74070: अत आदेः¶
Padacheda: अतः | S | 6 | 1 |
आदेः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
A long vowel is substituted in the लिट् (Perfect Tense) for the initial अ of the reduplicate.
Vasu English Translation¶
A long vowel is substituted in the लिट् (Perfect Tense) for the initial अ of the reduplicate. This debars the single substitute of the form of the subsequent ordained by (6.1.97). Thus आट, आटतुः, आटुः ॥ Why do we say ‘the initial’? Observe पपाच and पपाठ ॥ Thus अट् + अतुः = अट् अट् + अतुः = अ अट् + अतुः = आ अट् ॥
Kashika¶
अभ्यासस्य आदेः अकारस्य दीर्घो भवति लिटि परतः। अतो गुणे पररूपत्वस्य अपवादः। आट, आटतुः, आटुः। आदेः इति किम्? पपाच। पपाठ।
Siddhanta Kaumudi¶
अभ्यासस्यादेरतो दीर्घः स्यात् । पररूपापवाद । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥
Laghu Siddhanta Kaumudi¶
अभ्यासस्यादेरतो दीर्घः स्यात् । आत । आततुः । आतुः । आतिथ । आतथुः । आत । आत । आतिव । आतिम । अतिता । अतिष्यति । अततु ॥
Balamanorama¶
अतः आदेः - ततश्च अनुप्रयुज्यमानादस्धातोर्लिटि भूभावनिवृत्तौ णलि एधामस् अ इति स्थिते द्वित्वे हलादिः शेषे अ अस् इति स्थिते सवर्णदीर्घं बाधित्वा अतो गुण इति पररूपे प्राप्ते — अत आदेः । ‘अत्र लोप’ इत्यस्मादभ्यासस्येत्यनुवर्तते । ‘दीर्घ इण’ इत्यतो दीर्घ इतीति च । तदाह — अभ्यासस्येति । अत्र यद्वक्तव्यं तन्नामधातुप्रक्रियायाम् ‘अ इवाचरति अती’ त्यादिग्रन्थस्य व्याख्यानावसरे वक्ष्यते । एधामासेति । नचाऽत्रानुप्युज्यमानाभ्यामस्तिभूभ्यामाम्प्रत्ययवदित्यात्मनेपदं शङ्क्यं, तत्र कृञ्ग्रहणेन प्रत्याहारग्रहणाऽभावस्य भाष्ये उक्तत्वात् । एधामासतुरित्यादीति । एधामासुः । एधामासिथ । एधामासथुः । एधामास । एधामासिव । एधामासिम । इति लिट्प्रक्रिया । एधितेति । लुटस्तादेशे एध्-त इति स्थिते शबपवादस्तस् । लुटः प्रथमस्येति डा । टिलोपः । एधितेति रूपम् । दीधीवेवीटामिति लघूपधगुणो न । एधिताराविति । लुट आताम् । तास् इट् । आतामित्यस्य रौभावः । रि चेति सलोपः । एधितार इति । झस्य रस् । तास् । इट् । रि चेतिसलोपः । रुत्वविसर्गौ । एधितास इति । थासः से । तास् इट् । तासस्त्योरिति सलोपः । एधितासाथे इति । आथाम् टेरेत्वं ।तास् । इट् ।
Tattvabodhini¶
अतः आदेः - पररूपापवाद इति ।अपवाद॑ इत्ययं ग्रन्तो नामधातुप्रक्रियास्थस्वग्रन्थेन सह विरुध्यते । तत्र हि अ इवाचरति अति । प्रत्ययग्रहणमुपनीय कास्यनेकाजित्युक्तेर्नाम् । औ । अतुः । उः । द्वित्वम्अतो गुणे॑,अत आदेः॑ इति दीर्घः । णल औ वृद्धिरित्युक्तत्वात् । हलादिःशेषात्प्रागेव परत्वात्अत आदे॑ दिति दीर्घे कृते तु पररूपशङ्कापि तत्र नास्तीति चिन्त्योऽयं ग्रन्थ इति नव्याः ।
Padamanjari¶
ठादेःऽ इति वचनादत्र तदन्तविधिर्न भवति, लिटीत्यनुवर्तते, किद्ग्रहणं तु निवृतम् । ठतो गुणेऽ पररूपत्वे प्राप्ते दीर्घत्वमिदमारभ्यते । तपरकरणं किम् ? दीर्घस्य मा भूत् - ठाच्छि आयामेऽ, आच्छ, आञ्च्छतुः, आञ्छुः । किं च स्यात्, यद्यत्र दीर्घः स्यात् ?’तस्मान्नुड् द्वहलः’ इति नुट् प्रसज्येत । यद्यप्यत्रापि ह्रस्वत्वे कृते अद्भवति, तथापि तपरकरणसामर्थ्याद् ठदेव योऽत्ऽ इति विज्ञानात् स्वाभाविकस्य मात्रिकस्य परिग्रहः ॥
Nyaas¶
लिटीत्यनुवर्तते। किद्ग्रहणं तु निवृत्तम्। अतो गुणे (6.1.97) इति पररूपत्वे प्राप्ते दीर्घत्वमारभ्यते। तपरकरणं स्वभावत एव यो ह्रस्वस्तस्य दीर्घो यथा तेनोपदेशे वो दीर्घस्तस्य ह्रस्वत्वे कृतेऽपि दीर्घो न भवति - आच्छि आयामे (धातुपाठः-209), आच्छ, आच्छतुः, आच्चुरिति। लिट्, तिपो णल्, तसोऽतुम्, झेरुस्, द्विर्वचने हलादिशेषे ह्रस्वः (7.4.59) । किञ्च स्याद्? यद्यत्र दीर्घः स्यात्? तस्मारुआउड्द्विहलः (7.4.71) इति नुट्? स्यात्। आदेः इति वचनादिहान्तस्य दीर्घो न भवति - पपाचेत्यादौ॥
Prakriyasarvasvam¶
अभ्यासस्यादेरतो दीर्घः स्यात् । आ अस् अ । सवर्णदीर्घः । गोपायामास । एवं आसतुः आसुः । आसिथ आसथुः आस । आस आसिव आसिम । इत्यामन्तेन सहैव प्रयोग्यम् । भोजस्त्वाह । <karika>आङ्कृञां व्यवधानेन प्रयोगश्छान्दसो भवेत् । भाषायामपि केपाश्चिन्मतेनोभयथा किल ॥ ७०० ॥</karika> तेन ‘तं पातयां प्रथममास’ इत्यादि सिद्धम् । कर्मणि तङ् । गोपायाञ्चक्र इत्यादि सन्न इत्यादिवत् । तथा गोपायाम्बभूवे । गोपायामासे । एवं आसाते आसिरे आसिषे आसाथे आसिध्वे आसे आसिवहे आसिमहे इत्यामन्तेन योज्यम् । हरस्तु एशिटोरस्तिसकारस्य ‘ह एति’ इति हत्वे गोपायामहे इत्याह । हत्वं सार्वधातुक एवेति मते लिट आर्धधातुकत्वेन तदभावात् पूर्वोक्तमपि स्यात् इति । एवं कासेस्तङ्वत् आमि कासाञ्चक्रे । ‘काश् प्रत्ययात्’ इति कौमुद्युक्तपाठे काशेराम् । प्रकाशाञ्चक्रे । अन्यतरपाठेऽन्यतरस्यामभावात् चकासे चकाशे इत्यपि । कासाञ्चक्रे पुरौ सौधैः इति कासेरेव दीप्त्यर्थमाह भटिः । आशीरादौ गोपाय्यात् । गोपायिता । गोपायिष्यति । कर्मणि गोपायिषीष्ट । गोपायिषीढ्वम् गोपायिषीध्वम् इत्यादि । लुङादावामाभावपक्षे ऊदित्वादिविकल्पः । सेटि ‘नेटि’ इत्यवृद्धिः । अगोपीत् अगोपिष्टाम् । अनिटि वृद्धिः अगौप्सीत् । ‘झलो झलि’ । अगौप्ताम् । अगौप्सुः । अगौप्सम् । अगौप्स्व । कर्मणि अगोपि । सेट्त्वे अगोपिषाताम् । अगोपिढ्वम् अगोपिध्वम् । अनिट्त्वे ‘लिङ्सिचौ-’ इति कित्त्वम् । अगुप्साताम् । अगुप्सत । अगुप्थाः । अगुब्ध्वम् । अगुप्सि । अगुप्स्वहि । लिटि जुगोप जुगुपतुः जुगुपुः । विकल्पितेटामपि लिटि क्रादिनियमान्नित्यमिडिति केचित् । विकल्प एवेति माधवाद्याः । जुगोपिथ, जुगोप्थ । जुगुपथुः । जुगुप, जुगोप । जुगुपिव, जुगुप्व । जुगुपिम, जुगुप्म । एवमूदितां सर्वत्र ज्ञेयम् । कर्मणि जुगुपे । जुगुपाते । जुगुपिषे, जुगुप्से । जुगुपिध्वे, जुगुब्ध्वे । जुगुपिवहे, जुगुप्वहे । आशीरादौ गुप्यात् । गोपिता, गोप्ता । गोपिष्यति, गोप्स्यति । कर्मणि गोपिषीष्ट, गुप्सीष्ट । गोपिषीध्वम्, गुप्सीध्वम् इत्यादि । धूपादेस्तु धूप सन्तापे धूपायत्यगुरुणा गृहम् । सौरभ्याय धूमेन सन्तापश्चात्र । सन्तापमात्रेऽप्यस्ति । धूपायत्यरिम् । विच्छ गतौ विच्छायति । पणायति । पनायति । द्वयोः स्तुत्यर्थ एव । ‘वणिजां पणायाम्’ इति भट्टिप्रयोगाद् व्यवहारेर्थेऽप्यस्तीति हरः । एषां लुङादावायाभावपक्षे पणिपन्न्योरनुदात्तेत्त्वात् तङेवेति भेदः । तयोराये कृतेऽपि तङित्येके इति कौमुदी । तेन पणायते पनायते इत्यपि । विच्छेस्तुदादित्वादाये कृतेऽपि श एव न शबिति हरः । तेन विच्छायती विच्छायन्तीति स्त्रियां नुम्विकल्पो भेदः । केचिदस्य सार्वधातुकेऽप्यायविकल्पमाहुः तेन विच्छतीत्यपि । इति । ऋति सौत्रो धातुर्दयादावुक्तः ।
Sutra Prayogas¶
प्राशुः (शिशुपालवधम्): अत आदेः इत्यभ्यासदीर्घः।
महेष्वास (शिशुपालवधम्): अत आदेः इत्यभ्यासदीर्घः।
यायजूकाः (भट्टिकाव्यम्): अत आदेः इति दीर्घत्वम्।
आनंहिरे (भट्टिकाव्यम्): अत आदेः इति दीर्घः।
वनेश्वानभ्र (भट्टिकाव्यम्): लिटि अत आदेः इति दीर्घः।
आट (भट्टिकाव्यम्): अटेरभ्या- सस्य अत आदेः इति दीर्घत्वम्।
आनशिरे (भट्टिकाव्यम्): अत आदेः इति दीर्घत्वम्।
प्राण (भट्टिकाव्यम्): अत आदेः इति दीर्घत्वम्।
आनर्जुर् (भट्टिकाव्यम्): अत आदेः इति दीर्घः।