74078: बहुलं छन्दसि

Padacheda: बहुलम् | S | 1 | 1 |

छन्दसि | S | 7 | 1 |

Sutrartha


Vasu English Summary

इ is diversely substituted in the छन्दस् (Vedas) for the vowel of the reduplicate, in the Reduplicated Present-form.

Vasu English Translation

इ is diversely substituted in the छन्दस् (Vedas) for the vowel of the reduplicate, in the Reduplicated Present-form. As पूर्णां विवष्टि (from वश्), जनिमा विवक्ति (from वच्), वत्सं न माता सिषक्ति (from सच्), and जिघर्ति सोमम् ॥ But also ददाति, जजनम्, दधनत् as in ददातीत्येवं ब्रूयात्; जजनमिन्द्रं माता यद्वीरं दधनद् धनिष्टा ॥ All these three roots belong to Juhotyadi class.

Kashika

छन्दसि विषये अभ्यासस्य श्लौ बहुलम् इकारादेशो भवति। पुर्णां विवष्टि। वशेरेतद् रूपम्। तथा वचेः जनिमा विवक्ति। सचेः वत्सं न माता सिषक्ति। जघर्ति सोमम्। न च भवति। ददाति इत्येवं ब्रूयात्। जजनदिन्द्रम्। माता यद्वीरं दधनद्धनिष्ठा।

Siddhanta Kaumudi

अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि (पूर्णां विव॑ष्टि) । वशेरेतद्रूपम् ॥

Nyaas

विविष्टि इति। वश कान्तौ (धातुपाठः-1080), बहुलं छन्दसि (7.4.78) इति शपः श्लुः, व्रशस्चादिसूत्रेण (8.2.36) षत्वम्। विवक्ति इति। वच परिभाषणे (धातुपाठः-1842)। सिषक्ति इति। सच समवये (धातुपाठः-997), सच सेचने (धातुपाठः-163) इति वा। जिगर्त्ति, जिघर्त्ति इति। गृ घृ सेचने (धातुपाठः-937,938)। सर्वत्र पूर्ववच्छपः श्लुः। जजनम्, दधनम् इति। जन जनने (धातुपाठः-1105), धन धान्ये (धातुपाठः-1104)। लुङ्मिपोऽम्, जुहोत्यादित्वाच्छपः श्लुः; बहुलं छन्दस्यामाङ्योगेऽपि (6.4.75) इत्यङ्निषेधः॥

Prakriyasarvasvam

अभ्यासस्य बहुलमृत् । वशेर्वचश्चच्छान्दसः श्लुः । पूर्णा विवष्टि । जनिमा विवक्ति ।<!मर्मृज्यन्ते मर्मृज्यमान इति च वाच्यम्!> (वा. ७-४-९१) । यङ् रोगैवास्तीत्युक्तिः । मर्मृज्यन्ते दिवेदिवे । मर्मृज्यमानो अत्यः ।