74027: रीङ् ऋतः

Padacheda: रीङ् | S | 1 | 1 |

ऋतः | S | 6 | 1 |

Sutrartha


Vasu English Summary

री is substituted for the final short ऋ of a अङ्ग (stem) before an affix beginning with य् when it is not a कृत् or a सार्वधातुक affix and the Adverbial affix च्वि – अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50).

Vasu English Translation

री is substituted for the final short ऋ of a अङ्ग (stem) before an affix beginning with य् when it is not a कृत् or a सार्वधातुक affix and the Adverbial affix च्वि – अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः (5.4.50). The anuvritti of क्ङिति is, however, not understood in this sutra; that of च्वि and अकृत्सार्वधातुकयोः is present. Thus मात्रीयति and पित्रीयति with क्यच् (3.1.8), मात्रीयते, पित्रीयते with क्यङ् (3.1.11). चक्रीयते with यङ्, मात्रीभूतः with च्वि ॥ The कित् and ङित् not being understood here, we have पितुरागतं = पित्र्यम् (4.3.79), which is thus formed पितृ + यत् = पित्री + य = पित्र + य (ई being elided by (6.4.148)). Why do we say short ऋ? Observe चेकीर्यते, from कृ विक्षेपे, with यङ्, ऋत इद् धातोः and हलिच lengthening. निजेगिल्यते from कॄ and गॄ ॥

Bhashya

रीङृतः दीर्घोच्चारणं किमर्थं न रिङृत इत्येवोच्येत ? ॥ का रूपसिद्धिः - मात्रीयति , पित्रीयति ? अकृत्सार्वधातुकयोः इति दीर्घत्वं भविष्यति ॥ एवं तर्हि सिद्धे सति यद्दीर्घोच्चारणं करोति तज्ज्ञापयत्याचार्यो भवत्येषा परिभाषा अङ्गवृत्तेपुनर्वृत्ताविधिर्निष्ठितस्येति ॥ किमेतस्य ज्ञापने प्रयोजनम् ? पिबेर्गुणप्रतिषेधश्चोदितः स न वक्तव्यो भवति ॥ (रीङृतः) ॥

Kashika

ऋकारान्तस्य अङ्गस्य अकृद्यकारे असार्वधातुके यकारे च्वौ च परतो रीङित्ययमादेशो भवति। मात्रीयति। मात्रीयते। पित्रीयति। पित्रीयते। चेक्रीयते। मात्रीभूतः। क्ङिति इत्येतन् निवृत्तम्, तेन इह अपि भवति, पितुरागतं पित्र्यम्। ऋत इति तपरकरणं किम्? चेकीर्यते। निजेगिल्यते।

Siddhanta Kaumudi

अकृद्यकारेऽसार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः स्यात् ॥यस्येति च (SK311) । पित्र्यम् । उषस्यम् ॥

Laghu Siddhanta Kaumudi

अकृद्यकारे असार्वधातुके यकारे च्वौ च परे ऋदन्ताङ्गस्य रीङादेशः। यस्येति च। पित्र्यम्। उषस्यम्॥

Balamanorama

रीङ् ऋतः - रीङृतः । अङ्गस्येत्यधिकृतम् ऋता विशेष्यते । तदन्तविधिः ।अयङ् यि क्ङिती॑त्यतो यीत्यनुवर्तते ।अकृत्सार्वधातुकयो॑रित्यतोऽकृत्सार्वधातुकयोरिति,च्वौ चे॑ति सूत्रं च, तदाह — अकृदित्यादिना । पित्र्यमिति । पितरो देवता अस्येति विग्रहः । यति पितृशब्दस्य रीङ् ।ङिच्चे॑त्यन्तादेशः ।यस्येति चेति ईकारलोपः । क्यचि पित्रीयतीत्यादौअङ्गकार्ये कृते पुनर्नाङ्गकार्य॑मिति वचनात्अकृत्सार्वदातुकयो॑रिति दीर्घे अप्राप्ते ईकारोच्चारणम् । उषस्यमिति । उषः देवता अस्येति विग्रहः । भत्वेन पदत्वाऽभावात्सकारस्य न रुत्वादि । द्यावापृथिवी । द्यावापृथिवी, शुनासीर, मरुत्वत्, अग्नीषोम, वास्तोष्पति, गृहमेध-एतेभ्यः-छो यच्च स्यादित्यर्थः । अणः, पत्युत्तरपदण्यस्य चापवादः ।

Tattvabodhini

रीङ् ऋतः - रीङृतः । अङ्गवृत्तपरिभाषयाअकृत्सार्वे॑ति दीर्घो न प्रवर्तत इति दीर्घग्रहणमित्याहुः । यस्येति चेति ।पित्रीयती॑त्यत्र रूङ्विधिः सावकाश इति भावः । उषस्यमिति उषस्शब्दः स्त्रीलिङ्गो दिवो दुहितरं देवतां ब्रावीति ।

Padamanjari

पियमिति ।’पितुर्यच्च’ इति यत्प्रत्ययः, रीङदेशे कृते स्येतिलोपः । कथं पुनः’क्ङिति’ इत्यनुवर्तमानेऽत्र रीङदेशो भवति ? अत आह - क्ङ्तीत्येतिदिह निवृतमिति । चेकीर्यत इति ।’कृ विक्षेपे’ यङ्, ठृत इद्धातोःऽ,’हलि च’ इति दीर्घः । जेगिल्यत इति । अत्र’ग्रो यङ्’ ईति लत्वे कृते रेफाभावाद् दीर्घाभावः । अथ रीङिति किमर्थम्, न रिणेóवोच्येत, ठकृत्सार्वधातुकयोःऽ,’च्वौ च’ इति दीर्घो भविष्यति, तत्रायमप्यर्थः - उतरत्र रिङ्ग्रहणं न कर्तव्यं भवति; तथा यग्लिङेरपि ग्रहणं न कर्तव्यं भवति,’शे च’ इत्येव वक्तव्यं चकारादकृत्सार्वधातुकयकारे च ? यद्येवम्, यथा मात्रीयतीत्यादौ दीर्घो भवति, तथा यग्लिङेरपि स्यात् - क्रियते, क्रियादिति । अथ तत्र नाप्राप्ते दीर्घे रिङ् इविधीयमानो दीर्घत्वं बाधत इति उच्येत; तर्हि क्यजादिष्वपि बाधेत । अथ मतम् - ऋवर्णदीर्घत्वं तावद्वाध्यताम्, रिङ्स्तु कथं बाध्यते, न हि तत्र नाप्राप्ते दीर्घे स आरभ्यत इति ? यग्लिङेरपि तर्हि न बाधेत । तस्मात्क्यजादिषु दीर्घस्य, यग्लिङेस्तु ह्रस्वस्य श्रवणं यथा स्यादिति पृथगादेशद्वयं वक्तव्यम् ॥

Nyaas

यिग्रहणमनुवर्तते, अकृत्सार्वधातुकयोरिति च। मात्रीयति इति। सुप आत्मनः क्यच् (3.1.8) । पित्रीयते इति। कर्त्तुः क्यङ् सलोपश्च (3.1.11) इति क्यङ्। चेक्रीयते इति। करोतेर्यङ्। पित्र्यम् इति। पितुर्यच्च (4.3.79) इति यत्प्रत्ययः; रीङादेशे कृते यस्येति च (6.4.148) इतीकारलोपः। कथं पुनः क्ङितोत्युचयमाने तत्रादेशो भवति? इत्याह - क्ङितीत्येतदिह निवृत्तम् इति। यद्येवं यिग्रहणस्यापि निवृत्तिः प्राप्नोति, तदेकयोगनिर्दिष्टत्वात्? नैतदस्ति; स्वरितत्वप्रतिबद्धा हि शब्दानामनुवृत्तिः। इह च यिग्रहणस्यैव स्वरितत्वं प्रतिज्ञायत इति तदेवानुवर्तते, क्ङिद्ग्रहणस्य स्वरितत्वं न प्रतिज्ञायत इति न तदिहानुवर्तते। चेकीर्यते इति। कृ विक्षेपे (धातुपाठः-1409), ऋत इद्धातोः (7.1.100) इतीत्त्वे रपरत्वम्। हलि च (8.2.77) इति दीर्घः। निजेगिल्यते इति। गृ? निगरणे (धातुपाठः-1410), लुपसद (3.1.24) इत्यादिना यङ्, यो यङि (8.2.20) इति लत्वं रेफस्य। अथ दीर्घग्रहणं किमर्थम्, न रिङित्येवोच्येत, अकृत्सार्वधातुकयोः (7.4.25) इतिदीर्घत्वेनैव सिद्धमिति, तत्राप्ययमर्थः - उत्तरसूत्रे पुना रिङ्ग्रहणं न कर्तव्यं भवति, एतदेव हि तत्रानुवर्त्तिष्यते? न सिध्यति; नाप्राप्ते दीर्घत्वे रिङारभ्यमाणस्तस्य बाधकः स्यात्। भवतु नाम ऋकारस्य यो दीर्घस्तस्य बाधकः, यस्तु कृत आदेशे स्थान्यन्तरस्य प्राप्नोति तस्य कथं बाधकः, न ह्रस्मिन्? प्राप्ते रिङारभ्यते? एवं तर्हि मन्दधियां सुखप्रतिपत्त्यर्थ दीर्घोच्चारणम्। ङकारोऽन्त्यादेशार्थः॥

Prakriyasarvasvam

कृत्सार्वधातुकाभ्याम् अन्यस्मिन् यादौ प्रत्यये च्वौ च परे ऋदन्तस्य रीङ् स्यात् । ङित्त्वादन्त्यस्य । पित्री य । ‘यस्येति च’ । पित्र्यम् । उषस्यम् ॥ पित्रीकरोति । सम्पद्यकर्तरीत्युक्तेः अगृहे स्थितं गृहे भवतीत्यत्राधिकरणस्य गृहस्याभूततद्भावे सत्यपि च्विर्न ॥