74022: अयङ् यि क्ङिति¶
Padacheda: अयङ् | S | 1 | 1 |
यि | S | 7 | 1 |
क्ङिति | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
Before an affix beginning with a य् and having an indicatory क् or ङ् there is substituted अय् for the ई of शी।
Vasu English Translation¶
Before an affix beginning with a य् and having an indicatory क् or ङ् there is substituted अय् for the ई of शी। As शय्यते with यक्, शाशय्यते with यङ्, प्रशय्य and उपशय्य with ल्यप् which being the substitute of क्त्वा in कित् ॥ But शिश्ये where the affix is ए, and शेयम् where the affix is यत् (neither कित् or ङित्) ॥
Kashika¶
यकारादौ क्ङिति प्रत्यये परतः शीङः अङ्गस्य अयङित्ययमादेशो भवति। श्य्यते। शाशय्यते। प्रशय्य। उपशय्य। यि इति किम्? शिश्ये। क्ङितीति किम्? शेयम्।
Siddhanta Kaumudi¶
शीङोऽयङादेशः स्याद्यादौ क्ङिति परे । शाशय्यते । अभ्यासस्य ह्रस्वः । ततो गुणः । डोढौक्यते । तोत्रौक्यते ॥
Padamanjari¶
शय्यत इति । यक् । शाशय्यत इति । यङ्, परत्वान्नित्यत्वाच्चायङदेशे कृते द्विर्वचनम् । प्रशय्येति । ल्यप् ॥
Nyaas¶
शय्यते इति। सार्वधातुके यक् (3.1.67) । शाशय्यते इति यङ्, परत्वान्नित्यत्वाच्च द्विर्वचनात्? प्रागयङादेशः, ततः शय्येत्यस्य द्विर्वचनम्, दीर्घोऽकितः (7.4.83) इत्यभ्याससय दीर्घत्वम्। प्रशय्य इति। समानकर्तृकयोः पूर्वकाले क्त्वा (3.4.21) , कुगतिप्रादयः (2.2.18) इति समासः, समासेऽनञ्पूर्वे क्त्वो ल्यप् (7.1.37) येम् इति। ञचो यत् (3.1.97) । शय्या [नास्ति - काशिकायाम्] इति। सज्ञायां समजनि (3.3.99) इत्यादिना क्यप्॥
Prakriyasarvasvam¶
यादौ क्ङिति प्रत्यये परे शीङोऽयङ् स्यात् । ङित्त्वादनन्त्यस्य । शय्या । भृञो भाव एव क्यप् । भृत्या दासमरणम् बाहुलकात् भृतिरिति । एवं यत्रापवादेषु सङ्करो दृश्यते क्तिनः । तत् सर्वं बहुलोक्त्यैव साधितं माधवादिभिः ।। १५५ ।। इण्, इत्या गतिः । अटिचरोश्च भोजः । अटया चर्या च गतिः ।।
Sutra Prayogas¶
प्रावोचमहं (भट्टिकाव्यम्): वच उम् इत्युम् ।