74079: सन्यतः¶
Padacheda: सनि | S | 7 | 2 |
अतः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
इ is substituted for the final short अ of the reduplicate in the Desiderative.
Vasu English Translation¶
इ is substituted for the final short अ of the reduplicate in the Desiderative. As पिपक्षति, यियक्षति, (8.2.36), (8.2.41) तिष्ठासति, पिपासति ॥ Why do we say in the Desiderative? Observe पपाच ॥ Why do we say “for the अ”? Observe लुलूषति ॥ Why do we say ‘short अ’? Observe पापचिषते the Desiderative of the Intensive पापच्यते ॥
Kashika¶
सनि परतोऽकारान्ताभ्यासस्य इकारादेशो भवति। पिपक्षति। यियक्षति। तिष्ठासति। पिपासति। सनि इति किम्? पपाच। अतः इति किम्? लुलूषति। तपरकरणं किम्? पापचिषते।
Siddhanta Kaumudi¶
अभ्यासस्यात इकारः स्यात्सनि ॥
Laghu Siddhanta Kaumudi¶
अभ्यासस्यात इत् स्यात् सनि॥
Balamanorama¶
सन्यतः - सन्यतः ।सनि-अत इति च्छेदः । ‘अत्र लोप’ इत्यतोऽभ्यासस्येत्यनुवर्तते ।भृञामि॑दित्यस्मादिदिति । तदाह — अभ्यासस्येति । कि कम त इति स्थितम् ।
Tattvabodhini¶
सन्यतः - ॒अत्र लोपोऽभ्यसस्ये॑त्यतोऽभ्यासस्येति,भृञामि॑ दित्यत इद्ग्रहणं चानुवर्तते । तदाह — अभ्यासस्येत्यादि । तपरकरणं किम् । पापच्यतेः सन् । पापचिषते । न च सनि योऽभ्यासः सन्निमित्त इति विज्ञानात्तरपरकरणाऽभावेऽपि नोक्तातिप्रसङ्गः, अभ्यासस्येह यङ्निमित्तत्वादिति वाच्यं, तादृशविवक्षायामधीषिषति प्रतीषिषतीत्यादावव्याप्तः । न हि कार्यी निमित्तत्वेनाश्रीयते । यद्याश्रीयेत तर्हिद्विर्वचनेऽची॑ति निषेधेन रिस्शब्दस्य द्वित्वाऽप्रवृत्तावरिरिषतीत्यादि न सिध्येत् । नन्वेवं पिपक्षतीत्यादावपव्याप्तिः, अभ्यासस्य सन्परत्वाऽभावात् । न चयेन नाव्यवधान॑ न्यायेन सन्प्रकृत्या व्यवहितेऽप्यभ्यासस्येत्वं स्यादेवेति वाच्यं, प्रतीषिषतीत्यादावभ्यासस्याऽव्यवहितसन्परत्वसंभवादुक्तव्यायस्याऽप्रवृत्तेरिति चेत् । अत्राहुः — सना धातुमाक्षिप्य सनि सति यो धातुः सन्नन्तस्तदीयाभ्यासस्येति व्याख्यानान्नोक्तदोषः । न च सनि परे अभ्यासस्येति यथाश्रुतं परित्यज्योक्तव्याख्याने किं मानमिति वाच्यम्, तपरकरणस्यैव तत्र मानत्वात् । किं च अकारग्रहणमपि तत्र मानम् । अन्यथासन॑ इत्येव ब्राऊयात्, तावताप्यधीषिष[ति प्रतीषिष] तीत्यादावित्त्वप्रृत्तिसिद्धेरिति ।
Padamanjari¶
यियक्षतीति । यजेर्ब्रश्चादिना षत्वम्,’पढोः कः सि’ । तपरकरणं किम् ? पापच्यतेः सन्, पापचिषते इत्यत्र मा भूत् । किं पुनः कारणमत्र ह्रस्वो न भवति ? दीर्घविधानसामर्थ्यात् । यदि तु’सनि यो’ भ्यासःऽ इत्येवं विज्ञायते, ततो लाघवे विशेषाभावातपरकरणम् ॥
Nyaas¶
पिपक्षति इत्यादि। पचियज्यो रूपे। पिपासति इति। पातेः, पिबतेर्वा। लुलूषति इति। लूञ्? छेदने (धातुपाठः-1483)। इको झल् (1.2.9) इति कित्त्वाद्गुणाभावः। सनि ग्रहगुहोश्च (7.2.12) इतीट्प्रतिषेधः। तपरकरणं किमर्थम्? पापच्यतेः सन्? पापचिषत इत्यत्र मा भूत्। किं पुनः कारणमत्र ह्रस्वो न भवति? दीर्घविधानसामर्थ्यात्। यदि सनि योऽभ्यासः इत्येवं विज्ञायेत, [विज्ञायते-प्रांउ। पाठः] ततो मुखसुखार्थम्॥
Prakriyasarvasvam¶
सन्यदन्तस्याभ्यासस्य इकारः स्यात् । कि कम् अ त ।
Sutra Prayogas¶
विपर्यणीनमन् (शिशुपालवधम्): सन्यतः इति अभ्यासस्य इत्वम्।
समचिच्छदत् (शिशुपालवधम्): सन्यतः इत्यभ्यासस्येत्वम्।
दित्सुः (भट्टिकाव्यम्): सन्यतः इति तत्वम्।
निरचिक्रमदिच्छा-तो (भट्टिकाव्यम्): संन्यतः इतीत्वम् ।
अचिक्रमन् (भट्टिकाव्यम्): सन्यतः इति चङि सन्वद्भावादभ्यासस्य इत्वम्।