74023: उपसर्गाद्ध्रस्व ऊहतेः¶
Padacheda: उपसर्गात् | S | 5 | 1 |
ह्रस्वः | S | 1 | 1 |
ऊहतेः | S | 6 | 1 |
Sutrartha¶
Vasu English Summary¶
The short is substituted for the ऊ of ऊह् when a preposition precedes it and an affix beginning with य् with an indicatory क् or ङ् follows.
Vasu English Translation¶
The short is substituted for the ऊ of ऊह् when a preposition precedes it and an affix beginning with य् with an indicatory क् or ङ् follows. As समुह्यते, प्रत्युह्यते, समुह्य, अभ्युह्यते, अभ्युह्य ॥ But ऊह्यते without Preposition. Why do we say of ऊह्? Observe समीह्यते ॥ Why do we say ‘before य’? Observe समूहितम् ॥ Why do we say having indicatory क् or ङ्? Observe अभ्यूह्यः with यत् ॥ Of course the shortening takes place of ऊ (or अण् vowel, the word अण् being understood here from (7.4.13)), and not when it assumes the form ओ, as आ ऊह्यते = ओह्यते, समोह्यते ॥
Bhashya¶
उपसर्गाद्ह्रस्व ऊहतेः इह कस्मान्न भवति उपोह्यते प्रोह्यते ? ॥ एकादेशे कृते व्यपवर्गाऽभावात् ॥ एवमपि आ ऊह्यते ओह्यते समोह्यते इत्यत्र प्राप्नोति ॥ अण(1) इति वर्तते ॥
Kashika¶
उपसर्गादुत्तरस्य उहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः। समुह्यते। समुह्य गतः। अभ्युह्यते। अभ्युह्य गतः। उपसर्गातिति किम्? ऊह्यते। ऊहतेः इति किम्? समीह्यते। यि इत्येव, समूहितम्। क्ङिति इत्येव, समूह्योोऽयमर्थः। अणः इत्येव, आ ऊह्यते ओह्यते। समोह्यते।
Siddhanta Kaumudi¶
यादौ क्ङिति । ब्रह्म समुह्यात् । अग्रिं समुह्य ॥
Balamanorama¶
उपसर्गाद्ध्रस्व ऊहतेः - उपसर्गाद्ध्रस्व ऊहतेः । ‘यादौ क्ङिति’ इति शेषपूरणम् । ‘अयडि क्ङिति’ इत्यतस्तदनुवृत्तेरिति भावः । ब्राहृ समुह्रादिति । ऊह वितर्के । सम्यग्विचारयेदित्यर्थः । अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्रस्वः । अग्न समुह्रेति । परितः संमृज्येत्यर्थः । क्त्वादेशस्य ल्यपः कित्त्वमिति भावः ।
Padamanjari¶
ङितोऽसम्भवादुदाहारणं न प्रदर्शितम् । यङस्तावदजादित्वादसम्भवः । यासुटोऽपि शपा व्यवधानात् । आशिषि तु किदेव यासुट् । एवं चोहतेर्दीर्घप्रयोगनिवृत्यर्थं वचनम् । समुह्यत इत्यादिकं तु रूपं वहेरेव सम्प्रसारणे कृते सिद्धम् । अनेकार्थत्वाद्धातूनामर्थभेदोऽप्यकिञ्चित्करः । आ ऊह्यत इति । नेदं लौकिकं वाक्यं प्रयोगार्हम्, न हि तत्र धातूपसर्गयोरसंहितास्ति;’संहितैकपदे नित्या नित्या धातूपसर्गयोः’ इति स्मरणात् । तस्मादलौकिकेन प्रक्रियावाक्येनाङ्ः प्रश्लेपः प्रदर्श्यत इति ह्रस्वत्वं न कृतम्; लौकिकप्रयोगसम्पादनपरत्वाच्छास्त्रस्य । अन्ये त्वत्रापि ह्रस्वत्वं पठन्ति । ओह्यत इति । अत्रैकादेशे कृते व्यपवर्गाभावाद् ह्रस्वाभावः, ठुपसर्गादूहतेःऽ इत्युभयत आश्रयणादन्तादिवद्भावोऽपि नास्ति । समोह्यत इति । अत्रैकादेशस्यादिवद्भावात्समः परस्य ह्रस्वत्वप्रसङ्गः । ठणःऽ इत्यनुवृतेस्तु न भवति, पूर्वणैव णकारेण प्रत्याहारः एवं च रूपाश्रयोऽयं विधिरिति ताद्रूप्यानतिदेशाद् ह्रस्वाभावः ॥
Nyaas¶
समुह्र गतः इति। ऊह वितर्के (धातुपाठः-648)। यद्यपि यजादित्वात्? किति सम्प्रसारणेनैतत् सिध्यति, तथाप्यूहेरपि दीर्घस्याश्रवणं तथा स्यादित्येवमर्थमिदं ह्रस्वविधानम्। समीह्रते इति। ईह चेष्टायाम् (धातुपाठः-632)। समूहितः इति। क्तः। समूहयोऽयमर्थः इति। ऋहलोण्र्यत् (3.1.124) । अण इत्येव इत्यादि। केऽणः (7.4.13) इत्यतोऽण्ग्रहणमनुवर्तते। आ उह्रते ओह्रते, समोह्रते इति। ह्रस्वत्वं न भवति। यद्यव्ग्रहणमनुवर्तते, तदा ह्रस्वविधानमनर्थकं स्यात्, उपसर्गादूहतेरुदिति वक्तव्यम्? नानर्थकम्; उत्तारार्थत्वात् - एतेलिङि (7.4.24) इति वक्ष्यति, तत्र ह्रस्वः इत्येतस्यानुवृत्तिर्यथा स्यात्॥
Prakriyasarvasvam¶
उपसर्गात् परस्य ऊहेर्यादौ किङति परेऽणो ह्रस्वः स्यात् । समुह्य । व्यूह्य । ‘व्यतीपातक्षमभ्युह्य’ । अनुपसर्गात् तूह्यते । ओहेत्याङ्पूर्वस्यान्योपसर्गयोगे समोह्येत्यादौ ह्रस्वो मा भूदित्यण इत्युक्तम् । अनञ् पूर्वे क्त्वो ल्यबित्युक्तेर्नञ्- समासे ल्यन्न । अकृत्वा । अव्ययपूर्वत्वे एव ल्यबिष्टः । अन्यत्र न । परमकृत्वा । उत्तमकृत्वा । सम्यक् कृत्वेत्यर्थः ॥