74039: कव्यध्वरपृतनस्यर्चि लोपः

Padacheda: कव्यध्वरपृतनस्य | S | 6 | 1 |

ऋचि | S | 7 | 1 |

लोपः | S | 1 | 1 |

Sutrartha


Vasu English Summary

In the ऋग् वेद the final of 1. कवि 2. अध्वर and 3. पृतना is dropped before the Denominative affix क्यच् ।

Vasu English Translation

In the ऋग् वेद the final of 1. कवि 2. अध्वर and 3. पृतना is dropped before the Denominative affix क्यच् । As कव्यन्तः सुमनसः (not in the Rig Veda), अध्वर्यन्तः (not in this case in the Rig Veda), पृतन्यन्तस्तिष्ठन्ति (not in this connection in the Rig. Veda). The examples given above are of Kasika : according to Pro. Bohtlingk none of them are from the Rig Veda. The following are given by Bhattoji Dikshita in his Siddhanta **Kaumudi: स पूर्वया निविदा कव्यतायोः (Rig I.96.2). अध्वर्युं वा मधुपाणिम् (Rig X. 41.3), दमयन्तं पृतन्युम् ॥

Kashika

कवि अध्वर पृतना इत्येतेषामङ्गानां क्यचि परतो लोपो भवति ऋचि विषये। कव्यन्तः सुमनसः। अध्वर अध्वर्यन्तः। पृतना पृतन्यन्तः तिष्ठन्ति।

Siddhanta Kaumudi

एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः (सपूर्व॑या नि॒विदा॑ क॒व्यता॒योः) । अध्वर्युं वा मधुपाणिम् । दमयन्तं पृतन्युम् (द॒मय॑न्तं पृत॒न्युम्) । दधातेर्हि (SK3076) । जहातेश्च क्त्वि (SK3331) ॥

Nyaas

काव्यन्तः इति। अलोऽन्त्यस्य (1.1.52) लोपः। क्यजन्ताच्छतृप्रत्ययः, तदन्ताज्जस॥

Prakriyasarvasvam

एषामृचि क्यच्यन्तलोपः स्यात् । कव्यतायोः । अध्वर्यन्तः पृतन्यति ।