74034: अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु¶
Padacheda: अशनायोदन्यधनाया | S | 1 | 3 |
बुभुक्षापिपासागर्द्धेषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The Denominative roots 1. अशनाय 2. उदन्य and 3. धनाय are irregularly formed when they respectively mean 1. ‘to be hungry’ 2. ‘to be thirsty’ and 3. ‘to be greedy’.
Vasu English Translation¶
The Denominative roots 1. अशनाय 2. उदन्य and 3. धनाय are irregularly formed when they respectively mean 1. ‘to be hungry’ 2. ‘to be thirsty’ and 3. ‘to be greedy’. Thus अशनायति from अशन + क्यच्, आ instead of ई; the other form being अशनीयति who is not hungry at the time, but wishes to get food for some future occasion, and therefore when not meaning ‘to be hungry’; उदन्यति ‘he is thirsty’, उदन् being substituted for उदक; in any other sense we have उदकीयति, who wants water for purposes of bathing &c. धनायति ‘he is greedy’; in any other sense, धनीयति who is poor, and therefore wishes to get riches.
Kashika¶
अशनाय उदन्य धनाय इत्येतानि निपात्यन्ते बुभुक्षा पिपासा गर्ध इत्येतेषु अर्थेषु। अशनाय इत्यशनशब्दस्य आत्वं क्यचि निपात्यते। अशनायतीति भवति बुभुक्षा चेत्। अशनीयति इत्येव अन्यत्र। उदन्य इति वदकशब्दस्य उदन्नादेशो निपात्यते। उदन्यतीति भवति पिपासा चेत्। उदकीयति इत्येव अन्यत्र। धनाय इति धनशब्दस्य आत्वं निपात्यते। धनायतीति भवति गर्धः चेत्। धनीयति इत्येव अन्यत्र।
Siddhanta Kaumudi¶
क्यजन्ता निपात्यन्ते । अशनायति । उदन्यति । धनायति । बुभुक्षादौ किम् । अशनीयति । उदकीयति । धनीयति ॥
Balamanorama¶
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु - अशनायोदन्य । अशनाय, उदन्य, धनाय इत्येषां द्वन्द्वः । क्यजन्ता इति । एते त्रयः शब्दाः क्रमेण बुभुक्षादिष्वर्थेषु निपात्यन्ते इत्यर्थः । भोक्तुमिच्छा बुभुक्षा । पातुमिच्छा पिपासा । गर्द्धः अभिकाङ्क्षा । अशनायतीति । अश्यते यत्तदशनम् = अन्नं, तद्भोक्तुमिच्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते ।अकृत्सार्वे॑ति दीर्घः । उदन्यतीति । उदकं पातुमिच्छतीत्यर्थः । उदकशब्दस्य उदन्नादेशो निपात्यते, नलोपाऽबावश्च । धनायतीति । जीवनार्थं सत्यपि धने अधिकं धनं वाञ्छतीत्यर्थः ।क्यचि चे॑ति ईत्त्वाऽभावो निपात्यते । अशनीयतीति । अशनम् = अन्नं, तत्सङ्ग्रहीतुमिच्छति वैआदेवाद्यर्थमित्यर्थः । उदकीयतीति । सस्यादिसेचनार्थमुदकमिच्छतीत्यर्थः । धनीयतीति । दरिद्रः सन् जीवनाय धनमिच्छतीत्यर्थः ।
Tattvabodhini¶
अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु - अशनायोदन्य । क्यजन्ता इति । उदकशब्दस्योदन्भावोऽन्ययोर्दीर्घ इत्यपि ज्ञेयम् । इह यः सद्यएव भोक्तुमशनमिच्छति, यश्च पातुमुदकं, यश्च धने सत्यपि पुनर्धनं — तत्रोदाहरणानि । यस्तु कालान्तरोपयोगार्थमशनमिच्छति, यश्च स्नातुमुदकं,यश्च दरिद्रः सन् धनमिच्छति तत्र प्रत्युदाहरणानि । नुउदन्या तु पिपासा तृ॑डिति निघण्टौ परस्परसामानाधिकरण्यं न स्यात्, उदन्याशब्दस्य उदकेच्छावाचित्वादिति चेत् । अत्राहुः — अशनायती॑त्यादिषु अविवक्षितप्रकृत्यर्थं बुभुक्षापिपासादिकमेवार्थः, तथा च नोक्तदोष इति ।
Nyaas¶
भोक्तुमिच्छा बुभुक्षा। पातुमिच्छा पिपासा। गर्धनं गर्धः। अभिकाङ्क्षेत्यर्थः॥
Prakriyasarvasvam¶
गर्धोऽतिलोभः । <karika> क्यजन्ता अशनायाद्या बुभुक्षादौ निपातिताः । अशनायत्यभुक्तोऽसौ तृप्तश्चाप्यशनीयति ॥ ७९२ ॥ उदन्यति तृषा पातुं स्नातुमप्युदकीयति । धनायत्यतिलोभाढ्यो निस्वः किञ्चिद्धनीयति ॥ ७९३ ॥ </karika> प्रकृत्यर्थाविवक्षया जलमुदन्यति धनं धनायतीत्याद्यपि । ‘क्यच्च्योश्च’ (६-४-१५२) इत्यापत्ययलोपः । गर्गीयति । णिज्विधौ सङ्ग्रामयतेरेव सोपसर्गादिति नियमोक्तेरुपसर्ग पृथक्कृत्यैव सुब्धातुषु धातुस्वरूपमिति अडादिर्मध्ये स्यात् । सम्भोगीति-समभोगीत् । संग्रामयुद्ध’ इत्यस्य तु असङ्ग्रामयत इति स्यात् । अयं चुरादावनुदात्तेत् । ‘अकृत्सार्वधातुकयो-’ (७-४-२५) । इति दीर्घः । दधीयति । मधूयति । ‘रीङ्ऋतः ।’ (७-४-२७) भर्त्रीयति । हरेर्शब्दमिच्छति हरेयति३ । रायमिच्छति रीयति । ‘वान्तो यि-’ (६-१-७९) इत्यवावौ । गव्यति, नाव्यति । गोदुह्यति ।
Sutra Prayogas¶
धनायितुम् (किरातार्जुनीयम्): अशनायोदन्यधनाया बुभुक्षापिपासागर्धेषु इति निपातनादाकारः।
च्युताऽशनायः (भट्टिकाव्यम्): अशनायो इत्यादिना निपातितः।
उदन्यन् (भट्टिकाव्यम्): अशनायो इत्यादिना निपातितः।