74035: न च्छन्दस्यपुत्रस्य

Padacheda: न | S | 0 | 0 |

छन्दसि | S | 7 | 1 |

अपुत्रस्य | S | 6 | 1 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas) the above rules causing lengthening or the substitution of long ई for the final vowel of the अङ्ग (stem), do not apply, except in the case of पुत्र।

Vasu English Translation

In the छन्दस् (Vedas) the above rules causing lengthening or the substitution of long ई for the final vowel of the अङ्ग (stem), do not apply, except in the case of पुत्र। Thus मित्रयुः, संस्वेदयुः, देवाञ् जिगाति सुम्नुयुः ॥ But पुत्रीयन्तः, सुदानवः (Rig VII.96.4).

Vart:- It should be rather stated पुत्र and the rest: as जनीयन्तोऽन्वयः See (3.2.170), for the affix उ ॥

Bhashya

न च्छन्दस्यपुत्रस्य अत्यल्पमिदमुच्यते - अपुत्रस्येति ॥ अपुत्रादीनामिति(2) वक्तव्यम् ॥ इहापि यथा स्यात् जनीयन्तो न्वग्रवः । पुत्रीयन्तः सुदानवः ॥ छन्दसि प्रतिषेधे दीर्घप्रतिषेधः ॥ छन्दसि प्रतिषेधे दीर्घत्वस्य प्रतिषेधो वक्तव्यः । संस्वेदयुः मित्रयुः ॥ न वाऽश्वाघस्याद्वचमनधारणार्थम् ॥ न वा वक्तव्यम् ॥ किं कारणम् ? ॥ (अश्वाघस्याद्वचनमवधारणार्थम्(1)) ॥ अश्वाघस्याद्वचनमवधारणार्थं भविष्यति - अश्वाघयोरेव च्छन्दसि दीर्घो भवति(2) नान्यस्येति ॥ ( न छन्दस्यपुत्रस्य )

Kashika

छन्दसि विषये पुत्रवर्जितस्य अवर्णान्तस्य अङ्गस्य क्यचि यदुक्तं तन् न भवति। किं चोक्तम्? दीर्घत्वम् ईत्वं च। मित्रयुः। संस्वेदयुः। देवाञ् जिगाति सुम्नयुः। अपुत्रस्य इति किम्? पुत्रीयन्तः सुदानवः। अपुत्रादीनाम् इति वक्तव्यम्। जनीयन्तोऽन्वग्रवः।

Siddhanta Kaumudi

पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदीर्घौ न । मित्रयुः । क्याच्छन्दसि (SK3150) इति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः (पु॒त्रीयन्तः॑ सु॒दान॑वः) ॥ अपुत्रादीनामिति वाच्यम् ॥ जनीयन्तोन्वग्रवः (ज॒नी॒यन्तोन्वग्र॑वः) । जनमिच्छन्त इत्यर्थः ॥

Padamanjari

इहानन्तर्थादीत्वस्यैव प्रतिषेधः प्राप्नोति, ततश्चापवादेऽपनीते उत्सर्गः ठकृत्सावेधातुकयोःऽ इति दीर्घः प्राप्नोतीत्याशङ्क्याह - क्यचि यदुक्तं तन्न भवतीति । किं पुनस्तत् ? इत्यत आह - दीर्घत्वमीत्वं चेति । एवं मन्यते - यदयम् ठश्वाघस्यात्ऽ इत्यात्वं शास्ति, तज्ज्ञापयति - दीर्घस्याप्ययं प्रतिषेध इति; अन्यथा दीर्घेणैव सिद्धत्वादात्ववचनमनर्थकं स्यादिति । मित्रयुरित्यादौ’क्याच्छन्दसि’ इत्युप्रत्ययः । पुत्रमिच्छन्तः पुत्रीयन्तः । जनमिच्छन्तो जनीयन्तः, लटः शत्रादेशः, ठुगिदचाम्ऽ इति नुम् । अपरे त्वाहुः - जनीमिच्छन्तो जनीयन्तः, जनीति वधूरुच्यत इति । तत्रादिग्रहणस्य प्रयोजनान्तरं मृग्यम् ॥

Nyaas

क्यचि यदुक्तं तन्नभवति इति। किं पुनस्तत्? इत्याह - दीर्घत्वमीत्वञ्च इति। ननु च अनन्तरस्य विधिर्वा भनत प्रतिषेधो वा (व्या।प।19) इत्यनन्तरस्य ईत्वस्य प्रतिषेधेन भवितव्यम्, न तु व्यवहितस्य दीर्घत्वस्य? नैष दोषः; अआआधस्यात् (7.4.37) इत्यआआघयोराद्वचनं ज्ञापकम् - दीर्घत्वस्याप्ययं प्रतिषेधो भवतीति; अन्यथा दीर्घत्वेनैव सिद्धत्वादाकारकरणमनर्थकं स्यात्। मित्रयुः इति। क्याच्छन्दसि (3.2.170) इत्युप्रत्ययः; अतो लोपः (6.4.48) इत्यकारलोपः। अपुत्रादीनामिति वक्तव्यम् ति। पुत्रादीनां प्रतिषेधो न भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - क्यचि च (7.4.33) इत्यस्यानन्तरं पुत्रस्येति वक्तव्यम्, किमर्थमिदम्? नच्छन्दसि इति प्रतिषेधं वक्ष्यति तद्बाधनार्थम्। एवं अपुत्रस्य इति नञ्? उच्चारयितव्यो न भवति। तदिदं क्यचि च (7.4.33) इत्यस्यानन्तरं पुत्रस्येति वक्तव्ये यदिहापुत्रस्येति वचनं तत्? पूत्रादीनां प्रतिषेधो यथा स्यादित्येवमर्थम्। एतच्च पुत्रस्योपलक्षणत्वाल्लभ्यते॥

Prakriyasarvasvam

पुत्रादन्यस्यावर्णान्तस्य क्यचि परे ईत्वं तदभावे दीर्घश्च प्राप्तो न स्यात् । देवान् जिगाति सुम्नयुः । ‘क्याच्छन्दसि’ (३-२-१२०) इत्युः । पुत्रस्य तु पुत्रीयन्तः सुदानवः ।<!अपुत्रादीनामिति वाच्यम्!> (वा. ७-४-३५) । जनात् क्यच् । जनीयन्तो न्वग्रवः ।

Vartika

अपुत्रादीनामिति वक्तव्यम् ।