74029: गुणोऽर्तिसंयोगाद्योः =========================== **Padacheda:** गुणः | S | 1 | 1 | अर्तिसंयोगाद्योः | S | 6 | 2 | Sutrartha --------- **** Vasu English Summary -------------------- गुण is substituted for the final ऋ in the root ऋ (अर्ति) and in those roots ending in ऋ in which the vowel is preceded by a conjunct consonant, when the Passive character यक् or the Benedictive augment यास् follows. Vasu English Translation ------------------------ गुण is substituted for the final ऋ in the root ऋ (अर्ति) and in those roots ending in ऋ in which the vowel is preceded by a conjunct consonant, when the Passive character यक् or the Benedictive augment यास् follows. The words ऋतः, यकि and लिङि are understood here. Not so the word श as its *anuvritti* is impossible. Thus अर्यते, अर्यात्, स्मर्यते and स्मर्यात् ॥ This is an exception to (1.1.5). In सं स्क्रियते and संस्क्रियात् (6.1.135), there is no *Guna*, either because in स्कृ the augment स् is considered as *Bahiranga* and therefore *asiddha*, or because it is considered as no part of (or non-attached to) कृ, and therefore स् कृ is not a root beginning with a conjunct consonant. See however (7.4.10), where in forming संचस्करतुः, स्कृ is considered as a root beginning with a conjunct consonant. See also *Mahabhashya* on (6.1.135). The यि (7.4.22) is understood here also; the Benedictive affix must begin with य, therefore not here स्वृषीष्ट, ध्वृषीष्ट ॥ The word non-*sarvadhatuka* is also understood here, the rule does not apply to the Potential, as इयृयात्, there is *slu* substitution of *sap*, reduplication, then there is इ substitution in the reduplicate by (7.4.77), then इयङ् by (6.4.78). Kashika ------- ऋतः यकि लिगि इति वर्तते। श इत्यसम्भवात् निवृत्तम्। गुणो भवति अर्तेः संयोगादीनाम् ऋकारान्तानां यकि परतो लिगि च यकारादौ असार्वधातुके। अर्यते। अर्यात्। स्मर्यते। स्मर्यात्। इह संस्क्रियते, संस्क्रियातिति सुटो बहिरङ्गलक्षणस्य असिद्धत्वातभक्तत्वात् वा संयोगादित्वमङ्गस्य न अस्तीति गुणो न प्रवर्तते। यि इत्येव, स्वृषीष्ट। ध्वृषीष्ट। असार्वधातुके इत्येव, इयृयात्। Siddhanta Kaumudi ----------------- अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् । अह्वार्ष्टाम् ।{$ {!932 स्वृ!} शब्दौपतापयोः$} । स्वरतिसूति - (SK2279) इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥ Laghu Siddhanta Kaumudi ----------------------- अर्तेः संयोगादेरृदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च। ह्वर्यात्। अह्वार्षीत्। अह्वरिष्यत्॥ {$ {! 19 श्रु !} श्रवणे $} (धातुपाठे (01.1092)) ॥ Balamanorama ------------ **गुणोऽर्तिसंयोगाद्योः** - आशीर्लिङि ह्वृ यादिति स्थिते कित्त्वाद्गुणनिषेधे प्राप्ते — गुणोऽर्ति । भौवादिको जौहोत्यादिकश्च ऋधातुरर्तीत्यनेन गृह्रते । लुका निर्देशस्तु न विवक्षितः । अङ्गस्येत्यधिकृतम् । 'रीङृतः' इत्यत ऋत इत्यनुवर्तते । तच्च अङ्गविशेषणं, तदन्तविधिः । ऋदन्तस्याङ्गस्येति लभ्यते । संयोगाद्योरित्यपि तद्विशेषणम् ।अकृत्सार्वधातुकयो॑रित्यतोऽसार्वधातुकग्रहणमनुवर्तते । आर्धधातुके इति लभ्यते । 'रिङ् शयग्लिङ्क्षु' इत्यतो यकि लिङीति च लभ्यते ।अयडि क्ङिती॑त्यतो यीति सप्तम्यन्तमनुवर्तते । आर्धधातुकविशेषणत्वात्तदादिविधिः । तदाह — अर्तेरित्यादिना । तथ् च ह्वृ-यात् इतिस्थिते गुणे रपरत्वे रूपमाह — ह्वर्यादिति । अह्वार्षीदिति । सिचि वृद्धिः । रपरत्वं । षत्वम् । अह्वरिष्यत् । स्वृ इति । अयमप्यनिट् । स्वरति । लिटि तु कित्यपि गुणः । णलि तु कृते गुणे रपत्वे उपधावृद्धिः । सस्वार सस्वरतुः सस्वरुः । थलि तु क्रादिनियमप्राप्तस्य इटःअचस्तास्व॑दित,ऋतो भारद्वाजस्ये॑ति च नित्यनिषेधे प्राप्ते आह — स्वरतिसूतीति वेडिति । सस्वरिथ सस्वर्थेति । सस्वरथुः सस्वर । सस्वार-सस्वर । इत्यपि ज्ञेयम् । वमयोस्त्विति । क्रादनियमान्नित्यमिडित्यन्वयः । Padamanjari ----------- ठृ गतिप्रापणयोःऽ भूवादिः, ठृ सृ गतौऽ जौहोत्यादिकः - द्वयोरप्ययं छान्दसत्वाल्लुका निर्देशः; ऋच्छतीति निर्देशे इयर्तर्न स्यात्, इयर्तीति निर्द्देशे ऋच्छतेर्न स्यात् । ऋग्रहणमेव तु न कृतम्, वैचित्र्यार्थम् । न चैवमुच्यमाने वर्णग्रहणशङ्का ? ठृतःऽ इत्यनुवृतेः । श इत्येतदिहासम्भवान्निवृतमिति । न ह्यर्तिः, संयोगादिर्वा धातुस्तुदादिषु पठ।ल्ते । संस्क्रियते, संस्क्रियादित्यत्र सुटि कृते संयोगाद्यङ्गमिति गुणप्रसङ्गः ? इत्यत आह - इहेति । बहिरङ्गत्वं सुटो द्विपदाश्रयत्वात्, इदं तु'पूर्वं धातुः साधनेन युज्यते' इत्याश्रित्योक्तम् । पक्षान्तरेऽप्याह - अभक्तत्वाद्वेति । इयृयादिति । विध्यादिलिङ्, शपः श्लुः, द्विर्वचनम्, ठर्तिपिपर्त्योश्चऽ इत्यभ्यासस्येत्वम्, ठभ्यासस्यासवर्णेऽ इतीयङ् । अकार एव वक्तव्ये गुणग्रहणं चिन्त्यप्रयोजनम् ॥ Nyaas ----- `ऋ गतिप्रापणयोः` (धातुपाठः-936), `ऋ सृ गतौ` (धातुपाठः-1098,1099) - इत्येतयोर्भोवादिकजौहोत्यादिकयोग्र्रहणम्। `छन्दोवत्? सूत्राणि भवन्ति` (म।भा।) इत्यतः **बहुलं छन्दसि** (7.4.78) इति शयो लुकं कृत्वाऽर्त्तिति निर्देशः कृतः; अन्यथा हि यद्युच्छतीति निर्देशः क्रियेत, एवं सति जौहोत्यादिकस्य ग्रहणं न स्यात्। अथापीयर्त्तिनिर्देशः क्रियते, एवमपि भौवादिकस्य ग्रहणं न स्यात्। `ऋ` इत्येतन्निर्देशस्तु न कृतः, वैचित्र्यार्थः। पूर्वेण रिङः प्राप्तस्यायमपवादः। `श इत्यसम्भवान्निवृत्तम्` इति। असम्भवस्त्वर्त्तिसंयोगाद्योरशविकरणत्वात्। `अर्यते` इति। यक्। `अर्यात्` इति। आशिषि लिङ्। अथ संस्क्रियते, संस्क्रियादित्यत्र कस्मान्न भवति, भवति हि करोतिरपि सुटि कृते संयोगाद्यङ्गम्? इत्यत आह - `इहेत्यादि। बहिरङ्गत्वं तु सुटो द्विपदाश्रयत्वात्। गुणस्य पुनरन्तरङ्गत्वमेकपदाश्रयत्वात्। `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इति सुटोऽसिद्धत्वात्? संयोगादित्वमङ्गस्य नास्ति। अथापि कथञ्चित्? सुटसिद्धत्वं स्यात्, एवमप्यभक्तत्वात्? सुटः संयोगादित्वं नास्ति, अतो गुणो न प्रवर्तते। अङ्गाधिकारादङ्गावयवः संयोगो गृह्रते। न ह्यत्राभक्तत्वे सुटोऽङ्गावयवः संयोग उपपद्यते। `इयृयात्` इति। `ऋ गतौ` (धातुपाठः-1098), विध्यादिलिङ्। जुहोत्यादित्वाच्छपः श्लुः, `श्लौ` (6.1.10) इति द्विर्वचनम्, `अर्त्तिपिपर्त्त्योश्च` (7.4.77) इत्यभ्यासस्येत्त्वम्, **अभ्यासस्यासवर्णे** (6.4.78) तीयङ्, `लिङः सलौपोऽनन्त्यस्य` (7.2.79) इति सलोपः। `अर्त्तिसंयोगाद्योरत्` इति कर्तव्ये गुण ग्रहणं वैचित्र्यार्थम्॥ Prakriyasarvasvam ----------------- यकि यादावसार्वधातुके लिङि च परेऽर्तेः संयोगादेरृदन्तस्य च गुणः स्यात् । स्तर्यते । लुङि अस्तार्षीत् । अस्ताष्ट्राम् । तङि, Sutra Prayogas -------------- * **समारार्यन्त** (भट्टिकाव्यम्): `गुणो ऽर्तिसंयोगाद्योः` इत्यधिकृत्य यङि च इति गुणः।