74033: क्यचि च¶
Padacheda: क्यचि | S | 7 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Long ई is substituted for the final of अ or आ of a Nominal stem, before the Denominative affix क्यच् ।
Vasu English Translation¶
Long ई is substituted for the final of अ or आ of a Nominal stem, before the Denominative affix क्यच् । As पुत्रीयति, घटीयति, खट्वीयति, मालीयति ॥ This is an exception to (7.4.25). The separating of this aphorism from the preceding, is for the sake of the subsequent aphorism.
Kashika¶
अस्य इति वर्तते। क्यचि परतः अवर्णान्तस्य अङ्गस्य ईकारादेशो भवति। पुत्रीयति। घटीयति। खट्वीयति। मालीयति। अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) इत्यस्य अपवादः। पृथग्योगकरणमुत्तरार्थम्।
Siddhanta Kaumudi¶
अस्य ईत्स्यात् । आत्मनः पुत्रमिच्छति पुत्रीयति । वान्तो यि प्रत्यये (SK63) । गव्यति । नाव्यति । लोपः शाकल्यस्य (SK67) इति तु न । अपदान्तत्वात् । तथा हि ॥
Laghu Siddhanta Kaumudi¶
अवर्णस्य ईः। आत्मनः पुत्रमिच्छति पुत्रीयति॥
Balamanorama¶
क्यचि च - क्यचि च । ‘अस्य च्वौ’ इत्यतोऽस्येत्यनुवर्तते ।ई घ्राध्मो॑रित्यत ईग्रहणं चेति मत्वा शेषं पूरयति — अस्येति । अकारस्येत्यर्थः । पुत्रीयतीति । क्यचि पुत्र य इति स्थिते ईत्वे पुत्रीयमिच्छतीत्यत्र पुत्रशब्दान्न क्यच् । गव्यतीति । गामात्मन इच्छतीत्यर्थः । नाव्यतीति । नावमात्मन इच्छतीत्यर्थः । अपदान्तत्वादिति ।लोपः शाकल्यस्ये॑त्यस्य पदान्त एव प्रवृत्तेरिति भावः । नन्वन्तर्वर्तिविभक्त्या पदत्वमस्त्येवेत्यत आह — तथा हीति । यथा पदत्वं न भवति तथोच्यते इत्यर्थः ।
Tattvabodhini¶
यङि च - यङि च । इहगुणोऽर्तिसंयोगाद्यो॑रित्येतत्सर्वमप्यनुवर्तते । यकारपररेफस्येति । यदि भाष्योदाहरणं सामान्यापेक्षं ज्ञापकं स्यात्तदाऽर्यमाख्यत् आरर्यदित्यादि सिध्यति ।
Nyaas¶
अकृत्सार्वधातुकयोर्दीर्घः (7.4.25) इत्यस्यायमपवादः। चकारः अस्य (7.4.32) श्यनुकर्षणार्थः। अथ पृथग्योगकरणं किमर्थम्, नास्य च्चिक्यचोः इत्येकयोग एव क्रियताम्? इत्यत आह - पृथग्योगकरणम् इत्यादि। न च्छन्दस्यपुत्रम्य (7.4.35) इत्येवमाद्युत्तरकार्यं क्यचि यथा स्यात्, च्वौ मा भूत् - इत्येवमर्थो योगविभागः कृतः॥
Prakriyasarvasvam¶
अवर्णस्य क्यचि परे ईत्वं स्यात् । धातुत्वाल्लडादयः । आत्मनः प पुत्रीयति । मालीयति । अकर्मकत्वात्-भावे पुत्रीय्यते । लुङादौ-उ पुत्रीयाञ्चकार, पुत्रीय्यात् । पुत्रीयिता । इत्यादि । वेत्युक्तेर्वाक्यमपि । तीत्यत्र धात्वादित्वात् सत्वे प्राप्ते-‘सुब्धातुष्ठिवुष्वक्कतीनां नेति वाच्य इति तदभावः । एवं णकारीयतीत्यादौ ‘णोः नः’ (३-१-६५) इति नेष्टम् ।
Sudha¶
क्यचि चेति । अस्य च्वौ (7.4.32) इत्यतोऽस्येत्यनुवर्तते । ई घ्राध्मोः (7.4.31) इत्यत ईग्रहणञ्चेति मत्वा शेषं पूरयति-अवर्णस्येति । “पुत्रीयति “ । आत्मनः पुत्रमिच्छतीत्यर्थे द्वितीयान्तपुत्रशब्दात् सुप आत्मनः क्यच् (3.1.8) इति क्यचि “पुत्र अम् क्यच्” इति स्थिते सनाद्यन्ता धातवः (3.1.32) इति सूत्रेण समुदायस्य धातुसंज्ञाया सुपो धातुप्रातिपदिकयोः (2.4.71) इति अमो लुकि, “पुत्र क्यच्” इत्यत्र लशक्वतद्विते (1.3.8) इति ककारस्येत्संज्ञायां हलन्त्यम् (1.3.3) इति चस्येत्संज्ञायां तस्य लोपः (1.3.9) इति उभयोः कचयोर्लोपे, क्यचि च (7.4.33) इत्यनेन “पुत्र” इत्यत्र अकारस्य ईत्वे “पुत्रीय” इति जाते तस्मात् वर्तमाने लट् (3.2.123) इति लटि, लटस्तिपि, शपि अनुबन्धलोपे, अतो गुणे (6.1.97) इति पररूपत्वे च “पुत्रीयति” इति रूपम् । एवं सर्वत्र । लिटि - “पुत्रीयाञ्चकार” इत्यादि । लुटि - “पुत्रीयिता” । लृटि - “पुत्रीयिष्यति” । लोटि - “पुत्रीयतु” । लङि - </qt>अपुत्रीयत्</qt> । लिङि - “पुत्रीयेत्” । आशिषि - “पुत्रीय्यात्” । लुङि - “अपुत्रीयीत्” । लृङि - “अपुत्रीयिष्यत्” । इत्यादि ।
Sutra Prayogas¶
पुत्रीयता (भट्टिकाव्यम्): क्यचि च इतीत्वम् ।