74024: एतेर्लिङि

Padacheda: एतेः | S | 6 | 1 |

लिङि | S | 7 | 1 |

Sutrartha


Vasu English Summary

The short is substituted for the vowel of the अङ्ग (stem) इ (एति) before the augment यास् in the Benedictive, when a preposition precedes it.

Vasu English Translation

The short is substituted for the vowel of the अङ्ग (stem) इ (एति) before the augment यास् in the Benedictive, when a preposition precedes it. As उदियात्, समियात्, अन्वियात् ॥ This is an exception to the following sutra by which a long would have been substituted. But ईयात् without a Preposition. The अण् (7.4.13) is understood here also. Therefore ए form of इ will not be shortened, as आ + इयात् = एयात्, समेयात् ॥

Bhashya

एतेर्लिङि ॥ एतेर्लिङ्युपसर्गात् ॥ एतेर्लिङ्युपसर्गादिति वक्तव्यम् । इह मा भूत् इर्यात्(2) ॥ तत्तर्हि वक्तव्यम् ? ॥ न वक्तव्यम् । उपसर्गादिति वर्तते ॥ एवं तर्ह्याचार्योऽन्वाचष्टे उपसर्गादित्यनुवर्तत इति । नैतदन्वाख्येयमधिकारा अनुवर्तन्त इति । एष एव न्यायो यदुताऽधिकारा अनुवर्तेरन् ॥

Kashika

एतेरङ्गस्य उपसर्गादुत्तरस्य लिङि यकारादौ क्ङिति परतो ह्रस्वो भवति। उदियात्। समियात्। अन्वियात्। आशिषि लिङि अकृत्सार्वधातुकयोः इति दीर्घत्वे कृते ह्रस्वोऽनेन भवति। उपसर्गातित्येव, ईयात्। अणः इत्येव, आ ईयातेयत्। समेयात्।

Siddhanta Kaumudi

उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥

Laghu Siddhanta Kaumudi

उपसर्गात्परस्य इणोऽणो ह्रस्व आर्धधातुके किति लिङि। निरियात्। उभयत आश्रयणे नान्तादिवत्। अभीयात्। अणः किम्? समेयात्॥

Balamanorama

एतेर्लिङि - एतेर्लिङि ।उपसर्गाद्ध्रस्व ऊहते॑रित्यत ‘उपसर्गाद्ध्रस्व’ इति ,केऽणः॑इत्यतोऽण इति,अयङ्यि क्ङिती॑त्यतः कितीति चानुवर्तते । तदाह — उपसर्गात्परस्येत्यादि । इह आर्धधातुके इति प्रामादिकं, पूर्वसूत्रेषु तदभावादनुवृत्तेरसंभवात्, किति लङीत्येव सिद्धेश्च । ङितीति तु नानुवर्तते, इण आर्धधातुकलिङो ङित्त्वाऽभावात् । नन्वमीयादित्यत्रापि ह्रस्वः स्यादित्यत आह — उभयत इति । अत्र एकादेशस्य ईकारस्य पूर्वान्तत्वे उपसर्गानुप्रवेशादिणधातुत्वं न सम्भवति, परादिवत्त्वेन इण्धातुत्वाश्रयणे तु न उपसर्गात्परत्वम्, उपसर्गैकदेशस्य इकारस्य ईकारात्मना सत्त्वेन ‘अभ्’ इत्यस्य उपसर्गत्वाऽभावात् । एकादेशस्य आदिवत्त्वमाश्रित्य इण्धातुत्वम्, अन्तवत्त्वमाश्रित्य तस्य उपसर्गानुप्रवेशश्चेत्यपि न संभवति, पूर्वपरशब्दाभ्यामन्तादिशब्दाभ्यां च विरोधस्य पुरः स्फूर्तिकतया विरुद्धातिदेशद्वयस्य युगपदसंभवादित्यर्थः । इदं च अन्तादिवत्सूत्रे भाष्ये स्पष्टम् । न च ‘अभ्’ इति भान्तस्य एकदेशविकृतन्यायेन उपसर्गत्वदीकारस्य परादिवत्त्वे ह्रस्वो दुर्वार इति वाच्यं, लक्ष्यानुसारेण क्वचिदेकदेशविकृतन्यायानाश्रयणादिति शब्देन्दुशेखरे विस्तरः । सम#एयादिति । आ-इयात् एयात् । समेयादित्यत्र एकारस्य अनण्त्वान्न ह्रस्वः । ग्रहणकसूत्रादन्यत्र पूर्वेणैव णकारेण प्रत्याहाराश्रयणादिति भावः । तर्हि क्वचित्समीया॑दिति प्रयोगः कथमित्याशङ्क्याह — समीयादिति प्रयोगस्तु भौवादिकस्येति । ‘इट किट कटी गतौ’ इति प्रश्लिष्टस्य इधातोराशीर्लिङिअकृत्सार्वधातुकयोर्दीर्घः॑ इति दीर्घो बोध्य इति भावः । लुङि विशेषमाह —

Tattvabodhini

एतेर्लिङि - एतेर्लिङि । इहाद्र्धधातुक इति स्वरूपकथनार्थं प्रक्षिप्तम् । किति लिङीत्येतावतैवेष्टसिद्धेः । उभयत आश्रय इति । अन्तादिशब्दाववयवविशेषवाचिनौ । तत्र यदि पूर्वस्यावयवबुद्ध्या एकादेश आश्रीयते तदा तस्यैव परस्य कथमादिवद्भावः स्यात् । एवं परस्यादित्त्वात् पूर्वस्यान्तवद्भावो न स्यात्, एकस्योभयापेक्षया पारतन्त्र्यविरोधादिति भावः । नन्वेवं रामौ इत्यस्यसुप्तिङन्त॑मिति पदत्वं न स्यात्, परादित्वे रामेति प्रकृतेरभावात् ।यस्मादत्प्रत्ययविधिस्तदादेस्तदन्तस्य ग्रहण॑मिति स्वीकाराद्रामित्यस्याऽप्रकृतित्वात् । पूर्वान्तत्वे तु परत्र प्रत्ययाऽभावात् । अत्राहुः — पूर्वं पदसंज्ञा पश्चादेकादेश इति नोक्तदोषः । इह च ज्ञापकं [तु]सुपिसूतिसमाः॑ इति । विध्यादौ समीयादिति न भवत्येव । आशीर्लिङि तुअकृत्सार्वे॑ति दीर्घे कृतेऽपि ह्रस्वत्वेन भाव्यमित्याङक्याह - समीयादिति प्रयोगस्तु भौवादकस्येति ।इटकटी॑त्यत्र प्रश्लिष्टस्य इधातोराशीर्लिङि इदं रूपम् ।वीगती॑त्यत्र ईकारोऽपि धात्वन्तरं प्रश्लिष्यते इति मते तु विध्यादिलिडपि भवत्येवेति बोध्यम् ।

Padamanjari

आशिषि लिङीत्यादिना सूत्रस्य विषयं दर्शयति । सार्वधातुके हि लिङ् दीर्घित्वमिणो न सम्भवति । ननु च सवर्णदीर्घत्वे सति सम्भवति - अभीयात्, प्रतीयात्, परीयादिति, नात्र ह्रस्वत्वेन भवितव्यम्; किं कारणम् ? ठुपसर्गादेतेःऽ इत्युभयत आश्रयणादन्तादिवद्भावाभावात् । आऐइयादित्यादि । आऔउह्यत इत्यादिना व्याख्यातम् ॥

Nyaas

उदियात् इति। इण्? गतौ (धातुपाठः-1045), आशिषि लिङ, स्कोः संयोगाद्योरन्ते च (8.2.29) इति सकारलोपः। अभीयात् इति। सवर्णदीर्घत्वेऽकृते ह्रस्वः। आशिषि लिङि इत्यादिना सूत्रस्य विषयं दर्शयति। सार्वधातुके हि लिङि दीर्घत्वमिणो न सम्भवतीति नात्रास्योपयोगः। यत्राकृत्सार्वधातुकयोर्दीर्घत्व (7.4.25) मापद्यते; तत्र दीर्घत्वे कृतेऽनेन ह्रस्वो भवति।

Prakriyasarvasvam

उपसर्गात् परस्येणो यादावार्धधातुके लिङि परेऽणो ह्रस्वः स्यात्। अन्वियात् । अन्वियास्ताम् । समियात् । ईधातोः समीयादित्या३द्यपि । <karika>आङ्पूर्वस्य तु लिङ्येयादित्यस्यान्योपसर्गंतः । समेयादिति सत्येतो ह्रस्वाभावार्थमण्ग्रहः ॥ ७१० ॥</karika> लुडादौ एता । एष्यति । ऐष्यत् । कर्मणि आयिषीष्ट । एषीष्ट । आयिता, एता । आयिष्यते, एष्यते । आयिष्यत, ऐष्यत ।<!इण्वदिक इति वाच्यम्!> (वा०) इत्युक्तेः इक्स्मरणे इत्यस्यापि सर्वमेवमेव । सत्वधिपूर्वं इति भेदः । अध्येति । अधीतः । अधियन्ति इत्यादि । विद ज्ञाने ।