74069: दीर्घ इणः किति

Padacheda: दीर्घः | S | 1 | 1 |

इणः | S | 6 | 1 |

किति | S | 7 | 1 |

Sutrartha


Vasu English Summary

A long vowel is substituted in the reduplicate of the root इ (एति) before a personal ending of the लिट् (Perfect Tense), which has an indicatory क्।

Vasu English Translation

A long vowel is substituted in the reduplicate of the root इ (एति) before a personal ending of the लिट् (Perfect Tense), which has an indicatory क्। As ईयतुः, ईयुः ॥ These are thus formed इ + अतुस् = य् + अतुः (य् substituted by इ (6.4.81)). Then there is reduplication, the य् becomes sthanivat to इ by (1.1.59), and we have इ य् + अतुः and then by the present rule इयतुः ॥ Why do we say before a कित् affix? Observe इयाय, इययिथ ॥

Kashika

इणोऽङ्गस्य योऽभ्यासः तस्य दीर्घो भवति किति लिटि परतः। ईयतुः, ईयुः। इणो यण् (6.4.81) इति यणादेशे कृते स्थानिवद्भावाद् द्विर्वचनम्। कितीति किम्? इयाय। इययिथ।

Siddhanta Kaumudi

इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥

Laghu Siddhanta Kaumudi

इणोऽभ्यासस्य दीर्घः स्यात् किति लिटि। ईयतुः। ईयतुः। ईयुः । इयायिथ, इयेथ । एता। एष्यति । एतु । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥

Balamanorama

दीर्घ इणः किति - दीर्घ इणः । ‘अत्र लोपः’ इत्यतोऽभ्यासस्येति,व्यथो लिटीत्यतो लिटीति चानुवर्तते । तदाह — इणोऽभ्यासस्येति । ईयतुरिति । भारद्वाजनियमातॢ वडिति मत्वा आह — इययिथ इयेथेति । इयथुः ईय । इयाय इयय ईयिव ईयिम । एता । एष्यति । एतु — इतात् इताम् यन्तु । इहि — इतात् इतम् इत । अयानि अयाव अयाम । ऐदिति लङि तिप इकारलोपे इकारस्य गुणे आटो वृद्धिः । आयन्निति । झेरन्तादेसे इकारलोपे इ — अन् इति स्थितेइणो य॑णिति यणि कृते तस्याभीयत्वेनाऽसिद्धत्वादाडिति भावः । ऐः ऐतम् ऐत । आयम् ऐव ऐम । विधिलिङ्याह — इयादिति । इयाताम् । इयुरित्यादि । आशीर्लिङ्याह — ईयादिति ।अकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । ईयास्तामित्यादि ।

Tattvabodhini

दीर्घ इणः किति - दीर्घ इणः किति ।अत्र लोपोऽभ्यासस्ये॑त्यतोऽभ्यासस्येत्यनुवर्तते ।व्यथो लिटीत्यतो लटीति च । किति किम् । इयाय । अत्र वदन्ति - इह दीर्घे कृतेऽपिअभ्यासस्याऽसवर्णे इतीयङा रूपसिद्धेः कितीति व्यर्थम् । न च दीर्घस्येयङि दीर्घविधानं व्यर्थमिति वाच्यम्, ईयतुः ईयरित्यत्रिवार्णादाङ्गं बलीयः॑ इति यणि कृते दीर्घविधेरावश्यकत्वात् । किंच लिटीत्यनुवर्तनमपीह व्यर्थमेव, व्यावर्त्त्याऽभावादिति । एता । एष्यति । एतु । इतात् । इताम् । यन्तु । इहि । उत्तमे तु अयानि । अयाव । अयाम । लङ्मध्यमे-ऐः । ऐतम् । ऐत । उत्तमे तु आयम् । ऐव । ऐम । ईयादिति ।अकृत्सार्वे॑ति दीर्घः ।

Padamanjari

यणादेशे कृत इति । परत्वात् । स्थानिवद्भावादिति ।’द्विर्वचने’ चिऽ इति रूपस्थानिद्भावः । इयाय, इययिथेति । णलि थलि च वृद्धिगुणयोः कृतयोः स्थानिवद्भावाद् द्विर्वचनम्, ठभ्यासस्यासवर्णेऽ इतीयङ् ॥

Nyaas

इणो ह्रस्वस्यैव श्रवणे प्राप्ते दीर्घत्वं विधीयते। ईयतुः ईयुः इति। ननु च परत्वात्? इणो यण् (6.4.81) इति यणादेशे सत्यनच्कत्वात्? द्विर्वचनं न प्राप्नोतीत्यत आह - इणो यण् इत्यादि। स्थानिवद्भावस्तु द्विर्वचनेऽचि (1.1.59) इत्यनन। स च नियतकाले द्विर्वचन एव कर्तव्ये कृते च तस्मिन्नादेशरूप एवावतिष्ठते। इयाय, इययिथ इति। णलि थलि चेति यथाक्रमं वृद्धिगुणयोः कृतयोः स्थानिवद्भावाद्द्विर्वचनमिकारः, तस्य `अभ्यासस्यासवर्णे, (6.4.78) इतीयङ्॥

Prakriyasarvasvam

किति लिटीणोऽभ्यासस्य दीर्घः स्यात् । ईयतुः । ईयुः । पित्त्वाद् गुणः। इययिथ, इयेथ, ईयथुः । ईय । इयाय, इयय । ईयिव । कर्मणि ईये । ईयिषे । ईयिध्वे, ईयिध्वे । आशिषि । ईयात् । ईयासूताम् ।

Sutra Prayogas

  • ईयुर्भरद्वाज-मुनेर्निकेतं (भट्टिकाव्यम्): अभ्यासस्य दीर्घ इणः किति इति दीर्घत्वम्।