74020: वच उम्¶
Padacheda: वचः | S | 6 | 1 |
उम् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The augment उ is added after the अ of वच् in the Aorist अङ्।
Vasu English Translation¶
The augment उ is added after the अ of वच् in the Aorist अङ्। As अवोचत्, अवोचताम्, अवोचन् ॥ See (3.1.52).
Kashika¶
वचेः अङ्गस्य अङि परतः उमागमो भवति। अवोचत्, अवोचताम्, अवोचन्।
Siddhanta Kaumudi¶
अङि परे । अवोचत् । अवोचत ॥ अथ शास्यान्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी ।{$ {!1045 इण्!} गतौ$} । एति । इतः ॥
Laghu Siddhanta Kaumudi¶
अङि परे। अवोचत्, अवोचत। अवक्ष्यत्, अवक्ष्य । <=चर्करीतं च=> (गणसूत्रम्) (धातुपाठे (02.0076)) । चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम्॥ {$ {! 25 ऊर्णुञ् !} आच्छादने $} (धातुपाठे (02.0034)) ॥
Balamanorama¶
वच उम् - वच उम् । शेषपूरणेन सूत्रं व्याचष्टे - अङि परे इति ।ऋदृशोऽङी त्यतस्तदनुवृत्तेरिति भावः । मित्त्वादन्त्यादचः परः । आद्गुणः । तदाह — अवोचदिति । अवक्ष्यत् अवक्ष्यत । इङ् त्विति । ‘इङ् अध्ययने’ इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः । इण्गताविति ।इणो य॑णित्यादौ विशेषणार्थो णकारः । एतीति । शपो लुकि तिपः पित्त्वेन ङित्त्वाऽभावाद्गुणः । इत इति । अपित्त्वेन ङित्त्वान्न गुणः । इ — अन्तीत्यत्र ङित्त्वाद्गुणाऽभावे इयङि प्राप्ते -
Nyaas¶
अवोचत् इति। वच परिभाषणे (धातुपाठः-1842), अस्यतिक्तिख्यातिभ्यः (3.1.52) इत्यादिनाङ्। मकारसय तदेव प्रयोजनम्॥