74081: स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा

Padacheda: स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् | S | 6 | 3 |

वा | S | 0 | 0 |

Sutrartha


Vasu English Summary

इ is optionally substituted for the final उ of a reduplicate of 1. स्रु 2. श्रु 3. द्रु 4. प्रु 5. प्लु and 6. च्यु when the semi-vowel is followed by a अ or आ in the Desiderative.

Vasu English Translation

इ is optionally substituted for the final उ of a reduplicate of 1. स्रु 2. श्रु 3. द्रु 4. प्रु 5. प्लु and 6. च्यु when the semi-vowel is followed by a अ or आ in the Desiderative. Thus सिस्रावयिषति or सुस्रावयिषति; शिश्रावयिषति or शुश्रावयिषति; दिद्रावयिषति or दुद्रावयिषति; पिप्रावयिषति or पुप्रावयिषति; पिप्लावयिषति or पुप्लावयिषति; चिच्यावयिषति or चुच्यावयिषति ॥ All these are Desideratives of the Causatives of the above roots. Here though a letter like स्, श्, द् &c, intervenes between the semi-vowel and the preceding उ of the reduplicate, yet the substitution takes place owing to the express text of this sutra. In the preceding aphorism, the semi-vowel followed immediately after the उ of the reduplicate. The option of the present sutra is, therefore, an aprapta-vibhasha. The word अपरे is understood here also: therefore not in सुस्रूषति, शुश्रूषति ॥

Kashika

स्रवति शृणोति द्रवति प्रवति प्लवति च्यवति इत्येतेषामभ्यासस्य ओः अवर्नपरे यणि वा इकारादेशो भवति सनि परतः। सिस्रावयिषति, सुस्रावयिषति। शृणोति शिश्रावयिषति, शुश्रावयिषति। द्रवति दिद्रावयिषति, दुद्रावयिषति। प्रवति पिप्रावयिषति, पुप्रावयिषति। प्लवति पिप्लावयिषति, पुप्लावयिषति। च्यवति चिच्यावयिषति, चुच्यावयिषति। वचनसामर्थ्यादेकेन वर्णेन यणो व्यवधानमाश्रीयते। पूर्वसूत्रेन तु अनन्तर एव यणि भवितव्यम् इति अप्राप्तबिभाषेयम्। अपरे इत्येव, सुस्रूषति। शुश्रूषते।

Siddhanta Kaumudi

एषामभ्यासोकारस्येत्वं वा स्यात्सन्यवर्णपरे धात्वपक्षे परे । असिस्रवत् । असुस्रवत् । नाग्लेपि - (SK2572) इति ह्रस्वनिषेधः । अशशासत् । अडुढौकत् । अचीचकासत् । मतान्तरे । अचचकासत् । अग्लोपीति नुब्धातुप्रकरणे उदाहरिष्यते । ण्यन्ताण्णिच् । पूर्वविप्रतिषेधादपवादत्वाद्वा वृद्धिं बाधित्वा णिलोपः । चोरयति । णौचङि - (SK2314) इति ह्रस्वः । दीर्घो लघोः (SK2318) । न चाग्लोपित्वाद्द्वयोरप्यसंभवः, ण्याकृतिनिर्देशात् । अचूचुरत् ॥

Balamanorama

स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा - रुआवतिशृणोति । अपर इत्यनुवर्तते, न तु पुयण्जीति, पवर्गजकारयोरसंभवात्,रुआवत्यादौ यणः सत्त्वेऽप्यव्यभिचारात् । तदाह — अवर्णपरे धात्वक्षरे इति । अक्षरशब्दो वर्णपरः । असिरुआवत् असुरुआवदिति । द्विहल्व्यधानेन लघुपरकत्वाऽभावान्न सन्वत्त्वमिति भावः । अशिश्रवत् अशुश्रवत् ।अदिद्रवत् अदुद्रवत् । अपिप्रवत् अपुप्रवत् । अपिप्लवत् अपुप्लवत् । अचिच्यवत् ।अचुच्यवत् । अथ सासुधतोरशशादित्यत्राह — नाग्लोपीति । अडुढौकदिति । ढौकृ गतावित्यस्य ऋदित्त्वादिति भावः । अचीचकासदिति । चकासृ दीप्तौ । ऋदित्त्वान्नोपधाह्रस्वः ।चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर॑ इति पक्षे सन्वत्त्वम्, अभ्यासदीर्घश्चेति भावः । मतान्ते त्विति ।अङ्गं यत्र द्विरुच्यते॑ इति मते॑ चङ् परेणौ यल्लघु तत्परो योऽङगस्य अभ्यास॑ इति मते चेत्यर्थः । आग्लोपीतीति । अग्लोपिन उपधाह्रस्वनिषेधे मा भवानूननदिति उदाहृतम् । अतितिरायदित्याद्युदाहणान्तरं सुब्धातुरनिरूपणे वक्ष्यते इत्यर्थः । ननु ‘चुर स्तेये’ इत्यस्मात्स्वार्थे णिचि उपधागुणेचोरि इति रूपम्,तस्माद्धेतुमण्णौ प्रथमस्य णेर्लोपे सतिचोरिट इत्येव हेतुण्ण्यन्तम् । तसमाल्लटि तिपि शपि गुणे अयादेशेचोरयती॑त्येव रूपम#इष्यते । तन्नोपपद्यते, हेतुमण्णौ परे प्रथमस्य णेर्लोपं बाधित्वा परत्वाद्वृद्धावायादेशे चोराय् इ इत्यस्माल्लटि चोराययतीत्यापत्तेरित्यत आह — ण्यन्ताण्णिचीति । ण्यन्ताण्णिचि वृदिंध बाधित्वा णिलोपैत्यन्वयः । कुत इत्यत आह — पूर्वविप्रतिषेधादिति ।ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेने॑ति वार्तिकेनेति भावः । अपवादत्वाद्वेति । ‘कमु कान्तौ’ इति धातौ द्विधा प्रपञ्चितत्वादिति भावः । अथ ण्यन्ताण्णौ ततो हेतुमण्णेर्लोपे चुरित्यस्य द्वित्वे सन्वद्भावविषयत्वाह — दीर्घो लघोरिति । तथा च अचूचुरदिति सिद्धम् । ननु उपदाह्रस्वोऽभ्यासदीर्घश्चेति द्वयमपि चङ्परे णौ विहितं, तदुभयमप्यत्र प्रत्ययलक्षणमाश्रित्य प्रथमणिचमादाय न संभवति, तस्य द्वितीयणिचा व्यवहितत्वेन चङ्परकत्वाऽभावात् । नापि द्वितीयणिचमादायतदुभयसंभवः, द्वितीयणिच्प्रकृतेः प्रथमसंभवो न शङ्क्य इत्यर्थः । कुत इत्यत आह — ण्याकृतिनिर्देशादिति ।चङ्परे णा॑वित्यत्र णावित्यस्य चङ्परकमित्वजात्याश्रयैकाऽनेकणिज्व्यक्तिपरकत्वं विवक्षितम् । तथा च णिद्वयस्य चङ्परकत्वाऽभावेऽपि णित्वस्य चङ्परकत्वमस्तीति ह्रस्वदीर्घयोरस्ति प्रवृत्तिरिति भावः । अत्र जातिन#इर्देशोऽयुक्त इति शब्देन्दुशेखरे प्रपञ्चितम् ।टु ओ इआ गतिवृद्धयोः॑ अस्माद्धेतुमण्णौ वृद्ध्यायादेशयोः आआयीत्यस्माल्लडादौ आआययतीति रूपम् । लुङि चङि अइआ इ अ त् इति स्थिते विशेषमाह —

Tattvabodhini

स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा - रुआवतिशृणोति ।अपरे॑ इत्यनुवर्तते न तु पुयण्जीति॑ पवर्गजकारयोरसंभवात् । यणः संभवेऽप्यव्यभिचारात्तदाह — अवर्णपरे धात्वक्षरे इति ।अक्षर॑ शब्दोऽत्र वर्णपरः । अवर्णपरे किम् । सुरुआऊषति । शृमोत्यादेरुदाहरणं तु — अशिश्रवत् । अशुश्रवत् । अदिद्रवत् । अदुद्रवत् । रापिप्रवत् । अपुप्रवत् । अचिच्यवत् । अचुच्यवत् । अडुढौकदिति ।ढौकृ गतौ॑ ।चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपर॑ इति पक्षाश्रयेणाह - अचीचकासदिति । मतान्तर इति ।अङ्गं यत्र द्विरुच्यते॑ इति मते,चङ्परे णौ यल्लघु तत्परो योऽङ्गस्याऽभ्यास॑इति मते चेत्यर्थः । सुब्धातुप्रकरण इति । अतितिरायत् । अससध्रायत् । अविविष्वद्रायत् । अदिदेवद्रायदित्याद्युदाहरिष्यत इत्यर्थः । वृदिंध बाधित्वेति ।ण्यल्लोपाविय॑ङ्ङित्यादिवचनात्, लोपांऽशप्रत्याख्यानपक्षेऽपवादत्वाद्वेत्यर्थः । असंभव इति । तथा च अचुचोरदित्येव रूपमिति भावः । ण्याकृतिनिर्देशादिति ।चङ्परे णा॑वित्यत्र चङ्परे णित्वे इत्यर्थः । तेन णिद्वये सत्यपि णित्वं चङ्परमस्तीति ह्रस्वदीर्घयोरस्ति संभव इति भावः । एतेनअवीवदद्वीणां परिवादकेने॑त्यादौ सन्वद्भावो व्याख्यातः, तत्रापीकत्थमेव पूर्वपक्षसिद्धान्तयोस्तुल्यत्व#आत् ।

Padamanjari

‘श्रु श्रवणे’ , अन्ये गत्यर्थाः । उदाहरणेषु ण्यन्तेभ्यः सन् । कथं पुनर्यणि परत उच्यमानमित्वं सकारादीनां वर्णेन व्यवधाने भवति ? तत्राह - वचनसामर्थ्यादिति । पूर्वसूत्रे इत्यादिना अप्राप्तविभाषेयमिति दर्सयति ॥

Nyaas

सु रुआउ गतौ (धातुपाठः-940) श्रु श्रवणे (धातुपाठः-942) दु द्रु गतौ (दा।पा।944,945)`प्रुङ्प्लुङ् च्युङ्? गतौ` (धातुपाठः-957,958,956) सिरुआआवयिषति इत्यादि। एभ्यो ण्यन्तेभ्यः सर्वत्र सन्। ननु च सकारादिना वर्णेनात्र यणो व्यवधानम्, अत्रावर्णपरे यणि परत इत्त्वमुच्यमानं व्यवधाने कथं भवति? इत्याह - वचनसामर्थ्यात् इति। सवत्रैव हि सकारादिनैकवर्णेन व्यवधानम्, उच्यते चेदं वचनम्, तस्मादत्र वचनसामर्थ्यादेकेन वर्णेन व्यवधानमाश्रीयते; अन्यथा हि वचनमिदमनर्थकं स्यात्। पूर्वसूत्रेण इत्यादेनाऽप्राप्तविभाषेयमिति दर्शयति। शुश्रुषति [शुश्रूयते - काशिका] इति। पूर्ववदिङ्गुणयोरभावः। श्तिपः निर्देशो धातुनिर्देशार्थः, न यङलग्निवृत्त्यर्थः। अत्र गुणे कृत उकारान्तताभावादित्त्वं न भवतीति। सोरुआविषति॥[नास्ति - कीशिका]

Prakriyasarvasvam

एषामवर्णपरे धात्ववयवे परेऽभ्यासोकारस्य सनीत्त्वं वा स्यात् । असिस्रवत्, असुस्रवत् इत्यादि ।

Sutra Prayogas

  • अशिश्रवन्नात्ययिकं (भट्टिकाव्यम्): स्रवति शृणोति इत्यभ्यासस्येत्वम्।

  • अपिप्लवन् (भट्टिकाव्यम्): स्रवति - शृणोति इत्यादिना अभ्यासस्येत्वम्।

  • अशिश्रवत् (भट्टिकाव्यम्): स्रवतिः शृणोति इत्यादिना इत्वपक्षे रूपम्।