74087: चरफलोश्च¶
Padacheda: चरफलोः | S | 6 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The augment नुक् (न्) comes after the reduplicates of चर् and फल् in the Intensive (with expressed or elided यङ्).
Vasu English Translation¶
The augment नुक् (न्) comes after the reduplicates of चर् and फल् in the Intensive (with expressed or elided यङ्). Thus चंचूर्यते and चंचूरीति (the lengthening of ऊ is by (8.2.77)) पंफुल्यते and पंफुलीति ॥ See the following sutra.
Kashika¶
चर फल इत्येतयोः अभ्यासस्य नुगागमो भवति यङ्यङ्लुकोः परतः। पञ्चूर्यते। पञ्चूरीति। पम्फुल्यते। पम्फुलीति।
Siddhanta Kaumudi¶
अनयोरभ्यासस्यातो नुक् स्याद्यङ्यङ्लुकोः । नुगित्यनेनानुस्वारो लक्ष्यते ॥<!स च पदान्तवद्वाच्यः !> (वार्तिकम्) ॥ वा पदान्तस्य (SK125) इति यथा स्यात् ॥
Padamanjari¶
चरतिर्भक्षणार्थः ।’ञिफला विशरणे’ , फल निष्पतौऽ - द्वयोरपि ग्रहणमिष्यते । चञ्चूर्यत इति ।’लुपसद’ इत्यादिना यङ् । उतरसूत्रेणा कारस्योत्वे’हलि च’ इति दीर्घत्वम् । योगविभाग उतरार्थः ॥
Nyaas¶
चर गतौ (धातुपाठः-559)। ञि फला विशरणे (धातुपाठः-516), फल निष्यत्तौ (धातुपाठः-530)-द्वयोरपि ग्रहणम्। निष्यत्त्यर्थस्याकार उच्चारणार्थः, नानुबन्धः, प्रयोजनाभावात्, ततश्च निरनुबन्धकपरिभाषया (व्या।प।53) निरनुबन्धस्य निष्पत्त्यर्थस्यैवास्य ग्रहणं प्राप्नोति, न विशरणार्थस्य? नैष दोषः; चकारोऽत्र क्रियते, स च विशरणार्थस्य समुच्चयार्थो भविष्यति। चञ्चूर्यते इति। लुपसद (3.1.24) इत्यादिना यङ। उत्तरसूत्रेणाकारस्योकारे कृते हलि च (8.2.77) इति दीर्घः। योगभाग उत्तरार्थः॥
Prakriyasarvasvam¶
अनयोश्च तद्वन्नुक् ।
Sutra Prayogas¶
चञ्चूर्यमाणा (भट्टिकाव्यम्): चरफलोश्च इत्यभ्यासस्य नुक्।
चञ्चूर्यते (भट्टिकाव्यम्): चर-फलोश्च इत्यभ्यासस्य नुक्।