् | S | 6 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The augment नुक् (न्) comes after the reduplicates of 1. जप 2. जभ 3. दह 4. दश 5. भञ्ज and 6. पश in the Intensive (with expressed or elided यङ्).
Vasu English Translation¶
The augment नुक् (न्) comes after the reduplicates of 1. जप 2. जभ 3. दह 4. दश 5. भञ्ज and 6. पश in the Intensive (with expressed or elided यङ्). Thus जंजप्यते and जंजपीति; जंजभ्यते and जंजभीति, दंदह्यते and दंदहीति; दंदश्यते and दंदशीति ॥ The root is दंश्, but it is exhibited in the sutra as दश, showing that even in यङ् लुक्, the root loses its nasal. Similarly बंभज्यते and बंभजीति, and पंपश्यते and पंपशीति ॥ This last is a sautra root.
Kashika¶
जप जभ दह दश भञ्ज पश इत्येतेषामभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। जञ्जप्यते जञ्जपीति। जभ जञ्जभ्यते। जञ्जभीति। दह दन्दह्यते। दन्दहीति। दश दन्दश्यते। दन्दशीति दश इति दंशिः अयं नकारलोपार्थम् एव निर्दिष्टः। तेन यङ्लुक्यपि नकारलोपो भवति। भञ्ज बम्भज्यते। बम्भञ्जीति। पश इति सौत्रो धातुः पम्पश्यते। पम्पशीति।
Siddhanta Kaumudi¶
एषामभ्यासस्य नुक् स्याद्यङ्यङ्लुकोः । गर्हितं जपति । जञ्जप्यते इत्यादि ॥
Padamanjari¶
‘जप जल्प व्यक्तायां वाचि’ ,’जभ जृभी गात्रविनामे’ ,’दह भस्मीकरणे’ ,’दन्श दशने’ ,’भन्जो आमर्दने’ ,’पश’ इति सौत्रो धातुः । जञ्जप्यत इत्यादिचतुर्षु’लुपसद’ इत्यादिना यङ्, इतरत्र सामान्यलक्षणेन ॥
Nyaas¶
अनुनासिकार्तोऽयमारम्भः। जप जल्प व्यक्तायां वाचि (धातुपाठः-397,398), जभि जृभी गात्रविनामे (धातुपाठः-388,389) दह भस्मीकरणे (धातुपाठः-991), दन्श दशने (धातुपाठः-989) भव्जो आमर्दने (धातुपाठः-1453), पशिः सौत्रो धातुः। जञ्जप्यते इत्यादिषु दंदश्यते इति पर्यन्तेषु लुपसद (3.1.24) इत्यादिना यङ्। इतरत्र सामान्यलक्षणेन` (3.1.22) ॥
Prakriyasarvasvam¶
एषां यङ्यङ्लुकोरभ्यासस्य नुक् स्यात् ।
Sutra Prayogas¶
दह्यन्ते (शिशुपालवधम्): जपजभदहदशभञ्जपशां च इत्यभ्यासस्य नुमागमः।
दन्दशूकैः (शिशुपालवधम्): जपजभदहदशभञ्जपशां च इत्यभ्यासस्य नुगागमः।
जञ्जपूको (भट्टिकाव्यम्): जप-जभ इत्यभ्यासस्य नुक्।