74085: नुगतोऽनुनासिकान्तस्य

Padacheda: नुक् | S | 1 | 1 |

अतः | S | 6 | 1 |

अनुनासिकान्तस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

The augment नुक् (न्) is added after the short अ of a reduplicate in the Intensive (with expressed or elided यङ्) when the root ends in a nasal.

Vasu English Translation

The augment नुक् (न्) is added after the short अ of a reduplicate in the Intensive (with expressed or elided यङ्) when the root ends in a nasal. As तन्तन्यते and तन्तनीति; जङ्गम्यते and जङ्गमीति, यंयम्यते and यंयमीति; रंरम्यते and रंरमीति ॥ The augment न् here should be considered as anusvara, because an adesa is indicated by the nature of the sthanin which is replaced; and therefore in यंयम्यते, it remains anusvara. Had it been म्, it could not have been changed to anusvara in यंयम्यते, रंरम्यते (See (8.3.24)). In तन्तन्यते &c, the anusvara is changed to न्, ङ् &c, by (8.4.58); the other forms तन्तन्यते तंतनीति, जंगम्यते, जंगमीति are derived by the following :-

Vart:- This anusvara should be treated as if it was at the end of a Pada or word. That being so, (8.4.59) applies, and we have the anusvara unchanged, as in तंतन्यते &c.

Why do we say “after a short अ”? Observe तेतिम्यते ॥ The त् in अत् indicates that the augment will not be added to a reduplicate which once was long आ but became short by (7.4.59) as from भाम ‘to be angry’, is बाभाम्यते, (the second lengthening takes place by (7.4.83)). Why do we say ending in a nasal? Observe पापच्यते ॥

Bhashya

नुगतोऽनुनासिकान्तस्य ॥ नुकि यंयम्यते रंरम्यत इति रूपाऽसिद्धिः ॥ नुकि सति यंयम्यते रंरम्यत इति रूपं न सिद्ध्यति ॥ अनुस्वारागमवचनात्तु(1) सिद्धम् ॥ (अनुस्वारागमवचनात्सिद्धमेतत्) ।(2) अनुस्वारागमो वक्तव्यः । एवमपीदमेव रूपं स्यात् - यय्यँम्यते,(3) इदं न स्यात्(4) यंयम्यते(5) ॥ पदान्तवच्च(6) ॥ पदान्तवच्चेति वक्तव्यम् । वा पदान्तस्येति ॥ ( नुगतोऽनुनासिकान्तस्य ) ॥

Kashika

अनुनासिकान्तस्य अङ्गस्य योऽभ्यासः तस्य अकारान्तस्य नुगागमो भवति यङ्यङ्लुकोः परतः। तन्तन्यते। तन्तनीति। जङ्गम्यते। जङ्गमीति। यंयम्यते। यंयमीति। रंरम्यते। रंरमीति। नुकित्येतदनुस्वारोपलक्षणार्थं द्रष्टव्यम्। स्थानिना हि आदेशो लक्ष्यते। तेन यंयम्यते इत्येवमादौ अझल्परत्वेऽपि अनुस्वारो भवति। पदान्तवच्चेति वक्तव्यम्। वा पदान्तस्य (8.4.59) इति परसवर्नविकल्पो यथा स्यातिति। अतः इति किम्? तेतिम्यते। तपरकरणं तु भूतपूर्वस्य अपि दीर्घस्य निवृत्त्यर्थम्, बाभम्यते। अनुनासिकान्तस्य इति किम्? पापच्यते।

Siddhanta Kaumudi

अनुनासिकान्तस्याङ्गस्य योऽभ्यासोऽदन्तस्तस्य नुक् स्यात् । नुकानुस्वारो लक्ष्यत इत्युक्तम् । यँय्यम्यते । यंयम्यते । तपरत्वसामर्थ्याद्भूतपूर्वदीर्घस्यापि न । भाम क्रोधे । बाभाम्यते । ये विभाषा (SK2319) । जाजायते । जञ्जन्यते ।<!हन्तेर्हिंसायां यङि घ्नीभावो वाच्यः !> (वार्तिकम्) ॥ जेघ्नीयते । हिंसायां किम् । जङ्घन्यते ॥

Padamanjari

नुगित्येतदित्यादि । केन सम्बन्धेनोपलक्षणम् ? अत आह - स्थानिना हीति । उपलक्षणत्वे किं सिद्धम् ? अत आह - तेनेति । अझल्परत्वेऽपीति । तन्तन्यत इत्यादौ झल्परत्वे तु’नश्चापदान्तस्य झलि’ इत्यनुस्वारः सिद्ध एव । ठनुस्वारस्य ययि परसवर्णःऽ इति नित्यं परसवर्णः प्राप्नोति, इष्यते च पक्षे अनुस्वारस्य श्रवणम् ? अत आह - पदान्तवच्चेति । तत्कथं लभ्यते ? इहान्तग्रहणं न कर्तव्यं तदन्तविधिना सिद्धम् ? तत्क्रियते - पदान्तस्यानुस्वारस्य यो धर्मः सोऽस्य यथा स्यादिति । एवं च - अनुनासिकान्तस्येति पृथक् पदे, अनुनासिकेति लुप्तषष्ठीकम् । तेतिम्यत इति ।’तिम आर्द्रीभावे’ । तपरकरणं किमिति । सर्वत्र ह्लक्वस्यैव भावान्नास्य किञ्चिद्व्यावर्त्यमिति प्रश्नः । भूतपूर्वस्यापीति । अन्यथा तपरकरणमनर्थकं स्यादिति भावः । बाभम्यत इति । ठ्भाम क्रोधे ॥

Nyaas

दीर्घोऽकितः (7.4.83) इत्यनेन दीर्घत्वे प्राप्ते वचनमिदमारभ्यते। तन्तन्यते इत्यादीनि तमिगमियमिरमीणां रूपाणि। यदि नुक्? क्रियते, यम्यम्यते इत्यादौ नश्चापदान्तस्य झलि (8.3.24) इति झल्युच्यमानोऽनुस्वारो न सिध्यति, अझल्परत्वात्? इत्यत आह - नुगित्ये तत् इत्यादि। कथं पुनर्नुगित्येतदनुस्वारोपलक्षणार्थं शक्यते द्रष्टुम्? इत्याह - स्थानिना हि इत्यादि। नुका हि स्थानिनाऽत्रादेशोऽनुस्वार उपलक्ष्यते। तस्मादनुस्वार एवागमोऽत्र विधीयते, न तु नुक्। यम्यम्यत इत्यादौ यद्यप्यझल्परताऽस्ति, तथाप्यनुस्वारः सिध्यति। एवं अनुस्वारस्य ययि परसवर्णः (8.4.58) प्राप्नोति, इष्यते च पक्षेऽनुस्वारस्य श्रवणम्, तन्न सिध्यति, अपवान्तत्वात्? इत्यत आह - पदान्तवच्च इत्यादि। पदान्तवदनुस्वारो भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - तदन्तविधिर्नवानुनासिकान्तस्यानुस्वारो भवतीति नार्थोऽन्तग्रहणेन, तत्क्रियते - पदान्तस्यानुत्वारस्य यो धर्मा स नुकोऽपि स्यादित्येवमर्थम्; तेनानुस्वारस्य पक्षे श्रवणं भविष्यतीति। तेतिम्यते इति। तिम ष्टिम आद्र्रीभावे (धातुपाठः-1123,1124)। अथ तपरकरणं किमर्थम्, यावता नास्ति किञ्चिदन्यदस्य व्यावत्र्यमिति सर्वत्र ह्रस्वाभावात्? इत्यत आह - तपरकरणम् इत्यादि। वर्तमानस्य दीर्घस्याभावाद्भूतपूर्वस्यापि दीर्घस्य निवृत्त्यर्थं तपरकरणं भविष्यतीति। बाभाम्यते इति। भाम क्रोधे (धातुपाठः-441)॥

Prakriyasarvasvam

अनुनासिकान्तस्याङ्गस्यादन्तस्याभ्यासस्य यङ्यङ्लुकोर्नुक् स्यात् । ‘नुकोऽ- नुस्वाररूपत्वं पदान्तवत्त्वं च वाच्यम्’ (वा०) । पदान्तवद्भावाद्वापरसवर्णः । जङ्गम्यते, जंगम्यते । नुकोऽनुस्वाररूपत्वोक्तेरझल्यप्यनुस्वारः । रंरम्यते । अत इत्युक्तेरातो न नुक् । भाम क्रोधे, बाभाम्यते ।

Sutra Prayogas

  • जङ्गमा (भट्टिकाव्यम्): यङिनुगतः इति नुक्।

  • नन्नम्यमानाः (भट्टिकाव्यम्): नुगतोऽनुनासिकान्तस्य इति नुक्।

  • चंक्रमा (भट्टिकाव्यम्): नुगतः इत्यभ्यासस्य नुक्।