74078: बहुलं छन्दसि =================== **Padacheda:** बहुलम् | S | 1 | 1 | छन्दसि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- इ is diversely substituted in the छन्दस् (Vedas) for the vowel of the reduplicate, in the Reduplicated Present-form. Vasu English Translation ------------------------ इ is diversely substituted in the छन्दस् (Vedas) for the vowel of the reduplicate, in the Reduplicated Present-form. As पूर्णां विवष्टि (from वश्), जनिमा विवक्ति (from वच्), वत्सं न माता सिषक्ति (from सच्), and जिघर्ति सोमम् ॥ But also ददाति, जजनम्, दधनत् as in ददातीत्येवं ब्रूयात्; जजनमिन्द्रं माता यद्वीरं दधनद् धनिष्टा ॥ All these three roots belong to *Juhotyadi* class. Kashika ------- छन्दसि विषये अभ्यासस्य श्लौ बहुलम् इकारादेशो भवति। पुर्णां विवष्टि। वशेरेतद् रूपम्। तथा वचेः जनिमा विवक्ति। सचेः वत्सं न माता सिषक्ति। जघर्ति सोमम्। न च भवति। ददाति इत्येवं ब्रूयात्। जजनदिन्द्रम्। माता यद्वीरं दधनद्धनिष्ठा। Siddhanta Kaumudi ----------------- अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि (पूर्णां विव॑ष्टि) । वशेरेतद्रूपम् ॥ Nyaas ----- `विविष्टि` इति। `वश कान्तौ` (धातुपाठः-1080), **बहुलं छन्दसि** (7.4.78) इति शपः श्लुः, व्रशस्चादिसूत्रेण (8.2.36) षत्वम्। `विवक्ति` इति। `वच परिभाषणे` (धातुपाठः-1842)। `सिषक्ति` इति। `सच समवये` (धातुपाठः-997), `सच सेचने` (धातुपाठः-163) इति वा। `जिगर्त्ति, जिघर्त्ति` इति। `गृ घृ सेचने` (धातुपाठः-937,938)। सर्वत्र पूर्ववच्छपः श्लुः। `जजनम्, दधनम्` इति। `जन जनने` (धातुपाठः-1105), `धन धान्ये` (धातुपाठः-1104)। लुङ्मिपोऽम्, जुहोत्यादित्वाच्छपः श्लुः; `बहुलं छन्दस्यामाङ्योगेऽपि` (6.4.75) इत्यङ्निषेधः॥ Prakriyasarvasvam ----------------- अभ्यासस्य बहुलमृत् । वशेर्वचश्चच्छान्दसः श्लुः । पूर्णा विवष्टि । जनिमा विवक्ति । (वा. ७-४-९१) । यङ् रोगैवास्तीत्युक्तिः । मर्मृज्यन्ते दिवेदिवे । मर्मृज्यमानो अत्यः ।