74071: तस्मान्नुड् द्विहलः

Padacheda: तस्मात् | S | 5 | 1 |

नुट् | S | 1 | 1 |

द्विहलः | S | 6 | 1 |

Sutrartha


Vasu English Summary

After such a lengthened आ of the reduplicate there is added the augment नुट् (न्) to the short अ of the root which ends in a double consonant.

Vasu English Translation

After such a lengthened आ of the reduplicate there is added the augment नुट् (न्) to the short अ of the root which ends in a double consonant. As from अञ्च्-आ अञ्च् = आन् अञ्च्, which with the affixes of the Perfect gives us, आनङ्ग, आनङ्गतुः, आनङ्गुः ॥ From अञ्ज्-आनञ्ज, आनञ्जतुः, आनञ्जुः ॥ Why do we say ‘containing two consonants’? Observe आट, आटतुः, आटुः ॥

With regard to नुट् augment, ऋ is considered like र्, as आनृधतुः, आनृधुः ॥ This proceeds on a vartika to be found under the Pratyahara sutra ऐ औच् ॥ The vartika is नुड्विधि-लादेश-विनामाषु ऋकारे प्रतिविधातव्यम् ॥ The examples of लादेश are क्लृप्तः, क्लृप्तवान्; (See (8.2.18)) and of विनाम are कर्तॄणाम् and भर्तॄणाम् ॥

Kashika

तस्मादतोऽभ्यासाद् दीर्घीभूतादुत्तरस्य द्विहलोऽङ्गस्य नुडागमो भवति। आनङ्ग, आनङ्गतुः, आनङ्गुः। आनञ्ज, आनञ्जतुः, आनञ्जुः। द्विहलः इति किम्? आट, आटतुः, आटुः। ऋकारैकदेशो रेफो हल्ग्रहणेन गृह्यते, तेन इह अपि द्विहलोऽङ्गस्य नुडागमो भवति, आनृधतुः, आनृधुः।

Siddhanta Kaumudi

द्विहलोधातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द । आर्दीत् ।{$ {!56 नर्द!} {!57 गर्द!} शब्दे$} । णोपदेस्तवाभावान्न णः । प्रनर्दति । गर्दति । जगर्द ।{$ {!58 तर्द!} हिंसायाम्$} । तर्दति ।{$ {!59 कर्द!} कुत्सिते शब्दे$} । कुत्सिते कौक्षे । कर्दति ।{$ {!60 खर्द!} दन्दशूके$} । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति । चखर्द ।{$ {!61 अति!} {!62 अदि!} बन्धने$} । अन्तति । आनन्त । अन्दति । आनन्द ।{$ {!63 इदि!} परमैश्वर्ये$} । इन्दति । इन्दांचकार ।{$ {!64 बिदि!} अवयवे$} । पवर्गतृतीयादिः । बिन्दति । अवयवं करोतीत्यर्थः । भिदीति पाठान्तरम् ।{$ {!65 गडि!} वदनैकदेशे $}। गण्डति । अन्तत्यादयः पञ्चैते न तिङ्विषया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति ।{$ {!66 णिदि!} कुत्सायाम्$} । निन्दति । प्रणिन्दति ।{$ {!67 टुनदि!} समृद्धौ$} ॥

Laghu Siddhanta Kaumudi

द्विहलो धातोर्दीर्घीभूतात्परस्य नुट् स्यात्। आनर्च। आनर्चतुः। अर्चिता। अर्चिष्यति। अर्चतु। आर्चत्। अर्चेत्। अर्च्यात्। आर्चीत्। आर्चिष्यत्॥ {$ {! 10 व्रज !} गतौ $} (धातुपाठे (01.0286)) ॥ व्रजति। वव्राज। व्रजिता। व्रजिष्यति। व्रजतु। अव्रजत्। व्रजेत्। व्रज्यात्॥

Balamanorama

तस्मान्नुड् द्विहलः - लिटि णलि द्वित्वे हलादिशेषे अत आदेरित्यभ्यासाकारस्य दीर्घे आ अर्देति स्थिते — तस्मान्नुट् । द्वौ हलौ यस्य तस्येति विग्रहः । तच्छब्देनअत आदे॑रिति कृतदीर्घः परामृश्यते । तदाह -दीर्घीभूतादिति । टकार इत् । उच्चारणार्थः । टित्त्वादाद्यवयवः । तदाह — आनर्देति । आर्दीदिति ।इट ईटी॑ति सिज्लोपः । नर्देत्यादि स्पष्टम् । कर्देति । कुत्सितशब्देन कुत्सितविशेषो विवक्षित इत्याह — कौक्ष इति । कुक्षिभवे इत्यर्थः । खर्देति । दन्दशूकः — दंशनस्वभावः सर्पः । ‘दन्दशूको बिलेशयः’ इत्यमरः । ननु सर्पस्य क्रियात्वाऽभावात्कथं धात्वर्थत्वमित्यत आह — दंशनेति । अति अदीति । इदित्त्वान्नुम् । तदाह — अन्ततीति । आनन्तेति ।अत आदे॑रिति दीर्घः ।तस्मान्नुड् द्विहलः॑ इति नुट् । एवम्-अन्दति । आनन्देति । नुट् । आन्दीत् । इदीति । परमैआर्यम् = परमेआरीभवनम् । इन्दतीति । इदित्त्वान्नुम् । इन्दांचकारेति ।इजादेश्चे॑त्याम् । बिदीति । इदित्त्वान्नुमित्याह — बिन्दतीति । नन्ववयवस्य अक्रियारूपत्वातक्थं धात्वर्थमित्यत आह — अवयवं करोतीत्यर्थ इति । अबिन्दीत् । अबिन्दिष्टामित्यादि । पाटान्तमिति । पवर्गीयचतुर्थादिरित्यर्थः । गडीति । वदनैकदेश इति । तत्क्रियायामित्यर्थः । गण्डति । अगण्डीत् । अन्तत्यादय इति । अति अदि बन्धने, इदि परमैआर्ये, बिदि अवयवे, गडि वदनैकदेशे इति पञ्च धातवस्तिङ्प्रकृतयो न भवन्तीति काश्यपमतमित्यर्थः । अन्य इति । काश्यपादन्ये मुनयस्तिङमपि एभ्य् इच्छन्तीत्यर्थः । णिदीति । इदित्त्वान्नुम् । णोपदेशत्वाण्णस्य नत्वम् । तदाह — निन्दतीति । प्रणिन्दतीति ।उपसर्गादसमासेऽपी॑ति णत्वम् । टु नदीति । समृद्धिः — प्रजापआआदिसम्पत्तिः ।

Tattvabodhini

तस्मान्नुड् द्विहलः - तस्मात् । तच्छब्देन कृतदीर्घाकारः परामृश्यत इत्याह — दीर्घीभूतादिति । खर्द [दन्दशूके] दन्दशूकस्य सर्पत्वात्तद्वाचित्वे धातुत्वं न सङ्गच्छत इत्याह — दन्दशूकक्रियायामिति । दन्दशूककर्तृकायामित्यर्थः । आनन्तेति । इदित्त्वान्नुम् । तस्मान्नुड् द्विहलः इति नुट् । वदनैकदेश इति । तत्क्रियायामित्यर्थः ।

Padamanjari

आनङ्गेति । ठगि रगि लघि गत्यर्थाःऽ । आनञ्जेति । ठाञ्जू व्यक्तिम्रक्षणकान्तिगतिषुऽ । द्विहल्ग्रहणमनेकहलुपलक्षण्, तेनानर्छेअत्यत्र गुणे रपरे कृते त्रिहलोऽपि भवति । ठैऔच्ऽ इत्यत्र’वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयस्तेषु तत्कार्यं न भवति इत्युक्त्वा’नुड्विधिलादेशविनामेषु ऋकारे प्रतिविधातव्यम्’ इत्युक्तम्, तत्रावसरे प्राप्ते नुड्विधौ प्रतिविधते - ऋकारैकदेस इत्यादि । अत्र द्विहल्ग्रहणं न कर्तव्यम्,’तस्मान्नुट्’ इत्येवास्तु; एवमुच्यमाने आटतुः, आटुअरित्यत्रापि प्राप्नोति ? ठश्नोतेश्च’ इत्येतन्नियमार्थं भविष्यति - अद्विहलो यदि भवति अश्नोतेरेवेति; अश्नातिनिवृत्यर्थं नाश्न इत्येवं वाच्यं स्यात्, तदेवमन्तरेणापि द्विहल्ग्रहणं सिद्धे यद् द्विहल्ग्रहणं करोति तस्यैतदेव प्रयोजनम् - द्विहल्छायानुकारिणोऽपि यथा स्यादिति ॥

Nyaas

द्वौ हलौ यस्य तद्द्विहल्। आनङ्ग, आनङ्गतुः, आनङ्गुः इति। अगि रगि लगि गत्यर्थाः (धातुपाठः-146,144,145), इदित्त्वान्नुम्। आनञ्ज, आनञ्जतुः, आनञ्जुः इति। अन्जू व्यक्तिम्रक्षणकान्तिगतिषु (धातुपाठः-1458)। ऐऔच् (मा।सू।4) इत्यत्र प्रत्याहारे वर्णेषु ये वर्णैकदेशा वर्णान्तरसमानाकृतयः, तेषु तत्कार्यं न भवति, तच्छायानुकारिणो हि ते, न पुनस्त एव; पृथक्प्रयत्ननिर्वर्त्त्यं हि वर्णमिच्छन्त्याचार्याः इत्युक्त्वा नुड्विधिलादेशविनामेष्वृकारे प्रतिविधातव्यम् इत्युक्तम्। तत्रावसरप्राप्त्या ऋकारे नुङ्विधौ प्रतिविधानमाह - ऋकारैकदेशो रेफौ हल्ग्रहणेन गृह्रते इति। आनुधतुः, आनृधुः इति। ऋधु वृद्धौ (धातुपाठः-1271)। कथं पुनर्वर्माअत्मकानां हला ग्रहणेनावर्णात्मक ऋकारैकादेशो रेफो गृह्रते? द्विहल्ग्रहणसाममथ्र्यादिति भावः। अत्र तस्मान्नुट् इत्येवं वक्त्व्यम्। न चैवं सत्याटतुः, आटुरित्यादौ नुट्प्रसङ्गो भवति; अश्नोतेरित्यस्य नियमार्थत्वात् - अद्विहलो यदि भवति नुट्? तदाश्नोतेरेव, नान्यस्येति। अश्नाति निवृत्त्यर्थं तदेतन्नाशङ्कनीयम्; यद्येतावत्? प्रयोजनं स्यात्? नाश्नः इत्येवं ब्राऊयात्। तस्मान्नियम एवास्य प्रयोजनम्। तदेवमन्तरेणापि द्विहल्ग्रहणं सिद्धे यतो द्विहल्ग्रहणं करोति तस्यैतत्? प्रयोजनम् - द्विहल्समानाकृतेरपि यथा स्यात्। यस्याप्येको हल्? मुख्योऽवयवो द्वितीयस्त्वमुख्यस्तच्छायानुकारित्वादुपचारेण हलव्यपदेशार्हः, तस्यापि यथा स्यादित्येवमर्थम्। एतस्य कथं ल्यते? यद्यत्र द्विहल इत्येवंश्रुतिस्तच्छायानुकारिण्यपि ऋकारावयवे रेफे वर्तते, नान्यथा। तस्माद्द्विहल्ग्रहणसामर्थ्यादत्र हल्ग्रहणेन ऋकारैकदेशो रेफो गृह्रते; अन्यथा द्विहल्ग्रहणमनर्थकं स्यात्॥

Prakriyasarvasvam

दीर्धीभूतादकारात् परस्य द्विहलो धातोर्नुट् स्यात् । आनर्त । ऋत् अतुस् । द्वित्वम् । हलादिशेषः । उरदत्त्वम् । हलादिशेषः । ‘अत आदे’ दीर्घः । आ ऋत् अतुम् । ‘ऋकारस्यरेफेणापि द्विहलत्वमिष्टम्’ । इति तस्मान्नुट् । आनृततुः । आनृतुः । आनर्तिथ । आनृतथुः । आनृत । आनर्त । आनृतिव । आनृतिम । कर्मणि आनृते । आनृतिध्वे । ऋत्यात् । कर्मणि अर्तिषीष्ट, अर्तिषीध्वम् । अर्तिता । अर्तिष्यते । आर्तिष्यत् ॥ अथात्मनेपदिनः । कमु कान्तौ

Sutra Prayogas

  • यायजूकाः (भट्टिकाव्यम्): तस्मान्नुड् द्विहलः इति नुट्।

  • वनेश्वानभ्र (भट्टिकाव्यम्): तस्मान्नुइद्विहलः इति नुट्।

  • आनर्चे (भट्टिकाव्यम्): तस्मान्नुड् द्विहलः इति नुट्।

  • आनंहे (भट्टिकाव्यम्): तस्मा- नुड् द्विहलः इति नुट्।

  • आनञ्चु (भट्टिकाव्यम्): तस्मान्नुड् द्विहलः इति नुडागमः।