74028: रिङ् शयग्लिङ्क्षु¶
Padacheda: रिङ् | S | 1 | 1 |
शयग्लिङ्क्षु | S | 7 | 3 |
Sutrartha¶
‘श’ प्रत्यये परे, ‘यक्’ प्रत्यये परे, असार्वधातुके लिङ्-लकारे परे च ऋकारान्त-धातोः रिङ्-आदेशः भवति ।
अनेन सूत्रेण ऋकारान्त-धातोः तिसृषु स्थितिषु ‘रि’ इति आदेशः दीयते । यद्यपि अयमनेकाल् आदेशः, तथापि अयम् ङित्-आदेशः अस्ति, अतः ङिच्च (1.1.53) इत्यनेन अयं स्थानिनः अन्तिम-वर्णस्य स्थाने एव भवति । अनेन सूत्रेण अयमादेशः कासु स्थितिषु विधीयते? क्रमेण पश्यामः । 1) षष्ठगणस्य ‘श’ इति विकरणप्रत्यये परे । यथा - आ + दृङ (आदरे) इति तुदादिगणस्य धातुः । अस्य लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - आ + दृ + लट् → आ + दृ + त [तिप्तस्झि… (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य ‘त’ प्रत्ययः] → आ + दृ + श + त [तुदादिभ्यः शः (3.1.77) इति विकरणप्रत्ययः ‘श’] → आ + द्रि + अ + त [रिङ् शयग्लिङ्क्षु (7.4.28) इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।] → आ + द्र् इयङ् + अ + त [अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (6.4.77) इति इयङ्-आदेशः] → आ + द्रिय् + अ + ते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारादेशः] → आद्रियते । 2) भावकर्मवाच्ययोः यक्-प्रत्यये परे । यथा - डुकृञ् (करणे) अस्य कर्मणि लट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कृ + लट् → कृ + त [भावकर्मणोः (1.3.13) इति कर्मणिप्रयोगस्य विवक्षायामात्मनेपदम् । तिप्तस्झि… (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायामात्मनेपदस्य ‘त’ प्रत्ययः ।] → कृ + य + त [सार्वधातुके यक् (3.1.67) इति यक्-प्रत्ययः] → क्रि य त [रिङ् शयग्लिङ्क्षु (7.4.28) इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।] → क्रियते [टित आत्मनेपदानां टेरे (3.4.79) इति एकारादेशः] 3) आशीर्लिङ्-लकारस्य प्रत्यये परे । यथा - डुकृञ् (करणे) अस्य आशीर्लिङ्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - कृ + लिङ् → कृ + तिप् [तिप्तस्झि… (3.4.78) इति प्रथमपुरुषैकवचनस्य विवक्षायाम् ‘तिप्’ प्रत्ययः ।] → कृ + यासुट् + ति [किदाशिषि (3.4.104) इत्यनेन यासुट्-आगमः।] → कृ +यास् + ति [इत्संज्ञालोपः] → क्रि यास् ति [रिङ् शयग्लिङ्क्षु (7.4.28) इति ऋकारान्तस्य अङ्गस्य रिङ्-आदेशः । ङकारस्य इत्संज्ञा, लोपः ।] → क्रियास् त् [इतश्च (3.4.100) इत्यनेन ङित्-लकारे परे प्रत्ययस्य इकारस्य लोपः।] → क्रियात् [स्कोः संयोगाद्योरन्ते च (8.2.29) इति सकारलोपः] ज्ञातव्यम् - अस्मिन् सूत्रे अनुवर्तितः ‘असार्वधातुके’ अयं शब्दः केवलं लिङ्-इत्यस्यैव विशेषणरूपेण आगच्छति, यतः शप्रत्ययः यक्-प्रत्ययः च केवलं सार्वधातुकप्रक्रियायाम् एव आगच्छतः । अतः ‘असार्वधातुके’ इति वदामश्चेत् तयोः प्रयोजनम् एव विनश्येत् । लिङ्-लकारः तु उभयथा दृश्यते - सार्वधातुकः विधिलिङ्लकारः, तथा आर्द्धधातुकः आशीर्लिङ्लकारः । एतयोः वर्तमानसूत्रेण केवलं आशीर्लिङ्लकारः एव गृह्यः, यतः ‘असार्वधातुके’ इति निर्दिष्टमस्ति ।
Sutrartha (English)¶
A ऋकारान्त-धातु get a रिङ्-आदेश in presence of ‘श’ प्रत्यय, यक्-प्रत्यय and आशीर्लिङ् लकार.
Vasu English Summary¶
For the final short ऋ of a root, there is substituted रि before the present character अ (श) before the Passive character य् and before the augment यास् in the Benedictive.
Vasu English Translation¶
For the final short ऋ of a root, there is substituted रि before the present character अ (श) before the Passive character य् and before the augment यास् in the Benedictive. The word लिङि in the aphorism is qualified by the phrase यकारादौ सार्वधातुके ॥ A Lin affix which begins with a य and is not a Sarvadhatuka, is necessarily the augment यास् of the Benedictive. Thus श-आ द्रियते and आ घ्रियते (the व् comes by (6.4.77)). यक्-क्रियते, ह्रियते ॥ लिङ्-क्रियात् and ह्रियात् ॥ This short रि debars the long री of the last. The word non-Sarvadhatuka being understood, the rule does not apply to the Potential, as बिभृयात् ॥ The यि (7.4.22) is understood here also, therefore when the Benedictive affix does not begin with य्, the rule does not apply, as कृषीष्ट, हृषीष्ट ॥
Kashika¶
ऋकारान्तस्य अङ्गस्य शयकित्येतयोः लिङि च यकारादौ असार्वधातुके परतो रिङित्ययमादेशो भवति। श आद्रियते। आध्रियते। यक् क्रियते। ह्रियते। लिङ् क्रियात्। ह्रियात्। रिङ्वचनं दीर्घनिवृत्त्यर्थम्। असार्वधातुके इत्येव, बिभृयात्। यि इत्येव, कृषीष्ट। हृषीष्ट।
Siddhanta Kaumudi¶
शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥
Laghu Siddhanta Kaumudi¶
॥ अथ उभयपदिनः ॥ {$ {! 1 श्रिञ् !} सेवायाम् $} (धातुपाठे (01.1044)) ॥ श्रयति, श्रयते। शिश्राय, शिश्रिये। श्रयितासि, श्रयितासे। श्रयिष्यति, श्रयिष्यते। श्रयतु, श्रयताम्। अश्रयत्, अश्रयत। श्रयेत्, श्रयेत। श्रीयात्, श्रयिषीष्ट। चङ्। अशिश्रियत्, अशिश्रियत। अश्रयिष्यत्, अश्रयिष्यत॥ {$ {! 2 भृञ् !} भरणे $} (धातुपाठे (01.1045)) ॥ भरति, भरते। बभार। बभ्रतुः। बभ्रुः। बभर्थ। बभृव। बभृम। बभ्रे। बभृषे। भर्तासि, भर्तासे। भरिष्यति, भरिष्यते। भरतु, भरताम्। अभरत्, अभरत। भरेत्, भरेत॥ रिङ् शयग्लिङ्क्षु । शे यकि यादावार्धधातुके लिङि च ऋतो रिङ् आदेशः स्यात्। रीङि प्रकृते रिङ्विधानसामर्थ्याद्दीर्घो न। भ्रियात्॥
Balamanorama¶
रिङ् शयग्लिङ्क्षु - आशीर्लिङि परस्मैपदे भृ यादिति स्थिते — रिङ् शय । श यक् लिङ् एषां द्वन्द्वात्सप्तमीबहुवचनम् ।अयङ्यि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवृत्तं लिङो विशेषणम् । तदादिविधिः । शे तु यीति नान्वेति, असंभवात् । नापि यकि, अव्यभिचारात् । अत एव कृत्सार्वधातुकयोरित्यनुवृत्तमपि लिङ एव विशेषणं । तदाह — शे यकीत्यादिना । ऋत इति । ‘रीङृत’ इत्यतस्तदनुवृत्तेरिति भावः । अङ्गस्येधिकृतम् । ‘ऋत’ इति तद्विशेषणं । तदन्तविधिः । ऋदन्तस्याऽङ्गस्येति लभ्यते । आदेशे ङकार इत् । ङित्त्वादन्तादेशः । निर्दिश्यमानपरिभाषयैव सिद्धे ङकारोच्चारणम्, इङागमेनैव सिद्धे रेफोच्चारमं च स्पष्टार्थम् । ननु भ्रियादिति वक्ष्यमाणमुदाररणमयुक्तम्, कृते रिङिअकृत्सार्वधातुकयो॑रिति दीर्घप्रसङ्गादित्यत आहरीङि प्रकृते इति । कृते रिङि यदि दीर्घः स्यात्तर्हि रिङ्विधिव्र्यर्थः स्यात्, ‘रीङृत’ इत्येव सिद्धेः । अतो रिङि कृते सति न दीर्घ इत्यर्थः । भ्रियादिति । भ्रियास्तमित्यादि सुगमम् ।
Tattvabodhini¶
रिङ् शयग्लिङ्क्षु - लिङ् शयग्लिङ्क्षु ।अयङ् यि क्ङिती॑त्यतोऽनुवृत्तं यीत्येतल्लिङ एव विशेषणं, सेऽसंभवात् । यकि तु वैयथ्र्यात् । तथाअकृत्सार्वधातुकयो॑ रित्यनुवृत्तमपि लिङ एव विशेषणमित्यभिप्रेत्याह - यादावित्यादि । शे — म्रियते ।तुदादिभ्य॑ इतिशः । यकि — क्रियते । म्रियते ।
Padamanjari¶
यिग्रहणमकृत्सार्वधातुकग्रहणं चानुवर्तमानं सम्भवव्यभिचाराभ्यां लिङ् एव विशेषणम्, न शयकोः । आद्रियते, आध्रियत इति ।’दृङ्’ आदरेऽ,’धृङ् अवस्थाने’ , तुदादित्वाच्छः, रिङ् कृते इयिङदेशः । रिङ्विचनं दीर्घनिवृत्यर्थमिति । रीङ् कृते ठकृत्सार्वधातुकयोःऽ इति दीर्घत्वं प्राप्नोति, तस्यापि निवृतयर्थमिति भावः ॥
Nyaas¶
अत्रापि यिग्रहणम्, अकृत्सार्वधातुकं चानुवर्तते। तत्र सम्भवव्यभिचाराल्लिङ एव विशेषणाम्? न शयकोः। आद्रियते, आध्रियते इति। दृङ्? आदरे (धातुपाठः-1411), धृङ्? अवस्थाने (धातुपाठः-1412) आङ्पूर्वः, तुदादित्वाच्छः। क्रियात् इति। आशिषि लिङ् (3.3.173) । बिभृयात् इति। अत्र बिध्यादिलिङ्, जुहोत्यादित्वात्? श्लुः, श्लौ (6.1.10) इति द्विर्वचनम्, भृञामित् (7.4.76) इतीत्त्वमभ्यासस्य। कृपीष्ट इति। आशिषि लिङ् (3.3.173) । उश्च (1.2.12) इति कित्त्वाद्गुणाभावः॥
Sutra Prayogas¶
ध्रियते (शिशुपालवधम्): रिङ्शयग्लिङ्क्षु इति रिङादेशः।
क्रियतां (भट्टिकाव्यम्): रिङ् इत्यादिना रिङ्।