74029: गुणोऽर्तिसंयोगाद्योः

Padacheda: गुणः | S | 1 | 1 |

अर्तिसंयोगाद्योः | S | 6 | 2 |

Sutrartha


Vasu English Summary

गुण is substituted for the final ऋ in the root ऋ (अर्ति) and in those roots ending in ऋ in which the vowel is preceded by a conjunct consonant, when the Passive character यक् or the Benedictive augment यास् follows.

Vasu English Translation

गुण is substituted for the final ऋ in the root ऋ (अर्ति) and in those roots ending in ऋ in which the vowel is preceded by a conjunct consonant, when the Passive character यक् or the Benedictive augment यास् follows. The words ऋतः, यकि and लिङि are understood here. Not so the word श as its anuvritti is impossible. Thus अर्यते, अर्यात्, स्मर्यते and स्मर्यात् ॥ This is an exception to (1.1.5). In सं स्क्रियते and संस्क्रियात् (6.1.135), there is no Guna, either because in स्कृ the augment स् is considered as Bahiranga and therefore asiddha, or because it is considered as no part of (or non-attached to) कृ, and therefore स् कृ is not a root beginning with a conjunct consonant. See however (7.4.10), where in forming संचस्करतुः, स्कृ is considered as a root beginning with a conjunct consonant. See also Mahabhashya on (6.1.135). The यि (7.4.22) is understood here also; the Benedictive affix must begin with य, therefore not here स्वृषीष्ट, ध्वृषीष्ट ॥ The word non-sarvadhatuka is also understood here, the rule does not apply to the Potential, as इयृयात्, there is slu substitution of sap, reduplication, then there is इ substitution in the reduplicate by (7.4.77), then इयङ् by (6.4.78).

Kashika

ऋतः यकि लिगि इति वर्तते। श इत्यसम्भवात् निवृत्तम्। गुणो भवति अर्तेः संयोगादीनाम् ऋकारान्तानां यकि परतो लिगि च यकारादौ असार्वधातुके। अर्यते। अर्यात्। स्मर्यते। स्मर्यात्। इह संस्क्रियते, संस्क्रियातिति सुटो बहिरङ्गलक्षणस्य असिद्धत्वातभक्तत्वात् वा संयोगादित्वमङ्गस्य न अस्तीति गुणो न प्रवर्तते। यि इत्येव, स्वृषीष्ट। ध्वृषीष्ट। असार्वधातुके इत्येव, इयृयात्।

Siddhanta Kaumudi

अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् । अह्वार्ष्टाम् ।{$ {!932 स्वृ!} शब्दौपतापयोः$} । स्वरतिसूति - (SK2279) इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥

Laghu Siddhanta Kaumudi

अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत्॥ {$ {! 19 श्रु !} श्रवणे $} (धातुपाठे (01.1092)) ॥

Balamanorama

गुणोऽर्तिसंयोगाद्योः - आशीर्लिङि ह्वृ यादिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते — गुणोऽर्ति । भौवादिको जौहोत्यादिकश्च ऋधातुरर्तीत्यनेन गृह्रते । लुका निर्देशस्तु न विवक्षितः । अङ्गस्येत्यधिकृतम् । ‘रीङृतः’ इत्यत ऋत इत्यनुवर्तते । तच्च अङ्गविशेषणं, तदन्तविधिः । ऋदन्तस्याङ्गस्येति लभ्यते । संयोगाद्योरित्यपि तद्विशेषणम् ।अकृत्सार्वधातुकयो॑रित्यतोऽसार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते । ‘रिङ् शयग्लिङ्क्षु’ इत्यतो यकि लिङीति च लभ्यते ।अयडि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधिः । तदाह — अर्तेरित्यादिना । तथ् च ह्वृ-यात् इतिस्थिते गुणे रपरत्वे रूपमाह — ह्वर्यादिति । अह्वार्षीदिति । सिचि वृद्धिः । रपरत्वं । षत्वम् । अह्वरिष्यत् । स्वृ इति । अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुणः । णलि तु कृते गुणे रपत्वे उपधावृद्धिः । सस्वार सस्वरतुः सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दित,ऋतो भारद्वाजस्ये॑ति च नित्यनिषेधे प्राप्ते आह — स्वरतिसूतीति वेडिति । सस्वरिथ सस्वर्थेति । सस्वरथुः सस्वर । सस्वार-सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति । क्रादनियमान्नित्यमिडित्यन्वयः ।

Padamanjari

ठृ गतिप्रापणयोःऽ भूवादिः, ठृ सृ गतौऽ जौहोत्यादिकः - द्वयोरप्ययं छान्दसत्वाल्लुका निर्देशः; ऋच्छतीति निर्देशे इयर्तर्न स्यात्, इयर्तीति निर्द्देशे ऋच्छतेर्न स्यात् । ऋग्रहणमेव तु न कृतम्, वैचित्र्यार्थम् । न चैवमुच्यमाने वर्णग्रहणशङ्का ? ठृतःऽ इत्यनुवृतेः । श इत्येतदिहासम्भवान्निवृतमिति । न ह्यर्तिः, संयोगादिर्वा धातुस्तुदादिषु पठ।ल्ते । संस्क्रियते, संस्क्रियादित्यत्र सुटि कृते संयोगाद्यङ्गमिति गुणप्रसङ्गः ? इत्यत आह - इहेति । बहिरङ्गत्वं सुटो द्विपदाश्रयत्वात्, इदं तु’पूर्वं धातुः साधनेन युज्यते’ इत्याश्रित्योक्तम् । पक्षान्तरेऽप्याह - अभक्तत्वाद्वेति । इयृयादिति । विध्यादिलिङ्, शपः श्लुः, द्विर्वचनम्, ठर्तिपिपर्त्योश्चऽ इत्यभ्यासस्येत्वम्, ठभ्यासस्यासवर्णेऽ इतीयङ् । अकार एव वक्तव्ये गुणग्रहणं चिन्त्यप्रयोजनम् ॥

Nyaas

ऋ गतिप्रापणयोः (धातुपाठः-936), ऋ सृ गतौ (धातुपाठः-1098,1099) - इत्येतयोर्भोवादिकजौहोत्यादिकयोग्र्रहणम्। छन्दोवत्? सूत्राणि भवन्ति (म।भा।) इत्यतः बहुलं छन्दसि (7.4.78) इति शयो लुकं कृत्वाऽर्त्तिति निर्देशः कृतः; अन्यथा हि यद्युच्छतीति निर्देशः क्रियेत, एवं सति जौहोत्यादिकस्य ग्रहणं न स्यात्। अथापीयर्त्तिनिर्देशः क्रियते, एवमपि भौवादिकस्य ग्रहणं न स्यात्। इत्येतन्निर्देशस्तु न कृतः, वैचित्र्यार्थः। पूर्वेण रिङः प्राप्तस्यायमपवादः। श इत्यसम्भवान्निवृत्तम् इति। असम्भवस्त्वर्त्तिसंयोगाद्योरशविकरणत्वात्। अर्यते इति। यक्। अर्यात् इति। आशिषि लिङ्। अथ संस्क्रियते, संस्क्रियादित्यत्र कस्मान्न भवति, भवति हि करोतिरपि सुटि कृते संयोगाद्यङ्गम्? इत्यत आह - इहेत्यादि। बहिरङ्गत्वं तु सुटो द्विपदाश्रयत्वात्। गुणस्य पुनरन्तरङ्गत्वमेकपदाश्रयत्वात्। `असिद्धं बहिरङ्गमन्तरङ्गे (व्या।प।42) इति सुटोऽसिद्धत्वात्? संयोगादित्वमङ्गस्य नास्ति। अथापि कथञ्चित्? सुटसिद्धत्वं स्यात्, एवमप्यभक्तत्वात्? सुटः संयोगादित्वं नास्ति, अतो गुणो न प्रवर्तते। अङ्गाधिकारादङ्गावयवः संयोगो गृह्रते। न ह्यत्राभक्तत्वे सुटोऽङ्गावयवः संयोग उपपद्यते। इयृयात् इति। ऋ गतौ (धातुपाठः-1098), विध्यादिलिङ्। जुहोत्यादित्वाच्छपः श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, अर्त्तिपिपर्त्त्योश्च (7.4.77) इत्यभ्यासस्येत्त्वम्, अभ्यासस्यासवर्णे (6.4.78) तीयङ्, लिङः सलौपोऽनन्त्यस्य (7.2.79) इति सलोपः। अर्त्तिसंयोगाद्योरत् इति कर्तव्ये गुण ग्रहणं वैचित्र्यार्थम्॥

Prakriyasarvasvam

यकि यादावसार्वधातुके लिङि च परेऽर्तेः संयोगादेरृदन्तस्य च गुणः स्यात् । स्तर्यते । लुङि अस्तार्षीत् । अस्ताष्ट्राम् । तङि,

Sutra Prayogas

  • समारार्यन्त (भट्टिकाव्यम्): गुणो ऽर्तिसंयोगाद्योः इत्यधिकृत्य यङि च इति गुणः।